Donation Appeal
Choose Mantra
Samveda/65

इदं त एकं पर उ त एकं तृतीयेन ज्योतिषा सं विशस्व। संवेशनस्तन्वेऽ३चारुरेधि प्रियो देवानां परमे जनित्रे॥६५

Veda : Samveda | Mantra No : 65

In English:

Seer : bRRihaduktho vaamadevyaH | Devta : agniH | Metre : triShTup | Tone : dhaivataH

Subject : English Translation will be uploaded as and when ready.

Verse : ida.m ta eka.m para u ta eka.m tRRitiiyena jyotiShaa sa.m vishasva . sa.mveshanastanve3chaaruredhi priyo devaanaa.m parame janitre.65

Component Words :
idam. te. ekam. paraH. u . te. ekam. tRRitiiyena. jyotiShaa. sam. vishasva. sa.mveshanaH.sam.veshanaH. tanve.chaaruH. edhi. priyaH. devaanaam. parame. janitre ..

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : बृहदुक्थो वामदेव्यः | देवता : अग्निः | छन्द : त्रिष्टुप् | स्वर : धैवतः

विषय : अगला मन्त्र परमात्मा और जीवात्मा को लक्ष्य करके कहा गया है।

पदपाठ : इदम्। ते। एकम्। परः। उ । ते। एकम्। तृतीयेन। ज्योतिषा। सम्। विशस्व। संवेशनः।सम्।वेशनः। तन्वे।चारुः। एधि। प्रियः। देवानाम्। परमे। जनित्रे ।३।

पदार्थ : प्रथम—परमात्मा के पक्ष में। हे परमात्मन् ! (इदम्) यह, मेरे समीप विद्यमान पार्थिव अग्निरूप (ते) तेरी (एकम्) एक ज्योति है, (उ) और (परः) द्युलोक में विद्यमान, सूर्यरूप (ते) तेरी (एकम्) एक दूसरी ज्योति है। तू उससे भिन्न (तृतीयेन ज्योतिषा) तीसरी ज्योति से, निज ज्योतिर्मय स्वरूप से (संविशस्व) मेरे आत्मा मे भली-भाँति प्रविष्ट हो। (परमे) श्रेष्ठ (जनित्रे) आविर्भाव-स्थान मेरे आत्मा में (संवेशनः) प्रवेशकर्ता तू (तन्वे) अन्नमय, प्राणमय, मनोमय, विज्ञानमय एवं आनन्दमय कोशों सहित शरीर के लिए (चारुः) हितकारी, तथा (देवानाम्) इन्द्रिय, मन, बुद्धि आदि देवों का (प्रियः) प्रियकारी (एधि) हो ॥द्वितीय—जीवात्मा के पक्ष में। हे जीवात्मन् ! (इदम्) यह चक्षु आदि इन्द्रिय रूप (ते) तेरी (एकम्) एक ज्योति है, (उ) और (परः) उससे परे मन रूप (ते) तेरी (एकम्) एक दूसरी ज्योति है। तू (तृतीयेन) तीसरी परमात्मा रूप (ज्योतिषा) ज्योति से (संविशस्व) संगत हो। (परमे) सर्वोत्कृष्ट (जनित्रे) उत्पादक परमात्मा में (संवेशनः) संगत हुआ तू (तन्वे) अपने आश्रयभूत देह-संघात के लिए (चारुः) कल्याणकारी, और (देवानाम्) दिव्य गुणों का (प्रियः) स्नेहपात्र (एधि) हो ॥३॥

भावार्थ : पार्थिव अग्नि तथा सूर्यरूप अग्नि में परमात्मा की ही ज्योति प्रदीप्त हो रही है, जैसा कि कहा भी है—'अग्नि में परमेश्वररूप अग्नि प्रविष्ट होकर विचर रहा है’, ऋ० ४।३९।९; 'जो आदित्य में पुरुष बैठा है, वह मैं परमेश्वर ही हूँ’, य० ४०।१७; 'उसी की चमक से यह सब-कुछ चमक रहा है’, कठ० ५।१५। इसलिए पार्थिव अग्नि और सूर्याग्नि दोनों परमात्मा की ही ज्योतियाँ हैं। परन्तु परमात्मा की वास्तविक तीसरी ज्योति उसका अपना स्वाभाविक तेज ही है। उसी तेज से भक्तों के आत्मा में प्रवेश करके वह उनका कल्याण करता है और शरीर, प्राण, मन, बुद्धि आदि का हित-सम्पादन करता है। अतः उसकी तीसरी ज्योति को प्राप्त करने के लिए योगाभ्यास की विधि से सबको प्रयत्न करना चाहिए। मन्त्र के द्वितीय अर्थ में जीवात्मा को सम्बोधित किया गया है। हे जीवात्मन् ! तेरी एक ज्योति चक्षु, श्रोत्र आदि हैं, दूसरी ज्योति मन है, जैसा कि वेद में अन्यत्र कहा है—प्राणियों के अन्दर सबसे अधिक वेगवान् एक मनरूप ध्रुव ज्योति दर्शन करने के लिए निहित है, ऋ० ६।९।५। पर ये दोनों ज्योतियाँ साधनरूप हैं, साध्यरूप ज्योति तो तीसरी परमात्म-ज्योति ही है। अतः उसे ही प्राप्त करने के लिए प्राणपण से यत्न कर ॥३॥


In Sanskrit:

ऋषि : बृहदुक्थो वामदेव्यः | देवता : अग्निः | छन्द : त्रिष्टुप् | स्वर : धैवतः

विषय : अथ परमात्मनं जीवात्मानं वाभिलक्ष्योच्यते।

पदपाठ : इदम्। ते। एकम्। परः। उ । ते। एकम्। तृतीयेन। ज्योतिषा। सम्। विशस्व। संवेशनः।सम्।वेशनः। तन्वे।चारुः। एधि। प्रियः। देवानाम्। परमे। जनित्रे ।३।

पदार्थ : प्रथमः—परमात्मपरः। हे अग्ने परमात्मन् ! (इदम्) मत्समीपे विद्यमानं पार्थिवाग्निरूपम् (ते) तव (एकम्) एकं ज्योतिः अस्ति। (उ) किंच (परः) परस्ताद् द्युलोके विद्यमानं सूर्यरूपम् (ते) तव (एकम्) द्वितीयं ज्योतिः अस्ति। त्वं तद्भिन्नेन (तृतीयेन ज्योतिषा) तृतीयेन निजेन ज्योतिर्मयस्वरूपेण (संविशस्व) मदात्मनि प्रविष्टो भव। (परमे) श्रेष्ठे (जनित्रे) त्वदाविर्भावस्थाने मदात्मनि। जन्यते अत्र इति जनित्रम्। जनी प्रादुर्भावे धातोः अधिकरणे औणादिकः इत्रप्रत्ययः। (संवेशनः) प्रवेशकर्ता त्वम्। सं पूर्वाद् विश प्रवेशने धातोः कर्तरि युच्। (तन्वे) अन्नमयप्राणमयमनोमय- विज्ञानमयानन्दमयकोशसहिताय शरीराय (चारुः) हितकरः, (देवानाम्) इन्द्रियमनोबुद्ध्यादीनाम् (प्रियः) प्रियकरश्च (एधि) भव।अथ द्वितीयः—जीवात्मपरः। हे (अग्ने) जीवात्मन् ! (इदम्) चक्षुरादीन्द्रियात्मकम् (ते) तव (एकम्) एकं ज्योतिः अस्ति। (उ) अथ च (परः) ततः परस्ताद् विद्यमानं मनोरूपम् (ते) तव (एकम्) द्वितीयं ज्योतिः अस्ति। त्वम् (तृतीयेन) परमात्माख्येन (ज्योतिषा) अर्चिषा (संविशस्व) संगच्छस्व२। (परमे) सर्वोत्कृष्टे (जनित्रे) जनयितरि परमात्मनि। अत्र जनी धातोः कर्तरि इत्र प्रत्ययः। (संवेशनः) संगतः त्वम् (तन्वे) स्वाश्रयभूताय देहसंघाताय (चारुः) कल्याणकरः, (देवानाम्) दिव्यगुणानां (प्रियः) प्रेमास्पदं च (एधि) भव ॥३॥३अत्र श्लेषालङ्कारः ॥३॥

भावार्थ : पार्थिवाग्नौ सूर्याग्नौ च परमात्मन एव ज्योतिः प्रदीप्यते, यथोक्तम्—'अ॒ग्नाव॒ग्निश्चर॑ति॒ प्रवि॑ष्टः॒। अथ० ४।३९।९, यो॒ऽसावा॑दि॒त्ये पुरु॑षः॒ सोऽसाव॒हम्।' य० ४०।१७, 'तस्य भासा सर्वमिदं विभाति।' कठ० ५।१५ इति। अतस्तज्जोतिर्द्वयमपि परमात्मन एव। परं तस्य वास्तविकं तृतीयं ज्योतिस्तदीयं स्वात्मनिष्ठं स्वाभाविकं तेज एव। तेनैव तेजसा भक्तजनानामात्मानं प्रविश्य स तेषां कल्याणं करोति, शरीरप्राणमनोबुद्ध्यादीनां च हितं सम्पादयति। अतस्तस्य तृतीयं ज्योतिराप्तुं योगाभ्यासविधिना सर्वैः प्रयत्नोऽनुष्ठेयः। मन्त्रस्य द्वितीयेऽर्थे जीवात्मा समुद्बोधितः—हे जीवात्मन् ! एकं ते ज्योतिः चक्षुः-श्रोत्रादिकम्, द्वितीयं ज्योतिर्मनः 'ध्रु॒वं ज्योति॒र्निहि॑तं दृ॒शये॒ कं मनो॒ जवि॑ष्ठं प॒तय॑त्स्व॒न्तः।' ऋ० ६।९।५ इति श्रुतेः। एतज्ज्योतिर्द्वयं तव साधनरूपमेव, साध्यरूपं ज्योतिस्तु तृतीयं परमात्मज्योतिरस्ति। अतस्तदेवाधिगन्तुं प्राणपणेन यतस्व ॥३॥

टिप्पणी:१. ऋ १०।५६।१ देवता विश्वेदेवाः, 'संवेशने तन्वश्चारु' इति पाठः। अथ० १८।३।७ ऋषिः अथर्वा, देवता यमः, 'संवेशने तन्वा३ चारुरेधि प्रियो देवानां परमे सधस्थे' इति पाठः।२. संविशस्व संगच्छस्व—इति भ०, सा०।३. इदं ते तव एकं ज्योतिः वैद्युताख्यम्। परः परम् उत्कृष्टमित्यर्थः। उ इति पादपूरणः। ते तव एकम् आदित्याख्यम्। तृतीयेन ज्योतिषा पार्थिवेन अग्न्याख्येन संविशस्व। क्व पुनः संविशानि? उच्यते 'संवेशनः तन्वे। संविश्यते अस्मिन् इति संवेशनं वेद्याख्यं स्थानं, तस्मिन्नित्यर्थः। तन्वः शरीरस्य। संविश्य चारुः एधि शोभनो भव। प्रियः देवानाम्..... परमे उत्कृष्टे जनित्रे, जन्यतेऽस्मिन्निति जनित्रं कर्म यात्रारूपं, तस्मिन्नित्यर्थः। अथवा जन्मैव जनित्रम्, परमे जन्मनि वृक्षादौ यज्जन्म तस्मिन्नित्यर्थः—इति वि०।सायणस्त्वेवं व्याचष्टे—“एतया बृवदुक्थो वाजिनं नाम स्वपुत्रं संविशस्व मृतं वदति—हे मृतपुत्र, ते तव इदं ज्योतिः अग्न्याख्यम् एकम् एकोंऽशः। अतः ते तव देहगताग्न्यंशेन बाह्यम् अग्निं संगच्छस्व। तथा परः ऊ अन्योऽपि ते तव एकं वाय्वाख्योंऽशः, तेन च प्राणवाय्वाख्येन अंशेन बाह्यं वायुं संविशस्व।.... तथा तृतीयेन ज्योतिषा आदित्याख्येन तेजसा तवात्मना संविशस्व।..... तन्वे तनवे पुनः शरीरग्रहणाय चारुः कल्याणो भूत्वा तस्मिन् सूर्ये संवेशनः सम्यक् प्रवेष्टा” इत्यादि। परम् ऋगियम् अन्त्येष्टिकर्मणि चेद् विनियुज्येत तदा तादृशेऽर्थे संभवत्यपि बृवदुक्थो नाम ऋषिः वाजिनं नाम मृतं स्वपुत्रं वदतीत्यस्य इतिहासस्य कल्पनमनुचितमेव, वेदेषु लौकिकेतिहासस्याभावात्।