Donation Appeal
Choose Mantra
Samveda/89

अगन्म वृत्रहन्तमं ज्येष्ठमग्निमानवम् । य स्म श्रुतर्वन्नार्क्ष्ये बृहदनीक इध्यते॥८९

Veda : Samveda | Mantra No : 89

In English:

Seer : gopavana aatreyaH | Devta : agniH | Metre : anuShTup | Tone : gaandhaaraH

Subject : English Translation will be uploaded as and when ready.

Verse : aganma vRRitrahantama.m jyeShThamagnimaanavam . ya sma shrutarvannaarkShe bRRihadaniika idhyate.89

Component Words :
aganma. vRRitrahantamam.vRRitra.hantamam. jyeShTham. agni.m. aanavam . yaH. sma.shrutarvan. aarkShe. bRRihadaniikaH .bRRihat. aniikaH. idhyate..

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : गोपवन आत्रेयः | देवता : अग्निः | छन्द : अनुष्टुप् | स्वर : गान्धारः

विषय : अगले मन्त्र में परमात्मा के गुणों का वर्णन है।

पदपाठ : अगन्म। वृत्रहन्तमम्।वृत्र।हन्तमम्। ज्येष्ठम्। अग्निं। आनवम् । यः। स्म।श्रुतर्वन्। आर्क्षे। बृहदनीकः ।बृहत्। अनीकः। इध्यते।९।

पदार्थ : हम (वृत्रहन्तमम्) पापों के अतिशय विनाशक, (ज्येष्ठम्) सर्वाधिक प्रशंसनीय और महान् (आनवम्) मनुष्यों के हितकारी (अग्निम्) तेजस्वी परमेश्वर को (अगन्म) प्राप्त हुए हैं। (यः स्म) जो (श्रुतर्वन्) प्रसिद्ध किरणरूप अश्वोंवाले ज्योतिर्मय सूर्य में तथा (आर्क्षे) तारापुंज में (बृहदनीकः) विशाल तेजवाला होकर (इध्यते) भासमान होता है ॥९॥

भावार्थ : प्रचण्ड दीप्तिवाले सूर्य में, तारामण्डल में, सारे ही ब्रह्माण्ड में जिसका कर्तृत्व, जिसकी दी हुई शक्ति, जिसका उत्पन्न किया तेज द्योतमान है, जो पापों का संहारक, मनुष्यों का हितकर्ता, सर्वाधिक प्रशंसनीय पुराण-पुरुष है, उसकी सबको वन्दना, प्राप्ति और उपासना करनी चाहिए ॥९॥इस मन्त्र पर कुछ लोगों की यह व्याख्या असंगत है कि श्रुतर्वा नाम का कोई राजा था, जो ऋक्ष का पुत्र था, जिसके पास अग्नि प्रदीप्त रहती थी, क्योंकि वेदों में लौकिक इतिहास नहीं है ॥९॥


In Sanskrit:

ऋषि : गोपवन आत्रेयः | देवता : अग्निः | छन्द : अनुष्टुप् | स्वर : गान्धारः

विषय : अथ परमात्मगुणानाह।

पदपाठ : अगन्म। वृत्रहन्तमम्।वृत्र।हन्तमम्। ज्येष्ठम्। अग्निं। आनवम् । यः। स्म।श्रुतर्वन्। आर्क्षे। बृहदनीकः ।बृहत्। अनीकः। इध्यते।९।

पदार्थ : वयम् (वृत्रहन्तमम्२) अतिशयेन पापहन्तारम्। पाप्मा वै वृत्रः। श० ११।१।५।७, (ज्येष्ठम्) अतिशयेन प्रशस्यं वृद्धं वा। अतिशायनार्थे इष्ठनि 'ज्य च' अ० ५।३।६१, 'वृद्धस्य च' अ० ५।३।६२ इति सूत्राभ्यां क्रमेण प्रशस्यस्य वृद्धस्य च ज्यादेशः। (आनवम्३) अनुभ्यो मनुष्येभ्यो हितस्तम्। अनुरिति मनुष्यनाम। निघं० २।३। (अग्निम्) तेजस्विनं परमेश्वरम् (अगन्म) प्राप्ताः स्मः। (यः स्म) यः खलु (श्रुतर्वन्४) श्रुताः ख्याता अर्वाणः किरणरूपा अश्वा यस्य स श्रुतर्वा, तस्मिन् श्रुतर्वणि ज्योतिर्मये सूर्ये, श्रुतर्वन्, इत्यत्र 'सुपां सुलुक्' अ० ७।१।३९ इति सप्तम्या लुक्। 'श्रुत-अर्वन्' अत्र च 'शकन्ध्वादिषु पररूपं वाच्यम्' अ० ६।१।९४ वा० इति पररूपम्। तथा (आर्क्षे५) ऋक्षाणि नक्षत्राणि, तेषां समूह आर्क्षम्, तस्मिन् तारकपुञ्जे। ऋषन्ति गच्छन्त्याकाशे तानि ऋक्षाणि नक्षत्राणि। ऋष धातोः 'स्नुव्रश्चिकृत्यृषिभ्यः कित्' उ० ३।६६ इति स प्रत्ययः। तेषां समूहः आर्क्षम्। (बृहदनीकः५) महातेजाः सन् (इध्यते) दीप्यते, भासते। तथा चोपनिषद्वर्णः “न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः। तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति” कठ० ५।१५ इति।

भावार्थ : प्रचण्डदीप्तिमति सूर्ये, तारामण्डले, सर्वस्मिन्नेव ब्रह्माण्डे यस्य कर्तृत्त्वं, यत्प्रदत्ता शक्तिः, यत्कृतं च तेजो द्योतते, यः पापानां  हन्ता, मनुष्याणां हितकर्ता, प्रशस्यतमः पुराणपुरुषो वर्वर्ति स सर्वैर्नमसा वन्दनीयः प्राप्तव्य उपासनीयश्च ॥९॥अत्र श्रुतर्वा नाम राजा, स च ऋक्षस्य पुत्रः, तस्मिन् आर्क्षे श्रुतर्वणि अग्निः इध्यते स्म, इति केषाञ्चिद् व्याख्यानं तु न समञ्जसम्, वेदेषु लौकिकेतिहासाभावात्।

टिप्पणी:१. ऋ० ८।७४।४, 'यस्य श्रुतर्वा बृहन्नार्क्षो अनीक एधते' इत्युत्तरार्द्धपाठः।२. वृत्रहन्तमं शत्रूणां हन्तारम्—इति वि०। अतिशयेन तमोहन्तारम्— इति भ०। पापानामतिशयेन हन्तारम्—इति सा०।३. अनुर्मनुष्यः तस्यापत्यम्। मनुष्येण हि मन्थनेन अग्निर्जन्यते—इति वि०। अनवो मनुष्याः तेभ्यः हितम्—इति भ०। मनुष्यसम्बन्धिनम्, तेषां हितकारिणम्—इति सा०।४. श्रुतर्वन्निति विवरकारेण आमन्त्रितान्तं  स्वीकृतम्, तच्चिन्त्यं स्वरविरोधात्। श्रुतर्वा नाम ऋषि—इति वि०। श्रुतर्वणि राज्ञि—इति भ०। 'श्रुतर्वनाम्नि राजनि'—इति सा०।५. आर्क्ष्यः ऋक्षस्य पुत्रः इति वि०। आर्क्ष्ये ऋक्षपुत्रे—इति भ०। ऋक्षपुत्रे—इति सा०। सर्वैः 'आर्क्ष्ये' इति पाठं मत्वा व्याख्यातम्।६. बृहदनीकः बृहत्तेजाः—इति भ०।