Donation Appeal
Choose Mantra
Samveda/192

महि त्रीणामवरस्तु द्युक्षं मित्रस्यार्यम्णः। दुराधर्षं वरुणस्य॥१९२

Veda : Samveda | Mantra No : 192

In English:

Seer : satyadhRRitirvaaruNiH | Devta : indraH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : mahi triiNaamavarastu dyukSha.m mitrasyaaryamNaH . duraadharSha.m varuNasya.192

Component Words :
mahi . triiNaam . avariti . astu . dyukSham.dyu.kSham. mitrasyaa.mi.trasya. aryamNaH. duraadharSham .duH. aadharSham. varuNasya..

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : सत्यधृतिर्वारुणिः | देवता : इन्द्रः | छन्द : गायत्री | स्वर : षड्जः

विषय : अगले मन्त्र में मित्र, वरुण और अर्यमा से रक्षण की याचना की गयी है।

पदपाठ : महि । त्रीणाम् । अवरिति । अस्तु । द्युक्षम्।द्यु।क्षम्। मित्रस्या।मि।त्रस्य। अर्यम्णः। दुराधर्षम् ।दुः। आधर्षम्। वरुणस्य।८।

पदार्थ : प्रथम—अध्यात्म और अधिदैवत पक्ष में। ऋचा का देवता इन्द्र होने से इन्द्र को सम्बोधन अपेक्षित है। हे इन्द्र परमैश्वर्यशाली जगदीश्वर ! आपकी कृपा से (मित्रस्य) अकाल-मृत्यु से रक्षा करनेवाले वायु और जीवात्मा का, (अर्यम्णः) अपने आकर्षण से पृथिवी आदि लोकों का नियन्त्रण करनेवाले सूर्यलोक का तथा इन्द्रियों को नियन्त्रण में रखनेवाले मन का, और (वरुणस्य) आच्छादक मेघ का तथा प्राण का, (त्रीणाम्) इन तीनों का (महत्) महान्, (द्युक्षम्) तेज को निवास करानेवाला और (दुराधर्षम्) दुष्पराजेय, दृढ़ (अवः) रक्षण (अस्तु) हमें प्राप्त हो ॥द्वितीय—राष्ट्र के पक्ष में। हे (इन्द्र) प्रजा के कष्टों को दूर करने तथा सुख प्रदान करनेवाले राजन् ! आपकी व्यवस्था से (मित्रस्य) सबके मित्र शिक्षाध्यक्ष का, (अर्यम्णः) श्रेष्ठों और दुष्टों के साथ यथायोग्य व्यवहार करनेवाले न्यायाध्यक्ष का, और (वरुणस्य) पाशधारी, शस्त्रास्त्रयुक्त, धनुर्वेद में कुशल सेनाध्यक्ष का, (त्रीणाम्) इन तीनों का (महि) महान्, (द्युक्षम्) राजनीति के प्रकाश से पूर्ण, (दुराधर्षम्) दुष्पराजेय (अवः) रक्षण (अस्तु) हम प्रजाजनों को प्राप्त हो ॥८॥इस मन्त्र में श्लेषालङ्कार है ॥८॥

भावार्थ : परमात्मा के अनुशासन में शरीरस्थ आत्मा, मन, बुद्धि, प्राण आदि और बाह्य सूर्य, पवन, बादल आदि तथा राजा के अनुशासन में सब राजमन्त्री एवं अन्य राज्याधिकारी अपना-अपना रक्षण आदि हमें प्रदान करें, जिससे हम उत्कर्ष के लिए प्रयत्न करते हुए समस्त प्रेय और श्रेय को प्राप्त कर सकें ॥८॥


In Sanskrit:

ऋषि : सत्यधृतिर्वारुणिः | देवता : इन्द्रः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ मित्रवरुणार्यम्णां रक्षणं याचमान आह।

पदपाठ : महि । त्रीणाम् । अवरिति । अस्तु । द्युक्षम्।द्यु।क्षम्। मित्रस्या।मि।त्रस्य। अर्यम्णः। दुराधर्षम् ।दुः। आधर्षम्। वरुणस्य।८।

पदार्थ : प्रथमः—अध्यात्माधिदैवतः। ऋच इन्द्रदेवताकत्वाद् इन्द्रः सम्बोध्यः। हे इन्द्र परमैश्वर्यशालिन् जगदीश्वर ! तव कृपया (मित्रस्य२) अकालमरणाद् रक्षकस्य वायोः जीवात्मनो वा। मित्रः प्रमीतेस्त्रायते। निरु० १०।२१। (अर्यम्णः) यः ऋच्छति नियच्छत्याकर्षणेन पृथिव्यादीन् सोऽर्यमा सूर्यलोकः तस्य, इन्द्रियाणां नियन्तुः मनसो वा, (वरुणस्य) आच्छादकस्य मेघस्य, प्राणस्य वा, (त्रीणाम्) एतेषां त्रयाणाम्। अत्र वा छन्दसि सर्वे विधयो भवन्तीति 'त्रेस्त्रयः।' ७।१।५३ इत्यनेम प्राप्तः त्रेस्त्रयादेशो न। (महि) महत् (द्युक्षम्) द्यां तेजः क्षाययति निवासयतीति तादृशम्, (दुराधर्षम्) दुःखेनाधर्षितुं योग्यम्, दृढम् (अवः) रक्षणम् (अस्तु) अस्मान् प्राप्नोतु ॥ संहितायाम् 'अवरस्तु' इत्यत्र 'अम्नरूधरवरित्युभयथा छन्दसि।' अ० ८।२।७० इत्यनेन 'अवस्' शब्दस्य सकारो रेफमापद्यते  ॥३अथ द्वितीयः—राष्ट्रपरः। हे इन्द्र प्रजाया दुःखविदारक सुखप्रदातः राजन् ! तव व्यवस्थया (मित्रस्य) मित्रभूतस्य शिक्षाध्यक्षस्य, (अर्यम्णः) श्रेष्ठैर्दुष्टैश्च जनैर्यो यथायोग्यं व्यवहरति तस्य न्यायाध्यक्षस्य, (वरुणस्य) पाशपाणेः शस्त्रास्त्रयुक्तस्य धनुर्वेदकुशलस्य सेनाध्यक्षस्य (त्रीणाम्) एतेषां त्रयाणाम् (महि) महत् (द्युक्षम्४) राजनीतिप्रकाशपूर्णम्। द्यौः राजविद्याप्रकाशः क्षियति निवसति अत्र तादृशम्। (दुराधर्षम्) दुष्प्रधर्षम्, दुर्जय्यम्, (अवः) रक्षणम् (अस्तु) अस्मान् प्रजाजनान् प्राप्नोतु ॥८॥५अत्र श्लेषालङ्कारः ॥८॥

भावार्थ : परमात्मानुशासने शरीराभ्यन्तरस्था आत्ममनोबुद्धिप्राणादयो बाह्याः सूर्यपवनपर्जन्यादयश्च, राजानुशासने च सर्वे राजमन्त्रिण इतरे राज्याधिकारिणश्च स्वकीयं रक्षणादिकमस्मभ्यं प्रयच्छन्तु, येन वयमुत्कर्षाय प्रयतमानाः समस्तं प्रेयः श्रेयश्च प्राप्नुयाम ॥८॥

टिप्पणी:१. ऋ० १०।१८५।१, य० ३।३१, देवता आदित्यः (स्वस्त्ययनम्)।२. दयानन्दर्षिर्यजुर्भाष्ये मित्रशब्देन बाह्याभ्यन्तरस्थं प्राणम्, अर्यमशब्देन सूर्यलोकं, वरुणशब्देन च वायुं जलं च गृहीतवान्।३. द्रष्टव्यम्—ऋक्तन्त्रप्रातिशाख्यम्। 'उभयथा भुवोऽम्नः ऊधरवः।’ ३।७।४। भुवः, अम्नः, ऊधः, अवः एते उभयथा उभयप्रकारेण विसर्जनीयरूपेण रेफरूपेण वा वर्तन्ते (विवरणम्)।४. (द्युक्षम्) द्यौर्नीतिः प्रकाशः क्षियति निवसति यस्मिंस्तत्—इति य० ३।३१ भाष्ये द०।५. मित्रवरुणार्यम्णां स्वरूपं निर्वचनादिकं च १८५ संख्यकस्य मन्त्रस्य भाष्ये द्रष्टव्यम्।