Samveda/236
तं वो दस्ममृतीषहं वसोर्मन्दानमन्धसः। अभि वत्सं न स्वसरेषु धेनव इन्द्रं गीर्भिर्नवामहे॥२३६
Veda : Samveda | Mantra No : 236
In English:
Seer : nodhaa gautamaH | Devta : indraH | Metre : bRRihatii | Tone : madhyamaH
Subject : English Translation will be uploaded as and when ready.
Verse : ta.m vo dasmamRRitiiShaha.m vasormandaanamandhasaH . abhi vatsa.m na svasareShu dhenava indra.m giirbhirnavaamahe.236
Component Words : tam . vaH. dasmam . RRitiiShaham. RRiti. saham. vasoH. mandaanam.andhasaH. abhi. vatsam .na .svasareShu. dhenavaH . indram. giirbhiH. navaamahe ..
Word Meaning :
Verse Meaning :
Purport :
In Hindi:
ऋषि : नोधा गौतमः | देवता : इन्द्रः | छन्द : बृहती | स्वर : मध्यमः
विषय : अगले मन्त्र में यह वर्णित है कि वह परमात्मा कैसा है, जिसकी हम स्तुति करते हैं।
पदपाठ : तम् । वः। दस्मम् । ऋतीषहम्। ऋति। सहम्। वसोः। मन्दानम्।अन्धसः। अभि। वत्सम् ।न ।स्वसरेषु। धेनवः । इन्द्रम्। गीर्भिः। नवामहे ।४।
पदार्थ : हे साथियो ! (वः) तुम्हारे और हमारे (दस्मम्) दर्शनीय अथवा दुःखों का क्षय करनेवाले, (ऋतीषहम्) आक्रान्ता काम-क्रोधादि शत्रुओं को पराजित करनेवाले, (वसोः) धनभूत (अन्धसः) भक्तिरूप सोमरस से (मन्दानम्) आनन्दित होनेवाले (तम्) उस प्रसिद्ध (इन्द्रम्) परमेश्वर को (अभि) लक्ष्य करके (स्वसरेषु) दिनों के आविर्भाव-काल में अथवा घरों में (गीर्भिः) वाणियों से, हम (नवामहे) स्तुति करते हैं, (न) जैसे (धेनवः) दूध देनेवाली गौएँ (वत्सम् अभि) बछड़े के प्रति (स्वसरेषु) प्रातः दोहन-वेला में अथवा गोशालाओं में रँभाती है ॥४॥इस मन्त्र में उपमालङ्कार है ॥४॥
भावार्थ : जैसे दिन निकलने पर गोशालाओं में स्थित गौएँ बछड़े को देखकर दूध पिलाने के लिए प्रेम से रँभाने लगती हैं, वैसे ही परमात्मा के प्रति हम प्रजाओं को प्रेम में भरकर स्तुतिगीत गाने चाहिएँ ॥४॥
In Sanskrit:
ऋषि : नोधा गौतमः | देवता : इन्द्रः | छन्द : बृहती | स्वर : मध्यमः
विषय : अथ स परमात्मा कीदृशोऽस्ति यं वयं स्तुम इत्याह।
पदपाठ : तम् । वः। दस्मम् । ऋतीषहम्। ऋति। सहम्। वसोः। मन्दानम्।अन्धसः। अभि। वत्सम् ।न ।स्वसरेषु। धेनवः । इन्द्रम्। गीर्भिः। नवामहे ।४।
पदार्थ : हे सखायः (वः) युष्माकम्, अस्माकं चेत्यपि द्योत्यते (दस्मम्२) दर्शनीयम्, यद्वा दुःखानामुपक्षयितारम्। दसि दंशनदर्शनयोः, दसु उपक्षये, ‘इषि युधीन्धिदसि’ उ० १।१४५ इति मक् प्रत्ययः। (ऋतीषहम्३) ऋतय आक्रान्तारः शत्रवस्तेषामभिभवितारम्। ऋ गतौ धातोः क्तिनि ऋतिः। ऋतिपूर्वात्, मर्षणार्थाद् अभिभवार्थाद् वा षह धातोः ‘छन्दसि सहः’ अ० ३।२।६३ इति ण्विः। ‘अन्येषामपि दृश्यते’ अ० ६।३।१३७ इति पूर्वपदस्य दीर्घः। (वसोः) वसुनः धनभूतात् (अन्धसः) भक्तिरूपात् सोमरसात्। अन्ध इति सोमनाम। निरु० १३।६। (मन्दानम्) आनन्दन्तम् (तम्) प्रसिद्धम् (इन्द्रम्) परमेश्वरम् (अभि) अभिलक्ष्य (स्वसरेषु४) दिनोदयेषु गृहेषु वा। स्वसराणि अहानि भवन्ति, स्वयंसारीणि, अपि वा स्वरादित्यो भवति स एनानि सारयति। निरु० ५।४। गृहनाम। निघं० ३।४। (गीर्भिः) वाग्भिः, वयम् (नवामहे) स्तुमः। णु स्तुतौ अदादिः, लटि ‘बहुलं छन्दसि’ अ० २।४।७३ इति शपो लुक् न, आत्मनेपदं छान्दसम्। (न) यथा। न इत्युपमार्थीयः। निरु० १।४। (धेनवः) पयस्विन्यो गावः (वत्सम् अभि) वत्समभिलक्ष्य (स्वसरेषु) दिनोदयेषु प्रातर्दोहनवेलासु गोष्ठरूपेषु गृहेषु वा नुवन्ति हम्भारवं कुर्वन्ति ॥४॥५अत्रोपमालङ्कारः ॥४॥
भावार्थ : यथा गोष्ठेषु स्थिता गावो दिनारम्भेषु पयः पाययितुं वत्सं प्रति प्रेम्णा हम्भारवं कुर्वन्ति तथैव परमात्मानं प्रति प्रजाभिरस्माभिः प्रेमनिर्भराभिर्भूत्वा स्तुतिगीतानि गेयानि ॥४॥
टिप्पणी:१. ऋ० ८।८८।१, य० २६।१, साम० ६८५, अथ० २०।९।१, ४९।४।२. दस्मम् उपक्षयितारं शत्रूणाम्—इति वि०। दर्शनीयम्—इति भ०, सा०।३. ऋतयः सेनाः गन्तृत्वात्। ता योऽभिभवति स ऋतीषाट्, तम् ऋतीषहम्। परकीयानां सेनानामभिभवितारम् इत्यर्थः—इति वि०। अर्तेः ऋतिः अरिः, अरीणामभिभवितारम्—इति भ०। ऋतयो बाधकाः शत्रवः तेषामभिभवितारम्—इति सा०। य ऋतीन् परपदार्थप्रापकाञ्छत्रून् सहते तम् इति ऋ० ६।१४।४ भाष्ये द०।४. स्वसरेषु यागगृहेषु—इति वि०। गोष्ठेषु—इति भ०। सूर्यनेतृकेषु दिवसेषु—इति सा०।५. दयानन्दर्षिर्यजुर्भाष्ये मन्त्रमिमं राजप्रजापक्षे व्याचष्टे।