Samveda/282
इन्द्र नेदीय एदिहि मितमेधाभिरूतिभिः। आ शं तम शंतमाभिरभिष्टिभिरा स्वापे स्वापिभिः इति नवमी दशतिः।। इति पञ्चमः खण्डः।। [स्वड । उड । धाड । ङा]॥२८२
Veda : Samveda | Mantra No : 282
In English:
Seer : medhyaH kaaNvaH | Devta : indraH | Metre : bRRihatii | Tone : madhyamaH
Subject : English Translation will be uploaded as and when ready.
Verse : indra nediiya edihi mitamedhaabhiruutibhiH . aa sha.mtama sha.mtamaabhirabhiShTibhiraa svaape svaapibhiH.282
Component Words : indra. nediiyaH. aa. it. ihi .mitamedhaabhiH.mita.medhaabhiH. uutibhiH. aa. shantama. shantatamaabhiH. abhiShTibhiH . aa.svaape.su.aape. svaapibhiH.su.aapibhiH.. aaapatadashati.
Word Meaning :
Verse Meaning :
Purport :
In Hindi:
ऋषि : मेध्यः काण्वः | देवता : इन्द्रः | छन्द : बृहती | स्वर : मध्यमः
विषय : अगले मन्त्र में इन्द्र नाम से परमेश्वर, राजा, विद्वान् आदि का आह्वान किया गया है।
पदपाठ : इन्द्र। नेदीयः। आ। इत्। इहि ।मितमेधाभिः।मित।मेधाभिः। ऊतिभिः। आ। शन्तम। शन्ततमाभिः। अभिष्टिभिः । आ।स्वापे।सु।आपे। स्वापिभिः।सु।आपिभिः।१०। आ.५४.अ.२१.प.२०१.त.दशति.४।
पदार्थ : हे (इन्द्र) परमेश्वर, राजन् वा विद्वन् ! आप (मितमेधाभिः) मेधापूर्ण (ऊतिभिः) रक्षाओं के साथ (नेदीयः इत्) हमारे अधिक समीप (आ इहि) आइए। हे (शन्तम) अतिशय कल्याण करनेवाले ! आप (शन्तमाभिः) अतिशय कल्याण करनेवाली (अभिष्टिभिः) अभीष्ट प्राप्तियों के साथ (आ) आइए। हे (स्वापे) सुबन्धु ! आप (स्वापिभिः) उत्कृष्ट बन्धुभावों के साथ (आ) आइए ॥१०॥इस मन्त्र में अर्थश्लेषालङ्कार है। दकार, तकार, मकार की आवृत्ति में, ‘भि’ की आवृत्ति में और ‘रभि’, ‘भिरा’ में वृत्त्यनुप्रास है। ‘शन्तम, शन्तमा’ और ‘स्वापे, स्वापि’ में छेकानुप्रास है ॥१०॥
भावार्थ : जैसे परमेश्वर की रक्षाएँ बुद्धिपूर्ण, दान कल्याणकारी और बन्धुभाव शुभ होते हैं, वैसे ही राष्ट्र में राजा और विद्वान् अध्यापक के भी हों ॥१०॥इस दशति में इन्द्र नाम से परमेश्वर, राजा, आचार्य आदि के गुण-कर्म-स्वभावों का वर्णन करके उनसे अभय आदि की याचना होने से, सूर्य नाम से भी इनकी स्तुति होने से और श्रद्धा आदि का भी महत्त्व वर्णित होने से इस दशति के विषय की पूर्व दशति के विषय के साथ संगति है ॥तृतीय प्रपाठक में द्वितीय अर्ध की चतुर्थ दशति समाप्त ॥तृतीय अध्याय में पञ्चम खण्ड समाप्त ॥
In Sanskrit:
ऋषि : मेध्यः काण्वः | देवता : इन्द्रः | छन्द : बृहती | स्वर : मध्यमः
विषय : अथेन्द्रनाम्ना परमेश्वरनृपविद्वदादय आहूयन्ते।
पदपाठ : इन्द्र। नेदीयः। आ। इत्। इहि ।मितमेधाभिः।मित।मेधाभिः। ऊतिभिः। आ। शन्तम। शन्ततमाभिः। अभिष्टिभिः । आ।स्वापे।सु।आपे। स्वापिभिः।सु।आपिभिः।१०। आ.५४.अ.२१.प.२०१.त.दशति.४।
पदार्थ : हे (इन्द्र) परमेश्वर राजन् विद्वन् वा ! त्वम् (मितमेधाभिः२) परिपूर्णप्रज्ञाभिः (ऊतिभिः) रक्षाभिः सह (नेदीयः इत्) अस्माकं निकटतरम् एव। अन्तिक शब्दादीयसुनि ‘अन्तिकबाढयोर्नेदसाधौ’ अ० ५।३।६३ इति अन्तिकस्य नेदादेशः। (आ इहि) आगच्छ। हे (शन्तम) अतिशयेन सुखयितः ! त्वम् (शन्तमाभिः) अतिशयेन सुखयित्रीभिः (अभिष्टिभिः३) प्राप्तिभिः सह। इष्टिः प्राप्तिः, इष गतौ। अभि पूर्वात् ‘एमन्नादिषु छन्दसि पररूपं वाच्यम्’। अ० ६।१।९४ वा० इति पररूपम्। (आ) आ इहि आगच्छ। हे (स्वापे) सुबन्धुभूत ! त्वम् (स्वापिभिः) सुबन्धुत्वैः सह (आ) आ इहि आगच्छ। उपसर्गावृत्तेः क्रियापदावृत्तिः स्वत एव भवतीति वैदिकभाषायाः शैली ॥१०॥अत्र अर्थश्लेषालङ्कारः। दकारतकारमकारणाम् ‘भि’ इत्यस्य चावृत्तौ, ‘रभि-भिरा’ इत्यत्र च वृत्त्यनुप्रासः। ‘शन्तम, शन्तमा’, ‘स्वापे, स्वापि’ इत्यत्र च छेकानुप्रासः ॥१०॥
भावार्थ : यथा परमेश्वरस्य रक्षा मेधापूर्णा दानानि कल्याणकराणि बन्धुत्वानि च शुभानि भवन्ति, तथैव नृपतेर्विदुषोऽध्यापकस्य चापि भवेयुः ॥१०॥ अत्रेन्द्रनाम्ना परमेश्वरनृपत्याचार्यादीनां गुणकर्मस्वभावमुपवर्ण्य ततोऽभयादियाचनात्, सूर्यनाम्नापि तत्सवनात्, श्रद्धादेरपि महत्त्ववर्णनादेतद्दशत्यर्थस्य पूर्वदशत्यर्थेन सह सङ्गतिरस्तीति वेद्यम् ॥इति तृतीयप्रपाठके द्वितीयार्धे चतुर्थी दशतिः ॥इति तृतीयाध्याये पञ्चमः खण्डः ॥
टिप्पणी:१. ऋ० ८।५३।५, ऋषिः मेध्यः काण्वः।२. मितः प्रक्षिप्तो मेधो यज्ञो यासु ऊतिषु ताः मितमेधाः ताभिः—इति वि०। निर्मितयज्ञाभिः निर्मितयज्ञभागाभिः ऊतिभिः मरुद्भिः सह—इति भ०। परिमितप्रज्ञाभिः ऊतिभिः रक्षाभिः। यद्वा निर्मितयज्ञाभिः मरुद्भिः सह—इति सा०।३. आभिमुख्येन इज्यन्ते यासु देवतास्ता अभिष्टयः इष्टय इत्यर्थः—इति वि०। त्वम् अभिगच्छन्तीभिः ऊतिभिः सह—इति भ०। प्राप्तिभिः अभिमताभिर्वा—इति सा०।