Samveda/283
इत ऊती वो अजरं प्रहेतारमप्रहितम्। आशुं जेतार हेतार रथीतममतूर्तं तुग्रियावृधम्॥२८३
Veda : Samveda | Mantra No : 283
In English:
Seer : nRRimedha aa~NgirasaH | Devta : indraH | Metre : bRRihatii | Tone : madhyamaH
Subject : English Translation will be uploaded as and when ready.
Verse : ita uutii vo ajara.m prahetaaramaprahitam . aashu.m jetaara.m hetaara.m rathiitamamatuurta.m tugriyaavRRidham.283
Component Words : itaH. uutii. vaH. ajaram. a. jaram. prahetaaram. pra. hetaaram . aprahitam.a.prahitam. aashum . jetaaram. hetaaram . rathiitamam. atuurtam.a.tuurtam. tugriyaavRRidham . tugriya.vRRidham..
Word Meaning :
Verse Meaning :
Purport :
In Hindi:
ऋषि : नृमेध आङ्गिरसः | देवता : इन्द्रः | छन्द : बृहती | स्वर : मध्यमः
विषय : प्रथम मन्त्र में परमेश्वर और राजा के गुण वर्णित किये गये हैं।
पदपाठ : इतः। ऊती। वः। अजरम्। अ। जरम्। प्रहेतारम्। प्र। हेतारम् । अप्रहितम्।अ।प्रहितम्। आशुम् । जेतारम्। हेतारम् । रथीतमम्। अतूर्तम्।अ।तूर्तम्। तुग्रियावृधम् । तुग्रिय।वृधम्।१।
पदार्थ : हे मनुष्यो ! (वः) तुम लोग (ऊती) रक्षा के लिए (अजरम्) बुढ़ापे अथवा जीर्णता से रहित, (प्रहेतारम्) शुभ कर्मों में प्रेरणा करनेवाले, (अ-प्रहितम्) स्वयं किसी अन्य से प्रेरित न होनेवाले, (आशुम्) शीघ्रकारी, न कि व्यर्थ ही कार्यों को लटकानेवाले, (जेतारम्) विजयी, (हेतारम्) वृद्धि करनेवाले, (रथीतमम्) गतिशील, सूर्यचन्द्रादिरूप रथों के तथा ब्रह्माण्डरूप रथ के श्रेष्ठ रथी, अथवा श्रेष्ठ रथारोही, (अतूर्तम्) किसी से हिंसित न होनेवाले, (तुग्रियावृधम्) अन्न में रहनेवाले अन्नरस, आकाश में रहनेवाले मेघजल या वायु, यज्ञ में रहनेवाले फलसाधनत्व तथा वरिष्ठ जनों में रहनेवाले धर्माचार के वर्धक इन्द्र परमेश्वर को अथवा प्रजाओं की वृद्धि करनेवाले इन्द्र राजा को (इतः) इधर अपने अभिमुख करो ॥१॥इस मन्त्र में श्लेषालङ्कार है। तकार और रेफ की अनेक बार आवृत्ति में, ‘तार’ की तीन बार आवृत्ति में और ‘तम, मतू’ में वृत्त्यनुप्रास है। ‘प्रहेता, प्रहित’ में छेकानुप्रास, और ‘हेतारं’ की आवृत्ति में यमक है ॥१॥
भावार्थ : मनुष्यों को चाहिए कि सांसारिक विषय-विलासों में अति प्रवृत्ति को छोड़कर विविध गुणोंवाले परमेश्वर की उपासना करके और राजा को प्रजाओं के अनुकूल करके अभ्युदय और निःश्रेयस की सिद्धि करें ॥१॥
In Sanskrit:
ऋषि : नृमेध आङ्गिरसः | देवता : इन्द्रः | छन्द : बृहती | स्वर : मध्यमः
विषय : तत्रादौ परमेश्वरस्य नृपतेश्च गुणा वर्ण्यन्ते।
पदपाठ : इतः। ऊती। वः। अजरम्। अ। जरम्। प्रहेतारम्। प्र। हेतारम् । अप्रहितम्।अ।प्रहितम्। आशुम् । जेतारम्। हेतारम् । रथीतमम्। अतूर्तम्।अ।तूर्तम्। तुग्रियावृधम् । तुग्रिय।वृधम्।१।
पदार्थ : हे मनुष्याः (वः) यूयम् (ऊती) ऊतये रक्षणाय, अव रक्षणे धातोः क्तिन्नन्ताद् ऊति शब्दाच्चतुर्थ्येकवचने ‘सुपां सुलुक्’ अ० ७।१।३९, इति पूर्वसवर्णदीर्घः। (अजरम्) जरावर्जितम्, जीर्णतारहितं वा (प्रहेतारम्) शुभकर्मसु प्रेरकम्। प्र-पूर्वो हि गतौ वृद्धौ च इति धातोः तृचि रूपम्। (अ-प्रहितम्) स्वयं केनापि अप्रेरितम्, (आशुम्) शीघ्रकारिणम्, न तु व्यर्थमेव कार्याणि लम्बयन्तम्, (जेतारम्) विजयिनम्, (हेतारम्) वर्द्धयितारम्। अत्र हि धातुर्वर्धनार्थो बोध्यः। (रथीतमम्) रंहणशीलानां सूर्यचन्द्रादीनां ब्रह्माण्डरथस्य वा श्रेष्ठं रथिनम् यद्वा श्रेष्ठं रथारोहिणम्। रथशब्दान्मत्वर्थे ‘छन्दसीवनिपौ च वक्तव्यौ। अ० ५।२।१२२’ वा० इति ई प्रत्ययः। अतिशयेन रथीः रथीतमः। (अतूर्तम्) अतूर्णम्, केनापि अहिंसितम्। तुर्वी हिंसायाम्, क्त प्रत्यये छान्दसं रूपम्। (तुग्रियावृधम्२) तुग्रे अन्ने आकाशे यज्ञे वरिष्ठजने वा भवाः तुग्रियाः, क्रमेण अन्नरसाः, मेघोदकानि वायवो वा, फलसाधनत्वानि, धर्माचाराश्च, तेषां वर्धकम् इन्द्रं परमेश्वरम्, यद्वा तुग्रे राष्ट्रयज्ञे भवाः प्रजाः तुग्रियाः तासां वर्धकम् इन्द्रं राजानम्। ‘तुग्राद् घन्। अ० ४।४।११५’ इति तुग्रशब्दाद् भवार्थे घन् प्रत्ययः. अन्नाकाशयज्ञवरिष्ठेषु तुग्रशब्दः इति काशिकावृत्तिः। तुग्रियान् वर्धयतीति तुग्रियावृत् तम्। पूर्वपदान्तस्य दीर्घश्छान्दसः। (इतः३) स्वाभिमुखं कुरुतेति शेषः ॥१॥अत्र श्लेषालङ्कारः। तकारस्य रेफस्य चासकृदावृत्तौ, तारस्य त्रिधावृत्तौ, ‘तम, मतू’ इत्यत्र च वृत्त्यनुप्रासः ‘प्रहेता, प्रहित’ इत्यत्र छेकानुप्रासः ‘हेतारं’ इत्यस्यावृत्तौ यमकम् ॥१॥
भावार्थ : मनुष्यैः सांसारिकविषयविलासेष्वति प्रवृत्तिं परिहाय विविधगुणगणविशिष्टं परमेश्वरमुपास्य राजानं च प्रजानुकूलं विधायाभ्युदयनिःश्रेयससिद्धिः कार्या ॥१॥
टिप्पणी:१. ऋ० ८।९९।७, अथ० २०।१०५।३। उभयत्र ‘तुग्रियावृधम्’ इत्यस्य स्थाने ‘तुग्र्यावृधम्’ इति पाठः।२. तुग्रिया इत्युदकनाम, तस्य संवर्धनम्। उदकस्य वर्धयितारमित्यर्थः—इति वि०। तदेव भरतस्वामिसायणयोरभिमतम्। ३. नृमेधः इतो द्युलोकात्, आह्वयतीति वाक्यशेषः—इति वि०। इतः इतोमुखाः, हवामहे इति शेषः—इति भ०। इतः कुरुत—इति सा०। केचित्तु ‘इत ऊती’ इत्यत्र प्रकृतिभावं मत्वा ‘इत गच्छत’ इति इण् धातोर्लोटि मध्यमबहुवचनत्वेन व्याचक्षिरे। तत्तु पदकारस्य न सम्मतम्, पदपाठे ‘इतः ऊती’ इति दर्शनात्।