Samveda/327
मेडिं न त्वा वज्रिणं भृष्टिमन्तं पुरुधस्मानं वृषभ स्थिरप्स्नुम्। करोष्यर्यस्तरुषीर्दुवस्युरिन्द्र द्युक्षं वृत्रहणं गृणीषे॥३२७
Veda : Samveda | Mantra No : 327
In English:
Seer : vaamadevo gautamaH | Devta : indraH | Metre : triShTup | Tone : dhaivataH
Subject : English Translation will be uploaded as and when ready.
Verse : meDi.m na tvaa vajriNa.m bhRRiShTimanta.m purudhasmaana.m vRRiShabha.m sthirapsnum . karoShyaryastaruShiirduvasyurindra dyukSha.m vRRitrahaNa.m gRRiNiiShe.327
Component Words : meDi.m . na .tvaa. vajriNa.m. bhRRiShTimanta.m. purudhasmaana.m.puru.dhasmaana.m. vRRiShabha.m. sthirapsnum.sthira.psnu.m. karoShi. aryaH. taruShiiH. duvasyuH. indra. dyukSham.dyu. kSham. vRRitrahaNa.m.vRRitra.hana.m. gRRiNiiShe. .
Word Meaning :
Verse Meaning :
Purport :
In Hindi:
ऋषि : वामदेवो गौतमः | देवता : इन्द्रः | छन्द : त्रिष्टुप् | स्वर : धैवतः
विषय : अगले मन्त्र में यह विषय है कि कैसे परमात्मा की मैं किसके समान स्तुति करता हूँ।
पदपाठ : मेडिं । न ।त्वा। वज्रिणं। भृष्टिमन्तं। पुरुधस्मानं।पुरु।धस्मानं। वृषभं। स्थिरप्स्नुम्।स्थिर।प्स्नुं। करोषि। अर्यः। तरुषीः। दुवस्युः। इन्द्र। द्युक्षम्।द्यु। क्षम्। वृत्रहणं।वृत्र।हनं। गृणीषे। ५।
पदार्थ : हे (इन्द्र) परमैश्वर्यवन् परमात्मन् ! (दुवस्युः) आपकी पूजा की चाहवाला मैं (वज्रिणम्) दुष्टों को दण्डित करनेवाले, (भृष्टिमन्तम्) दीप्तिमान्, शत्रु को भून डालनेवाले तेज से युक्त, (पुरुधस्मानम्) बहुतों के धारणकर्ता, (वृषभम्) सुख आदि की वर्षा करनेवाले, (स्थिरप्स्नुम्) स्थिर रूपवाले अर्थात् स्थिर गुण, कर्म, स्वभाव से युक्त, (द्युक्षम्) कर्तव्याकर्तव्य का प्रकाश देनेवाले, (वृत्रहणम्) पापों के विनाशक (त्वा) आपकी (मेडिं न) भूमि को वर्षा से सींचनेवाले अथवा विद्युद्गर्जना के आश्रयभूत बादल के समान अर्थात् जैसे वर्षा का इच्छक कोई मनुष्य बादल की बार-बार प्रशंसा करता है, वैसे (गृणीषे) स्तुति करता हूँ। हे परमात्मन् ! आप (अरीः) प्रजाओं को (तरुषीः) आपत्तियों को पार करने में अथवा शत्रु-विनाश में समर्थ (करोषि) कर देते हो ॥५॥इस मन्त्र में उपमालङ्कार है। ‘करोष्यर्यस्तरुषीः’ इस कारणात्मक वाक्य से स्तुतिरूप कार्य का समर्थन होने से अर्थान्तरन्यास भी है ॥५॥
भावार्थ : जैसे वर्षा चाहनेवाले किसान लोग वर्षक मेघ की पुनः पुनः प्रशंसा करते हैं, वैसे ही श्रेष्ठ गुण-कर्म-स्वभाववाले, सुख-समृद्धि की वर्षा करनेवाले परमेश्वर की सबको प्रशंसा और उपासना करनी चाहिए ॥५॥
In Sanskrit:
ऋषि : वामदेवो गौतमः | देवता : इन्द्रः | छन्द : त्रिष्टुप् | स्वर : धैवतः
विषय : अथ कीदृशं परमात्मानमहं कमिव स्तौमीत्याह।
पदपाठ : मेडिं । न ।त्वा। वज्रिणं। भृष्टिमन्तं। पुरुधस्मानं।पुरु।धस्मानं। वृषभं। स्थिरप्स्नुम्।स्थिर।प्स्नुं। करोषि। अर्यः। तरुषीः। दुवस्युः। इन्द्र। द्युक्षम्।द्यु। क्षम्। वृत्रहणं।वृत्र।हनं। गृणीषे। ५।
पदार्थ : हे (इन्द्र) परमैश्वर्यवन् परमात्मन् ! (दुवस्युः) परिचरणेच्छुः। दुवस्यतिः परिचरणकर्मा। निघं० ३।५। अहम् (वज्रिणम्) दुष्टानामुपरि उद्यतदण्डम्, (भृष्टिमन्तम्१) दीप्तिमन्तम्, शत्रुभर्जकतेजोयुक्तमित्यर्थः। भृष्टिः भर्जकं तेजः। भृजी भर्जने धातोः क्तिनि रूपम्। तद्वन्तम्। (पुरुधस्मानम्२) बहूनां धारकम्। दधातेरौणादिको मन् प्रत्ययः धातोश्च धसादेशः। (वृषभम्) सुखादीनां वर्षितारम्, (स्थिरप्स्नुम्३) स्थिररूपम्, स्थिरगुणकर्मस्वभावम् इत्यर्थः। प्सु इति रूपनाम निघं० ३।७। नकारोपजनश्छान्दसः। (द्युक्षम्) द्यां प्रकाशं क्षाययति विवासयति यस्तम् कर्तव्याकर्तव्यप्रकाशप्रदातारमित्यर्थः, (वृत्रहणम्) पापानां हन्तारम् (त्वा) त्वाम् (मेडिं न४) सेचकं, माध्यमिक्या वाच आश्रयभूतं पर्जन्यमिव। मेहति सिञ्चतीति मेडिः पर्जन्यः, मिह सेचने। यद्वा, मेडिरिति वाङ्नामसु पठितम्। निघं० १।१०। इह लक्षणया माध्यमिक्या वाच आश्रयभूतः पर्जन्यो गृह्यते। यथा वर्षार्थी कश्चित् पर्जन्यं भूयो भूयः स्तौति तथेत्यर्थः। (गृणीषे) स्तौमि। गृणातिः अर्चतिकर्मा। निघं० ३।१४। ‘सिब्बहुलं लेटि। अ० ३।१।३४’ इति सिबागमः। लेटि उत्तमैकवचने रूपम्। हे परमात्मन् ! त्वम् (अर्यः५) अरीः प्रजाः। प्रजा वा अरी। श० ३।९।४।२१। प्रजावाचिनः अरीशब्दात् शसि, ‘वा छन्दसि। अ० ६।१।१०६’ इति विकल्पतया पूर्वसवर्णस्य निषेधे तदभावे यणादेशे रूपम्। (तरुषीः) आपत्तरणसमर्थाः शत्रुविनाशसमर्था वा। तॄ प्लवनसंतरणयोरिति धातोर्बाहुलकादौणादिकः उषच् प्रत्ययः, ततो ङीप्। यद्वा तरुष्यतिः हन्तिकर्मा निरु० ५।२। (करोषि) विधत्से ॥५॥अत्रोपमालङ्कारः। ‘करोष्यर्यस्तरुषीः’ इति कारणवाक्येन स्तवनरूपस्य कार्यस्य समर्थनादर्थान्तरन्यासोऽपि ॥५॥
भावार्थ : यथा वर्षार्थिनः कृषीवला वृष्टिप्रदायकं मेघं पुनः पुनः प्रशंसन्ति, तथैव श्रेष्ठगुणकर्मस्वभावः सुखसमृद्धिवर्षकः परमेश्वरः सर्वैः प्रशंसनीय उपासनीयश्च ॥५॥
टिप्पणी:१. भृष्टिः भ्राजतेः दीप्तिकर्मणो रूपम्। दीप्तिमन्तम्—इति भ०। शत्रूणां भर्जनवन्तम्—इति सा०।२. पूर्विति धननाम। धस्मानमिति धसि सहने इत्यस्येदं रूपम्। धनानां सहनशीलम्—इति वि०। दधातेर्धस्मा। पुरूणां बहूनां विश्वेषां धारकम्—इति भ०। बहूनाम् उदकानां धारकम्। यद्वा वर्णव्यत्ययः। पुरूणां बहूनां दासयितारं शत्रूणां क्षपयितारम्—इति सा०।३. स्थिरः चिरन्तनः स्थविरश्चासौ प्स्नुश्च, तं स्थिरप्स्नुम्, चिरन्तनं हविषां भक्षयितारमित्यर्थः—इति वि०। प्सु इति रूपनाम। तत्र नकार उपजनः। स्थिरदेहम्—इति भ०। स्थिररूपम्—इति सा०।४. मेडिरिति वाङ्नाम। अन्तर्णीतमत्वर्थं द्रष्टव्यम्। मेडिमन्तम् वाग्मिनमित्यर्थः—इति वि०। मेडिं न वाचमिव। यथा वाचं सरस्वतीं स्तुवन्ति तथा—इति भ०। माध्यमिकीं वृष्टिप्रदां वाचमिव, तां यथा वृष्ट्यर्थं स्तुवन्ति तद्वत्—इति सा०।५. यस्त्वं करोषि अर्यः ईश्वरः, तरुषीः, तरुष्यतिः वधकर्मा, वधेन सङ्ग्रामो लक्ष्यते, सङ्ग्राममित्यर्थः—इति वि०। अर्यः अरीः, आर्यकर्मसु स्थिताः यज्वानः, तत्सम्बन्धिनीः प्रजाः तरुषीः आपदां तारिकाः करोषि—इति भ०। अर्यः अरीन् अस्मद्विरोधिनः तरुषीः तारकान् जेतॄनस्मान् करोषि। यद्वा तरुषीः तरणस्वभावान्। पक्षद्वयेऽपि लिङ्गव्यत्ययः। अर्यः अरीनस्माकं शत्रून् करोषि, उपक्षीणानिति शेषः—इति सा०।