Donation Appeal
Choose Mantra
Samveda/332

त्यमू षु वाजिनं देवजूत सहोवानं तरुतार रथानाम्। अरिष्टनेमिं पृतनाजमाशु स्वस्तये तार्क्ष्यमिहा हुवेम॥३३२

Veda : Samveda | Mantra No : 332

In English:

Seer : ariShTanemistaarkyaH | Devta : indraH | Metre : triShTup | Tone : dhaivataH

Subject : English Translation will be uploaded as and when ready.

Verse : tyamuu Shu vaajina.m devajuuta.m sahovaana.m tarutaara rathaanaam . ariShTanemi.m pRRitanaajamaashu.m svastaye taarkShyamihaa huvema.332

Component Words :
tyam.u.su. vaajinam. devajuutam.deva.juutam. sahovaanam. tarutaarama. rathaanaam. ariShTanemim.ariShTa.nemim. pRRitanaajam.aashum. svastaye.su.astaye. taarkShyam.iha. huvema..

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : अरिष्टनेमिस्तार्क्यः | देवता : इन्द्रः | छन्द : त्रिष्टुप् | स्वर : धैवतः

विषय : प्रथम मन्त्र में परमात्मा की स्तुति, सेनापतित्व और शिल्प विषय का वर्णन है।

पदपाठ : त्यम्।उ।सु। वाजिनम्। देवजूतम्।देव।जूतम्। सहोवानम्। तरुतारम। रथानाम्। अरिष्टनेमिम्।अरिष्ट।नेमिम्। पृतनाजम्।आशुम्। स्वस्तये।सु।अस्तये। तार्क्ष्यम्।इह। हुवेम।१।

पदार्थ : प्रथम—परमात्मा के पक्ष में। हम (त्यम् उ) उस (वाजिनम्) सब अन्नों वा धनों के स्वामी, (देवजूतम्) विद्वान् योगीजनों को प्राप्त अथवा प्रकाशक सूर्य, चाँद आदि तथा मन, चक्षु, श्रोत्र आदि में व्याप्त, (सहोवानम्) साहसी, बलवान् (रथानाम्) शरीररूप रथों के अथवा गतिशील पृथिवी, सूर्य, चन्द्र आदि लोकों के (तरुतारम्) चलानेवाले, (अरिष्टनेमिम्) अप्रतिहत दण्डशक्तिवाले, (पृतनाजम्) काम, क्रोध आदि की सेनाओं को परे फेंकने वा जीतनेवाले और सत्य, दया, उदारता आदि सद्गुणों की सेनाओं को प्राप्त करानेवाले, (आशुम्) शीघ्रकारी (तार्क्ष्यम्) विस्तीर्ण जगत् में निवास करनेवाले, सकलभुवनव्यापी, प्राप्तव्य परमात्मा को (इह) अपने इस जीवन में (स्वस्तये) कल्याण के लिए (सु हुवेम) भली-भाँति पुकारें ॥द्वितीय—सेनापति के पक्ष में। हम (त्यम् उ) उस (वाजिनम्) अन्न आदि सात्त्विक आहार करनेवाले, बलवान्, संग्रामकारी, (देवजूतम्) राजा द्वारा युद्धार्थ प्रेरित, (सहोवानम्) क्षात्र-तेज से युक्त, (रथानाम्) युद्ध के विमानों को (तरुतारम्) उड़ानेवाले, (अरिष्टनेमिम्) अक्षत रथचक्रवाले, (पृतनाजम्) संग्राम में अपनी सेनाओं को भेजनेवाले, तथा शत्रु-सेनाओं को उखाड़ फेंकनेवाले, (आशुम्) शीघ्रकारी, आलस्यरहित (तार्क्ष्यम्) गरुड़ के समान आक्रमण करनेवाले अथवा वायु के समान स्वपक्ष को जीवन देनेवाले तथा परपक्ष का भञ्जन करनेवाले सेनापति को (इह) इस संग्रामकाल में (स्वस्तये) राष्ट्र के उत्तम अस्तित्व के लिए (सु हुवेम) भली-भाँति पुकारें अथवा उत्साहित करें ॥तृतीय—वायु और विद्युत् के पक्ष में। हम (त्यम् उ) उस (वाजिनम्) अतिशय वेगवान्, (देवजूतम्) शिल्पविद्या के वेत्ता कुशल शिल्पियों द्वारा यान आदियों में प्रेरित, (सहोवानम्) अतिशय बलयुक्त, (रथानाम्) समुद्र, पृथिवी और अन्तरिक्ष में चलनेवाले वायु-यानों वा विद्युद्-यानों के (तरुतारम्) तराने या उड़ाने में साधनभूत, (पृतनाजम्) सांग्रामिक सेनाओं को देशान्तर में पहुँचाने में निमित्तभूत अथवा संग्राम को जीतने में साधनभूत, (आशुम्) यानों की तेज गति में निमित्तभूत, (तार्क्ष्यम्) अन्तरिक्षशायी वायु वा विद्युत् रूप अग्नि को (इह) इस शिल्पयज्ञ में (स्वस्तये) सुख के लिए (हुवेम) यान आदियों में प्रयुक्त करें ॥१॥इस मन्त्र में श्लेषालङ्कार है। ‘तरु, तारं’ में छेकानुप्रास और वकार, रेफ आदि की आवृत्ति में वृत्त्यनुप्रास है ॥१॥

भावार्थ : सब मनुष्यों को चाहिए कि उपासना-यज्ञ में सकलजगद्व्यापी परमेश्वर का, राष्ट्रयज्ञ में गरुड़ के समान परपक्षाक्रान्ता सेनापति का और शिल्पयज्ञ में कलाकौशल के साधक वायु वा विद्युत् का ग्रहण और उपयोग करें ॥१॥


In Sanskrit:

ऋषि : अरिष्टनेमिस्तार्क्यः | देवता : इन्द्रः | छन्द : त्रिष्टुप् | स्वर : धैवतः

विषय : अथ परमात्मस्तुतिसैनापत्यशिल्पविषयमाह।

पदपाठ : त्यम्।उ।सु। वाजिनम्। देवजूतम्।देव।जूतम्। सहोवानम्। तरुतारम। रथानाम्। अरिष्टनेमिम्।अरिष्ट।नेमिम्। पृतनाजम्।आशुम्। स्वस्तये।सु।अस्तये। तार्क्ष्यम्।इह। हुवेम।१।

पदार्थ : प्रथमः—परमात्मपरः। वयम् (त्यम् उ) तम् (वाजिनम्) सर्वेषामन्नानां धनानां वा स्वामिनम्, (देवजूतम्२) देवैर्विद्वद्भिः योगिभिः जूतं प्राप्तम्, यद्वा देवान् प्रकाशकान् सूर्यचन्द्रादीन् मनश्चक्षुःश्रोत्रादीन् वा जूतं गतम्, (सहोवानम्) सहस्वन्तम् बलवन्तमित्यर्थः। सहस् शब्दात् ‘छन्दसीवनिपौ च वक्तव्यौ’। अ० ५।२।१०९ वा० इत्यनेन मत्वर्थीयो वनिप्। (रथानाम्) शरीररथानाम् यद्वा रंहणशीलानां पृथिवीसूर्यचन्द्रादीनां लोकानाम्। रथो रंहतेर्गतिकर्मणः। निरु० ८।११। (तरुतारम्३) गमयितारम्। तॄ प्लवनसंतरणयोः। ‘ग्रसितस्कभित०’ अ० ७।२।३४ इति उडागमो निपात्यते। (अरिष्टनेमिम्) अप्रतिहतदण्डम्। नेमिरिति वज्रनाम। निघं० २।२०। (पृतनाजम्)४ पृतनानां कामक्रोधादिसेनानाम् अजितारं प्रक्षेप्तारं जेतारं वा, यद्वा पृतनाः सत्यदयादाक्षिण्यादिसद्गुणानां सेनाः अजति प्रापयतीति तम् (आशुम्) शीघ्रकारिणम् (तार्क्ष्यम्) सकलभुवनव्यापिनम् अभिगमनीयं वा परमात्मानम्। तीर्णे विस्तीर्णे जगति क्षियति निवसतीति तार्क्ष्यः। यद्वा गत्यर्थात् तृक्षतेर्ण्यति तार्क्ष्यः, अभिगमनीयः परमात्मा। (इह) अस्माकम् अस्मिन् जीवने। संहितायां ‘निपातस्य च’ इति दीर्घः। (स्वस्तये) कल्याणार्थम् (सु हुवेम) सम्यग् आह्वयेम। तमूषु इत्यत्र ‘इकः सुञि’ अ० ६।३।१३४ इति दीर्घः। ‘सुञः अ० ८।३।१०७’ इति षत्वम् ॥अथ द्वितीयः—सेनापतिपरः। वयम् (त्यम् उ) तम् (वाजिनम्) अन्नादिसात्त्विकाहारम्, बलवन्तम्, संग्रामकारिणं वा, (देवजूतम्) देवेन राज्ञा जूतं युद्धार्थं प्रेरितम्, (सहोवानम्) सहः शत्रुपराजयशीलं क्षात्रं तेजः तद्वन्तम्, (रथानाम्) युद्धे उपयुज्यमानानां विमानानाम् (तरुतारम्) प्लवयितारम्, (अरिष्टनेमिम्) अक्षतरथचक्रम्, (पृतनाजम्) संग्रामे स्वसेनानाम् प्रेरकम्, शत्रुसेनानां प्रक्षेप्तारं वा, (आशुम्) क्षिप्रकारिणम्, न त्वलसम्, (तार्क्ष्यम्) गरुडपक्षिवदाक्रान्तारम्, वायुवत् स्वपक्षीयाणां जीवनदायिनम् परपक्षीयाणां भञ्जकं वा सेनापतिम् (इह) अस्मिन् संग्रामकाले (स्वस्तये) राष्ट्रस्य पूजितास्तित्वाय। स्वस्तीत्यविनाशिनाम। अस्तिरभिपूजितः स्वस्तीति। निरु० ३।२०। (सु हुवेम) सम्यगाह्वयेम, सम्यगुत्साहयेम वा ॥अथ तृतीयः—वायुविद्युत्परः। वयम् (त्यम् उ) तम् (वाजिनम्) तीव्रवेगम्, (देवजूतम्) देवैः शिल्पविद्यावेत्तृभिः कुशलैः शिल्पिभिः यानादिषु प्रेरितम्, (सहोवानम्) अतिशयबलयुक्तम्, (रथानाम्) समुद्रपृथिव्यन्तरिक्षयायिनां वायुरथानां विद्युद्यानानां वा (तरुतारम्) तरणसाधनभूतं प्लवनसाधनभूतं वा, (पृतनाजम्) सांग्रामिकसेनानां देशान्तरप्रापणे निमित्तभूतम्, संग्रामजयसाधनभूतं वा। पृतना इति संग्रामनाम। निघं० २।१७। सेनार्थे तु प्रसिद्धमेव। (आशुम्) यानानां क्षिप्रगमनहेतुभूतम् (तार्क्ष्यम्) अन्तरिक्षशायिनं वायुं विद्युदग्निं वा (इह) अस्मिन् शिल्पयज्ञे (स्वस्तये) सुखाय (हुवेम) यानादिषु प्रयुञ्जीमहि ॥१॥यास्काचार्य इमामृचमेवं व्याचष्टे—तार्क्ष्यस्त्वष्ट्रा व्याख्यातः। तीर्णे अन्तरिक्षे क्षियति, तूर्णमर्थं रक्षति अश्नोतेर्वा। तं भृशमन्नवन्तम्। जूतिर्गतिः प्रीतिर्वा। देवजूतं देवगतं देवप्रीतं वा। सहस्वन्तम्। तारयितारं रथानाम्। अरिष्टनेमिम् पृतनाजितम्, आशुं स्वस्तये तार्क्ष्यमिह ह्वयेमेति कमन्यं मध्यमादेवमवक्ष्यत्—इति। निरु० १०।२७ ॥अत्र श्लेषालङ्कारः। ‘तरु-तारं’ इत्यत्र छेकानुप्रासः। वकाररेफाद्यावृत्तौ च वृत्त्यनुप्रासः ॥१॥

भावार्थ : सर्वैर्जनैरुपासनायज्ञे सकलजगद्व्यापी तार्क्ष्यः परमेश्वरो, राष्ट्रयज्ञे गरुडवत् परपक्षाक्रान्ता सेनापतिः, शिल्पयज्ञे च कलाकौशलसाधको वायुर्विद्युदग्निर्वा ग्राह्य उपयोक्तव्यश्च ॥१॥

टिप्पणी:१. ऋ० १०।१७८।१ ‘सहावानं’ इति पाठः। अथ० ७।८५।१, ऋषिः अथर्वा, ‘पृतनाजि’ इति पाठः।२. देवजूतम्। देवैर्मरुदादिभिरनुगतम्—इति वि०। देवैः स्तोतृभिः प्रेरितम्—इति भ०। देवैः सोमाहरणाय प्रेरितम्। जु इति गत्यर्थः सौत्रो धातुः, अस्मात् क्तः, पूर्वपदप्रकृतिस्वरत्वम्। यद्वा देवैः प्रीयमाणं तर्प्यमाणम्—इति सा०।३. तरुतारम् हन्तारम् रथानां शत्रूणां स्वभूतानाम्—इति वि०। हिंसितारं रथानां प्रतिरथानाम्। अथवा रथानां गन्तॄणां तरुतारं गन्तृतमम्। तरतिर्गतिकर्माणि—इति भ०। रथानाम् अन्यदीयानां तरुतारं संग्रामे तारकम्। यद्वा रंहणशीला अमी इमे लोका रथाः, तान् सोमाहरणसमये शीघ्रं तरीतारम्—इति सा०।४. पृतनाजम्। पृतनेति संग्रामनाम। तस्मादुत्तरस्य जयतेर्ड प्रत्ययः। पृतनाजं संग्रामाणां जेतारमित्यर्थः—इति वि०। पृतनानाम् अजितारम् क्षेप्तारम्। अज गतिक्षेपणयोः—इति भ०। पृतनानां शत्रुसेनानाम् आजितारं प्रगमयितारं जेतारं वा। अज गतिक्षेपणयोः अस्मात् क्विप्—इति सा०।