Donation Appeal
Choose Mantra
Samveda/344

इममिन्द्र सुतं पिब ज्येष्ठममर्त्यं मदम्। शुक्रस्य त्वाभ्यक्षरन्धारा ऋतस्य सादने॥३४४

Veda : Samveda | Mantra No : 344

In English:

Seer : gotamo raahuugaNaH | Devta : indraH | Metre : anuShTup | Tone : gaandhaaraH

Subject : English Translation will be uploaded as and when ready.

Verse : imamindra suta.m piba jyeShThamamartya.m madam . shukrasya tvaabhyakSharandhaaraa RRitasya saadane.344

Component Words :
imam. indra .sutam. piba. jyeShTham . amartyam.a.martyam. madam. shukrasya. tvaa.abhi.akSharan dhaaraaH. RRitasya . saadane..

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : गोतमो राहूगणः | देवता : इन्द्रः | छन्द : अनुष्टुप् | स्वर : गान्धारः

विषय : अगले मन्त्र में यह विषय है कि इन्द्र सोमरस का पान करे।

पदपाठ : इमम्। इन्द्र ।सुतम्। पिब। ज्येष्ठम् । अमर्त्यम्।अ।मर्त्यम्। मदम्। शुक्रस्य। त्वा।अभि।अक्षरन् धाराः। ऋतस्य । सादने।३।

पदार्थ : प्रथम—परमात्मा के पक्ष में। हे (इन्द्र) अध्यात्मसम्पत्ति के प्रदाता परमैश्वर्यवन् परमात्मन् ! तुम (इमम्) इस (ज्येष्ठम्) अतिशय प्रशंसनीय, (अमर्त्यम्) दिव्य, (मदम्) स्तोता को आनन्द देनेवाले (सुतम्) तैयार किये हुए हमारे श्रद्धारसरूप सोम का (पिब) पान करो। (ऋतस्य) ध्यान-यज्ञ के (सादने) सदनभूत हृदय में (शुक्रस्य) दीप्त, पवित्र श्रद्धारस की (धाराः) धाराएँ (त्वा अभि) तुम्हारे प्रति (अक्षरन्) बह रही हैं ॥द्वितीय—गुरु-शिष्य पक्ष में। शिष्य के प्रति यह आचार्य की उक्ति है। हे (इन्द्र) जिज्ञासु एवं विद्युत् के समान तीव्रबुद्धिवाले मेरे शिष्य ! तू (इमम्) मेरे द्वारा दिये जाते हुए इस (ज्येष्ठम्) श्रेष्ठ (अमर्त्यम्) चिर-स्थायी, (मदम्) तृप्तिप्रद, (सुतम्) अध्ययन-अध्यापन-विधि से निष्पादित ज्ञानरस को (पिब) पान कर, जिस ज्ञानरस को (शुक्रस्य) पवित्र (ऋतस्य) अध्ययन-अध्यापन-रूप यज्ञ के (सादने) सदन में, अर्थात् गुरूकुल में (धाराः) मेरी वाणियाँ (त्वा अभि) तेरे प्रति (अक्षरन्) सींच रही हैं ॥३॥इस मन्त्र में श्लेषालङ्कार है ॥३॥

भावार्थ : सब लोग दुःखविदारक, आनन्द के सिन्धु परमेश्वर के प्रति श्रद्धा को हृदय में धारण कर उसकी उपासना करें और गुरुजन शिष्यों के प्रति प्रेम से प्रभावी शिक्षा-पद्धति द्वारा विद्या प्रदान करें ॥३॥


In Sanskrit:

ऋषि : गोतमो राहूगणः | देवता : इन्द्रः | छन्द : अनुष्टुप् | स्वर : गान्धारः

विषय : अथेन्द्रः सोमरसं पिबेदित्याह।

पदपाठ : इमम्। इन्द्र ।सुतम्। पिब। ज्येष्ठम् । अमर्त्यम्।अ।मर्त्यम्। मदम्। शुक्रस्य। त्वा।अभि।अक्षरन् धाराः। ऋतस्य । सादने।३।

पदार्थ : प्रथमः—परमात्मपरः। हे (इन्द्र) अध्यात्मसम्पत्प्रदातः परमैश्वर्यवन् परमात्मन् ! त्वम् (इमम्) प्रत्यक्षम् (ज्येष्ठम्) अतिशयेन प्रशस्यम्। इष्ठन् प्रत्यये ‘ज्य च। अ० ५।३।६१’ इति प्रशस्यस्य ज्यादेशः। (अमर्त्यम्२) दिव्यम्, (मदम्) स्तोतुरानन्दप्रदम् (सुतम्) अभिषुतमस्माकं श्रद्धारसरूपं सोमम् (पिब) आस्वादय। (ऋतस्य३) ध्यानयज्ञस्य। ऋतम् इति यज्ञनाम। निरु० ६।२२। (सादने) सदने, हृदये इत्यर्थः (शुक्रस्य) दीप्तस्य पवित्रस्य च श्रद्धारसस्य। शुच दीप्तौ, शुचिर् पूतीभावे। ऋजेन्द्र० उ० २।२९ इति रन् प्रत्यये नित्त्वादाद्युदात्ते प्राप्ते निपातनादन्तोदात्तत्वम्। (धाराः) प्रवाहसन्ततयः (त्वा अभि) त्वां प्रति (अक्षरन्) स्रवन्ति ॥अथ द्वितीयः—गुरुशिष्यपरः। शिष्यं प्रति आचार्यस्योक्तिरियम्। हे (इन्द्र४) जिज्ञासो, विद्युद्वत् तीव्रबुद्धे मदीय शिष्य ! त्वम् (इमम्) मया प्रदीयमानम्, (ज्येष्ठम्) श्रेष्ठम्, (अमर्त्यम्) चिरस्थायिनम्। अमरमिति वाच्यार्थः, चिरस्थायिनमिति लक्ष्यार्थः, तेन अतिशयरूपोऽर्थो द्योत्यते। (मदम्) तृप्तिप्रदम् (सुतम्) अध्ययनाध्यापनविधिना निष्पादितम् ज्ञानरसम् (पिब) आस्वादय। यं ज्ञानरसम् (शुक्रस्य) पवित्रस्य (ऋतस्य) अध्ययनाध्यापनयज्ञस्य (सादने) गृहे, गुरुकुले इत्यर्थः (धाराः) मदीयाः वाचः। धारा इति वाङ्नाम। निघं० १।११। (त्वा अभि) त्वां प्रति (अक्षरन्) क्षारयन्ति, सिञ्चन्ति ॥३॥अत्र श्लेषालङ्कारः ॥३॥

भावार्थ : सर्वे दुःखविदारकमानन्दसिन्धुं परमेश्वरं प्रति श्रद्धां हृदि निधाय तमुपासीरन्, गुरवश्च शिष्यान् प्रति प्रेम्णा प्रभाविशिक्षापद्धत्या विद्यां प्रदद्युः ॥३॥५

टिप्पणी:१. ऋ० १।८४।४; साम० ९४९।२. अमर्त्यम् दिव्यम्—इति ऋ० १।८४।४ भाष्ये द०। अमर्त्यम् अमर्त्यताहेतुम्—इति भ०। अस्माकम् सोमपानजन्यो मदो मदान्तरवन्मारको न भवतीत्यर्थः—इति सा०।३. ऋतस्य यज्ञस्य सादने गृहे यज्ञवास्तुनि—इति भ०।४. (इन्द्र) योगैश्वर्यजिज्ञासो इति ऋ० १।१७६।६ भाष्ये, (इन्द्रम्) विद्युद्वत्तीव्रबुद्धिम् इति च ऋ० ६।४८।१४ भाष्ये द०।५. एतन्मन्त्रव्याख्याने दयानन्दर्षिर्ऋग्भाष्ये “कश्चिदपि विद्यासुभोजनैर्विना वीर्यं प्राप्तुं न शक्नोति, तेन विना सत्यस्य विज्ञानं विजयश्च न जायते” इति भावार्थे प्राह।