Samveda/355
स पूर्व्यो महोनां वेनः क्रतुभिरानजे। यस्य द्वारा मनुः पिता देवेषु धिय आनजे॥३५५
Veda : Samveda | Mantra No : 355
In English:
Seer : pragaathaH kaaNvaH | Devta : indraH | Metre : anuShTup | Tone : gaandhaaraH
Subject : English Translation will be uploaded as and when ready.
Verse : sa puurvyaa mahonaa.m venaH kratubhiraanaje . yasya dvaaraa manuH pitaa deveShu dhiya aanaje.355
Component Words : saH. puurvyaH. mahonaam. venaH . kratubhiH.aanaje. yasya. dvaaraa. manuH. pitaa. deveShu. dhiyaH . aanaje..
Word Meaning :
Verse Meaning :
Purport :
In Hindi:
ऋषि : प्रगाथः काण्वः | देवता : इन्द्रः | छन्द : अनुष्टुप् | स्वर : गान्धारः
विषय : अगले मन्त्र में इन्द्र परमात्मा की महिमा का वर्णन है।
पदपाठ : सः। पूर्व्यः। महोनाम्। वेनः । क्रतुभिः।आनजे। यस्य। द्वारा। मनुः। पिता। देवेषु। धियः । आनजे।४।
पदार्थ : (महोनाम्) पूजनीयों में भी (पूर्व्यः) पूज्यता में श्रेष्ठ, (वेनः) मेधावी और कमनीय (सः) वह परमैश्वर्यवान् इन्द्र जगदीश्वर (क्रतुभिः) सृष्टिसञ्चालन आदि कर्मों से (आनजे) व्यक्त होता है, अनुमान किया जाता है, (यस्य द्वारा) जिस जगदीश्वर के द्वारा (मनुः) मननशील (पिता) शरीर का पालक जीवात्मा (देवेषु) शरीरवर्ती मन, बुद्धि, प्राण, इन्द्रियों आदि में (धियः) उन-उनकी क्रियाओं को (आनजे) प्राप्त कराता है ॥४॥इस मन्त्र में नकार का अनुप्रास है, ‘नजे’ की आवृत्ति में यमक है ॥४॥
भावार्थ : संसार में दिखायी देनेवाली सूर्यचन्द्रोदय, ऋतुचक्रप्रवर्तन आदि क्रियाएँ किसी कर्ता के बिना नहीं हो सकतीं, अतः परमात्मा का अनुमान कराती हैं। देह का स्वामी जीवात्मा भी परमात्मा की ही सहायता से देह में स्थित मन, बुद्धि, प्राण, इन्द्रियों आदि में संकल्प, निश्चय, प्राणन, दर्शन, स्पर्शन आदि क्रियाओं को प्रवृत्त करता है ॥४॥
In Sanskrit:
ऋषि : प्रगाथः काण्वः | देवता : इन्द्रः | छन्द : अनुष्टुप् | स्वर : गान्धारः
विषय : अथेन्द्रस्य परमात्मनो महिमानमाह।
पदपाठ : सः। पूर्व्यः। महोनाम्। वेनः । क्रतुभिः।आनजे। यस्य। द्वारा। मनुः। पिता। देवेषु। धियः । आनजे।४।
पदार्थ : (महोनाम्) पूजनीयानामपि। मह पूजायाम् इति धातोः असुन् प्रत्यये महसामिति प्राप्ते छान्दसो नुडागमः। (पूर्व्यः) पूर्वः, पूज्यतायां श्रेष्ठः। ‘पादार्घाभ्यां च। अ० ५।४।२५’ इत्यत्र चकारेणानुक्तसमुच्चयं मत्वा पूर्वादिभ्यः शब्देभ्यश्छन्दसि स्वार्थे यत् प्रत्ययं विहितवान् काशिकाकारः। (वेनः) मेधावी कान्तो वा। वेन इति मेधाविनाम, निघं० ३।१५। वेनतिः कान्तिकर्मा, निघं० २।६। (सः) असौ इन्द्रः परमैश्वर्यवान् जगदीश्वरः (क्रतुभिः) स्वकीयैः कर्मभिः दृश्यमानैः सृष्टिसञ्चालनादिभिः (आनजे) व्यज्यते। (यस्य द्वारा) यस्य जगदीश्वरस्य द्वारेण (मनुः) मनसा मननशीलः (पिता) देहस्य पालकः जीवात्मा (देवेषु) देहवर्तिषु प्रकाशकेषु मनोबुद्धिप्राणेन्द्रियादिषु (धियः) तत्तत्क्रियाः। धीः इति कर्मनाम। निघं० २।१। (आनजे) प्रापयति। अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु। द्वितीयपादान्ते ‘आनजे’ इत्यत्र व्यक्त्यर्थात् कर्मणि लिट्। चतुर्थपादान्ते च गत्यर्थात् णिजर्थगर्भात् कर्त्तरि लिट्, यत्र यद्वृत्तयोगाद् ‘यद्वृत्तान्नित्यम्। अ० ८।१।६६’ इति निघाताभावः ॥४॥२अत्र नकारानुप्रासः, ‘नजे’ इत्यस्यावृत्तौ च यमकम् ॥४॥
भावार्थ : जगति परिदृश्यमानाः सूर्यचन्द्रोदयऋतुचक्रप्रवर्तनादिक्रियाः कञ्चित् कर्तारं विनाऽनुपपद्यमानाः परमात्मानमनुमापयन्ति। देहस्वामी जीवात्मापि परमात्मन एव साहाय्येन देहस्थेषु मनोबुद्धिप्राणेन्द्रियादिषु संकल्पाध्यवसायप्राणनदर्शनस्पर्शनादिक्रियाः प्रवर्तयति ॥४॥
टिप्पणी:१. ऋ० ८।६३।१, ‘महोनां’ ‘मनुः पिता’ इत्यत्र क्रमेण ‘महानां’ ‘मनुष्पिता’ इति पाठः।२. महोनाम्, घकारस्य हकारापत्तिः छान्दसी। मघोनां मघवतां धनवतां मध्ये वेनः कान्तः, व्यक्तीकरोत्यात्मानम्। धियः यागविषयाः प्रज्ञाः बुद्धिरित्यर्थः, आनजे, अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु इत्येतस्य गत्यर्थस्य अन्तर्णीतण्यर्थस्य चेदं रूपम्, आगमयति उत्पादयतीत्यर्थः—इति वि०। सः इन्द्रः, पूर्व्यः मुख्यः, महोनाम् महीयमानानां पूज्यानाम्। वेनः प्राज्ञः कमनीयो वा, क्रतुभिः कर्मभिः सर्वैः आनजे प्राप्यते। (अज गतौ)। यस्य इन्द्रस्य द्वारा द्वारभूतेन, मनुः प्रजापतिः, पिता पितृसमः, देवेषु इन्द्रियेषु, धियः प्रज्ञानानि, आनजे निक्षिप्तवान् (अज क्षेपणे)। इन्द्रो हि प्राणाः, तदधिष्ठितानि इन्द्रियाणि ज्ञानानि जनयन्ति। अतः इन्द्रस्य स्वभूतानि इन्द्रियाणि इत्युच्यन्ते—इति भ०।