Donation Appeal
Choose Mantra
Samveda/580

आ सोता परि षिञ्चताश्वं न स्तोममप्तुररजस्तुरम्। वनप्रक्षमुदप्रुतम्॥५८०

Veda : Samveda | Mantra No : 580

In English:

Seer : RRijishvaa bhaaradvaajaH | Devta : pavamaanaH somaH | Metre : kakup | Tone : RRIShabhaH

Subject : English Translation will be uploaded as and when ready.

Verse : aa sotaa pari Shi~nchataashva.m na stomamaptura.m rajasturam . vanaprakShamudaprutam.580

Component Words :
aa. sota. pari. si~nchata. ashvam. na. stomam. apturam. rajasturam. vanaprakSham .vana.prakSham. udaprutam.uda.prutam..

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : ऋजिश्वा भारद्वाजः | देवता : पवमानः सोमः | छन्द : ककुप् | स्वर : ऋषभः

विषय : अगले मन्त्र में मनुष्यों को परमात्मा की आराधना के लिए प्रेरणा दी गयी है।

पदपाठ : आ। सोत। परि। सिञ्चत। अश्वम्। न। स्तोमम्। अप्तुरम्। रजस्तुरम्। वनप्रक्षम् ।वन।प्रक्षम्। उदप्रुतम्।उद।प्रुतम्।३।

पदार्थ : हे मित्रो ! तुम (स्तोमम्) समूह रूप में विद्यमान (अप्तुरम्) नदी-नद-समुद्र के जलों में वेग से यान चलाने के साधनभूत, (रजस्तुरम्) अन्तरिक्षलोक में यानों को तेजी से ले जाने में साधनभूत, (वनप्रक्षम्) वनों को जलानेवाले, (उदप्रुतम्) जलों को भाप बनाकर ऊपर ले जानेवाले (अश्वम्) आग, विद्युत् आदि रूप अग्नि को (न) जैसे, शिल्पी लोग (आ सुन्वन्ति) उत्पन्न करते हैं तथा (परि सिञ्चन्ति) जलादि से संयुक्त करते हैं, वैसे ही (स्तोमम्) स्तुति के पात्र, (अप्तुरम्) प्राणों को प्रेरित करनेवाले, (रजस्तुरम्) पृथिवी, चन्द्र, सूर्य, नक्षत्र आदि लोकों को वेग से चलानेवाले, (वनप्रक्षम्) सूर्यकिरणों अथवा मेघ-जलों को भूमण्डल पर सींचनेवाले, (उदप्रुतम्) शरीरस्थ रक्त-जलों को अथवा नदियों के जलों को प्रवाहित करनेवाले सोम परमात्मा को (आ सोत) हृदय में प्रकट करो और (परि सिञ्चत) श्रद्धारसों से सींचो ॥३॥इस मन्त्र में श्लिष्टोपमालङ्कार है। आपः, वनम्, उदकम् ये सब निघण्टु (१।१२) में जलवाची पठित होने से तथा निरुक्त (१२।७) में रजस् शब्द के भी जलवाची होने से ‘अप्तुरम्, रजस्तुरम्, वन-प्रक्षम्, उदप्रुतम्’ ये सब समानार्थक प्रतीत होते हैं, किन्तु प्रदर्शित व्याख्या के अनुसार वस्तुतः भिन्न अर्थवाले हैं, अतः यहाँ पुनरुक्तवदाभास अलङ्कार है। त्, म् आदि की आवृत्ति में वृत्त्यनुप्रास है। ‘तुरम्’ की आवृत्ति में लाटानुप्रास है ॥३॥

भावार्थ : जैसे शिल्पी लोग विद्युत् आदि रूप अग्नि को यानों में संयुक्त करते तथा जल, वायु आदि से सिक्त करते हैं, वैसे ही मनुष्यों को चाहिए कि प्राणों के प्रेरक, द्यावापृथिवी आदि लोकों के धारक, सूर्यकिरणों और मेघजलों के वर्षक परमात्मा को हृदय में संयुक्त कर श्रद्धा-रसों से सीचें ॥३॥


In Sanskrit:

ऋषि : ऋजिश्वा भारद्वाजः | देवता : पवमानः सोमः | छन्द : ककुप् | स्वर : ऋषभः

विषय : अथ जनान् परमात्माराधनाय प्रेरयति।

पदपाठ : आ। सोत। परि। सिञ्चत। अश्वम्। न। स्तोमम्। अप्तुरम्। रजस्तुरम्। वनप्रक्षम् ।वन।प्रक्षम्। उदप्रुतम्।उद।प्रुतम्।३।

पदार्थ : हे सखायः यूयम् (स्तोमम्) समूहरूपेण विद्यमानम्, (अप्तुरम्) यः अप्सु नदीनदसमुद्रवर्तिषु उदकेषु तोरयति वेगेन गमयति यानानि तम्। अप्पूर्वकात् तुर त्वरणे धातोर्णिजन्तात् क्विप्। (रजस्तुरम्) यः रजसि अन्तरिक्षलोके तोरयति वेगेन गमयति यानानि तम्, (वनप्रक्षम्) यो वनानि अरण्यानि पृणक्ति संस्पृशति दहति वा तम्। वनपूर्वात् पृची सम्पर्के धातोः बाहुलकाद् औणादिकः सः प्रत्ययः। (उदप्रुतम्) यः उदकं प्रवयति वाष्पीकृत्य ऊर्ध्वं गमयति तम्। उदकपूर्वात् प्रुङ् गतौ धातोः क्विप्। उदकस्य उदभावः। (अश्वम्२) वह्निविद्युदादिरूपम् अग्निम् (न) यथा, शिल्पिनः (आ सुन्वन्ति) उत्पादयन्ति (परि सिञ्चन्ति) जलादिभिः परितः संयोजयन्ति, तथा (स्तोमम्) स्तुतिपात्रम्। स्तूयते इति स्तोमः। ष्टुञ् स्तुतौ धातोः ‘अर्तिस्तुसु०। उ० १।१४०’ इति मन् प्रत्ययः। नित्त्वादाद्युदात्तत्वम्। (अप्तुरम्३) यः अपः प्राणान् तोरयति प्रेरयति तम्। आपो वै प्राणाः। श० ३।८।२।४, प्राणा वा आपः। तै० ३।२।५।२। (रजस्तुरम्) यो रजांसि पृथिवीचन्द्रसूर्यनक्षत्रादिलोकान् तोरयति शीघ्रं गमयति तम्, (वनप्रक्षम्) यो वनानि सूर्यरश्मीन् मेघोदकानि च पर्षति सिञ्चति भूमण्डले तम्। वनम् इति रश्मिनाम उदकनाम च। निघं० १।५, १।२२, पृषु सेचने, भ्वादिः। (उदप्रुतम्) यः उदकानि शरीरस्थानि रुधिराणि नदीभवानि जलानि च प्रवयते प्रवाहयति तम् परमात्मसोमम् (आ सोत) आ सुनुत हृदये प्रकटयत। षुञ् अभिषवे, स्वादिः, लोटि ‘तप्तनप्तनथनाश्च। अ० ७।१।१४५’ इति तस्य तबादेशः। पित्त्वान्ङित्वाभावे न गुणनिषेधः। विकरणस्य लुक्। (परि सिञ्चत) श्रद्धारसैः सर्वतः सिञ्चत च ॥३॥अत्र श्लिष्टोपमालङ्कारः। आपः, वनम्, उदकम् इति सर्वेषां जलनामसु पठितत्वात् (निघं० १।१२), निरुक्ते रजःशब्दस्यापि च जलवाचित्वात् (निरु० १२।७)। ‘अप्तुरम्-रजस्तुरम्-वनप्रक्षम्- उदप्रुतम्’ इति सर्वे समानार्थकाः प्रतीयन्ते, किन्तु वस्तुतः प्रदर्शितव्याख्यानानुसारं ते भिन्नार्थाः, अतः पुनरुक्तवदाभासोऽलङ्कारः। तकारमकारादीनामावृत्तौ च वृत्त्यनुप्रासः। ‘तुरं-तुरम्’ इत्यत्र लाटानुप्रासः ॥३॥

भावार्थ : यथा शल्पिनो विद्युदाद्यग्निं यानेषु संयोजयन्ति जलवाय्वादिभिश्च सिञ्चन्ति तथा सर्वे मनुष्याः प्राणानां प्रेरकं, द्यावापृथिव्यादिलोकानां धारकं, सूर्यकिरणानां मेघजलानां च वर्षकं परमात्मानं हृदये संयोज्य श्रद्धारसेनाभिषिञ्चेयुः ॥३॥

टिप्पणी:१. ऋ० ९।१०८।७ ‘वनप्रक्ष’ इत्यत्र ‘वनक्रक्ष’ इति पाठः। साम० १३९४।२. ‘प्र नूनं जातवेदसम् अश्वं हिनोत वाजिनम्। ऋ० १०।१८८।१’ इत्याग्नेये जातवेदसे सूक्ते अग्निरश्वः उक्तः। अग्निरेव यदश्वः। श० ६।३।३।२२ इति च ब्राह्मणम्।३. (अप्तुरम्) योऽपः प्राणान् जलानि वा तोरयति प्रेरयति तम् इति ऋ० ३।२७।११ भाष्ये द०।