Samveda/678
स्वायुधः पवते देव इन्दुरशस्तिहा वृजना रक्षमाणः। पिता देवानां जनिता सुदक्षो विष्टम्भो दिवो धरुणः पृथिव्याः॥६७८
Veda : Samveda | Mantra No : 678
In English:
Seer : ushanaa kaavyaH | Devta : pavamaanaH somaH | Metre : triShTup | Tone : dhaivataH
Subject : English Translation will be uploaded as and when ready.
Verse : svaayudhaH pavate deva indurashastihaa vRRijanaa rakShamaaNaH . pitaa devaanaa.m janitaa sudakSho viShTambho divo dharuNaH pRRithivyaaH.678
Component Words : svaayudhaH . su . aayudhaH . pavate . devaH . induH . ashastihaa . ashasti . haa . vRRijanaa . rakShamaaNa . pitaa . devaanaam . janitaa . sudakSha . su . dakSha . viTambhaH . vi . stambhaH . divaH . dharuuNaH . pRRithivyaaH .
Word Meaning :
Verse Meaning :
Purport :
In Hindi:
ऋषि : उशना काव्यः | देवता : पवमानः सोमः | छन्द : त्रिष्टुप् | स्वर : धैवतः
विषय : अगले मन्त्र में यह वर्णन है कि गुरु किन गुणों से युक्त हो।
पदपाठ : स्वायुधः । सु । आयुधः । पवते । देवः । इन्दुः । अशस्तिहा । अशस्ति । हा । वृजना । रक्षमाण । पिता । देवानाम् । जनिता । सुदक्ष । सु । दक्ष । विटम्भः । वि । स्तम्भः । दिवः । धरूणः । पृथिव्याः ॥
पदार्थ : (स्वायुधः) भद्र दण्डवाला, (देवः) सुख आदि का दाता, (अशस्तिहा) अप्रशस्ति को दूर करनेवाला, (वृजना) बलों की (रक्षमाणः) रक्षा करनेवाला, (पिता) पितृतुल्य, (देवानां जनिता) विद्वानों को उत्पन्न करनेवाला, (सुदक्षः) उत्तम बलवाला, (दिवः) विद्या के सूर्य का (विष्टम्भः) आधारभूत, (पृथिव्याः) राष्ट्रभूमि का (धरुणः) धारण करनेवाला (इन्दुः) तेजस्वी गुरु (पवते) पवित्रता प्रदान करता है ॥२॥
भावार्थ : मन्त्रोक्त गुणों से युक्त गुरु का जो सेवन करते हैं, वे विद्वान्, सदाचारी और प्रशस्त कीर्तिवाले होते हैं ॥२॥
In Sanskrit:
ऋषि : उशना काव्यः | देवता : पवमानः सोमः | छन्द : त्रिष्टुप् | स्वर : धैवतः
विषय : अथ गुरुः किंगुणविशिष्टः स्यादित्याह।
पदपाठ : स्वायुधः । सु । आयुधः । पवते । देवः । इन्दुः । अशस्तिहा । अशस्ति । हा । वृजना । रक्षमाण । पिता । देवानाम् । जनिता । सुदक्ष । सु । दक्ष । विटम्भः । वि । स्तम्भः । दिवः । धरूणः । पृथिव्याः ॥
पदार्थ : (स्वायुधः२) भद्रदण्डः, (देवः) सुखादीनां दाता, (अशस्तिहा३) अप्रशस्तेः हन्ता, (वृजना) वृजनानि बलानि [वृजनम् इति बलनाम। निघं० २।९।] (रक्षमाणः) त्रायमाणः, (पिता) पितृवद् वर्तमानः, (देवानाम्) विदुषाम्, (जनिता) जनयिता, (सुदक्षः) शोभनबलः, (दिवः) विद्यासूर्यस्य (विष्टम्भः) आधारभूतः, (पृथिव्याः) राष्ट्रभूमेः (धरुणः) धारयिता, (इन्दुः) तेजसा दीप्तः गुरुः (पवते) पवित्रतां प्रयच्छति ॥२॥
भावार्थ : मन्त्रोक्तगुणयुक्तं गुरुं ये सेवन्ते ते विद्वांसः सदाचाराः प्रशस्तकीर्तयश्च जायन्ते ॥२॥
टिप्पणी:१. ऋ० ९।८७।२ ‘वृजना’ इत्यत्र ‘वृ॒जनं॒’ इति पाठः।२. स्वायुधः असिखड्गपरशुप्रासादिभिरायुधैः स्वायुधः। अथवा वज्र-स्रुव-स्रुक्-शम्याकप्रभृतिभिर्यज्ञायुधैः स्वायुधः—इति वि०।३. अशस्तिहा अशस्तयः शत्रवः, अथवा अशस्ता वाचः अशस्तानि वा कर्माणि ये कुर्वन्ति तेषां हन्ता—इति वि०।