Samveda/696
अस्येदिन्द्रो मदेष्वा ग्राभं गृभ्णाति सानसिम्। वज्रं च वृषणं भरत्समप्सुजित्(कि)।।॥६९६
Veda : Samveda | Mantra No : 696
In English:
Seer : agnishchaakShuShaH | Devta : pavamaanaH somaH | Metre : uShNik | Tone : RRIShabhaH
Subject : English Translation will be uploaded as and when ready.
Verse : asyedindro madeShvaa graabha.m gRRibhNaati saanasim . vajra.m cha vRRiShaNa.m bharatsamapsujit.696
Component Words : asya . it . indraH . madeShu . aa . graabham . gRRibhNaati . saanasim . vajram . cha . vRRiShaNam . bharat . sam . apsujit . apsu . jit .
Word Meaning :
Verse Meaning :
Purport :
In Hindi:
ऋषि : अग्निश्चाक्षुषः | देवता : पवमानः सोमः | छन्द : उष्णिक् | स्वर : ऋषभः
विषय : अगले मन्त्र में पुनः उसी विषय का वर्णन करते हैं।
पदपाठ : अस्य । इत् । इन्द्रः । मदेषु । आ । ग्राभम् । गृभ्णाति । सानसिम् । वज्रम् । च । वृषणम् । भरत् । सम् । अप्सुजित् । अप्सु । जित् ॥
पदार्थ : (अस्य इत्) इस ज्ञान-कर्म-उपासना रूप सोमरस के ही (मदेषु) उत्साहों में (इन्द्रः) वीर मनुष्य (सानसिम्) ग्रहण करने योग्य (ग्राभम्) धनुष् को (आ गृभ्णाति) थामता है, (च) और (अप्सुजित्) समुद्र के जल में तथा अन्तरिक्ष में भी शत्रु को जीतनेवाला वह वीर (वृषणम्) गोली या गोले बरसानेवाले (वज्रम्) बन्दूक, तोप आदि सुदृढ़ हथियार का (संभरत्) संधान कर लेता है ॥३॥
भावार्थ : ज्ञान-कर्म-उपासना रूप दिव्य सोमरस के पान से अपूर्व उत्साहवान् होकर मनुष्य भूमि, जल, आकाश कहीं भी विद्यमान दुर्दान्त शत्रुओं को भी जीतने में समर्थ हो जाता है ॥३॥
In Sanskrit:
ऋषि : अग्निश्चाक्षुषः | देवता : पवमानः सोमः | छन्द : उष्णिक् | स्वर : ऋषभः
विषय : अथ पुनस्तमेव विषयमाह।
पदपाठ : अस्य । इत् । इन्द्रः । मदेषु । आ । ग्राभम् । गृभ्णाति । सानसिम् । वज्रम् । च । वृषणम् । भरत् । सम् । अप्सुजित् । अप्सु । जित् ॥
पदार्थ : (अस्य इत्) अस्य ज्ञानकर्मोपासनारूपस्य सोमरसस्य एव (मदेषु) उत्साहेषु (इन्द्रः) वीरो जनः (सानसिम्) संभजनीयम् (ग्राभम्) ग्रहीतव्यं धनुः। [गृह्यते इति ग्राहः, स एव ग्राभः, ‘हृग्रहोर्भश्छन्दसि’ इति हस्य भः।] (आ गृभ्णाति) आगृह्णाति। [ग्रह धातोः पूर्ववद् हस्य भः।] (च) किञ्च, (अप्सुजित्) समुद्रजलेषु अन्तरिक्षे चापि शत्रूणां जेता स वीरः। [आपः इति अन्तरिक्षनाम उदकनाम च। निघं० १।३, १।१२।] (वृषणम्) गुलिकानां गोलकानां वा वर्षकम् (वज्रम्) भुशुण्डीशतघ्न्यादिकम् वज्रायुधम् (संभरत्) संदधाति ॥३॥
भावार्थ : ज्ञानकर्मोपासनारूपस्य दिव्यस्य सोमरसस्य पानादपूर्वोत्साहसम्पन्नो नरो भुवि वा जले वान्तरिक्षे वा क्वापि विद्यमानान् दुर्दान्तानपि रिपून् जेतुं पारयति ॥३॥
टिप्पणी:१. ऋ० ९।१०६।३, गृभ्णीत इति भेदः।