Samveda/798
इन्द्र वाजेषु नोऽव सहस्रप्रधनेषु च। उग्र उग्राभिरूतिभिः॥७९८
Veda : Samveda | Mantra No : 798
In English:
Seer : madhuchChandaa vaishvaamitraH | Devta : indraH | Metre : gaayatrii | Tone : ShaDjaH
Subject : English Translation will be uploaded as and when ready.
Verse : indra vaajeShu no.ava sahasrapradhaneShu cha . ugra ugraabhiruutibhiH.798
Component Words : indra .vaajeShu .naH .ava .sahasrapradhaneShu .sahasra .pradhaneShu .cha .ugraH .ugraabhiH .uutibhiH.
Word Meaning :
Verse Meaning :
Purport :
In Hindi:
ऋषि : मधुच्छन्दा वैश्वामित्रः | देवता : इन्द्रः | छन्द : गायत्री | स्वर : षड्जः
विषय : तृतीय ऋचा की पूर्वार्चिक में ५९८ क्रमाङ्क पर परमेश्वर और राजा के पक्ष में व्याख्या की गयी थी। यहाँ जीवात्मा का विषय कहते हैं।
पदपाठ : इन्द्र ।वाजेषु ।नः ।अव ।सहस्रप्रधनेषु ।सहस्र ।प्रधनेषु ।च ।उग्रः ।उग्राभिः ।ऊतिभिः॥
पदार्थ : हे (इन्द्र) शरीर के अधिष्ठाता जीवात्मन् ! (उग्रः) वीर तू (वाजेषु) संग्रामों में (सहस्रप्रधनेषु च) तथा सहस्रों प्रकृष्ट धन जिनमें प्राप्त होते हैं, ऐसे चक्रवर्ती-राज्य-साधक महायुद्धों में (उग्राभिः) अत्यन्त उत्कृष्ट (ऊतिभिः) रक्षाओं से (नः) हमारी (रक्ष) रक्षा कर ॥३॥
भावार्थ : मनुष्य का आत्मा यदि बलवान् है तो उसे कोई भी पराजित नहीं कर सकता ॥३॥
In Sanskrit:
ऋषि : मधुच्छन्दा वैश्वामित्रः | देवता : इन्द्रः | छन्द : गायत्री | स्वर : षड्जः
विषय : तृतीया ऋक् पूर्वार्चिके ५९८ क्रमाङ्के परमेश्वरपक्षे नृपतिपक्षे च व्याख्याता। अत्र जीवात्मविषय उच्यते।
पदपाठ : इन्द्र ।वाजेषु ।नः ।अव ।सहस्रप्रधनेषु ।सहस्र ।प्रधनेषु ।च ।उग्रः ।उग्राभिः ।ऊतिभिः॥
पदार्थ : हे (इन्द्र) शरीराधिष्ठातः जीवात्मन् ! (उग्रः) वीरः त्वम् (वाजेषु) संग्रामेषु। [वाज इति संग्रामनाम निघं० २।१७।] (सहस्रप्रधनेषु च) सहस्राण्यसंख्यातानि प्रकृष्टानि धनानि प्राप्नुवन्ति येषु तेषु चक्रवर्तिराज्यसाधकेषु महायुद्धेषु च३ (उग्राभिः) अत्यन्तोत्कृष्टाभिः (ऊतिभिः) रक्षाभिः (नः) अस्मान् (अव) रक्ष ॥३॥४
भावार्थ : मनुष्यस्यात्मा चेद् बलवानस्ति तदा तं न कोऽपि पराजेतुं समर्थः ॥३॥
टिप्पणी:२. ऋ० १।७।४, साम० ५९८, अथ० २०।७०।१०।३. अयमर्थो दयानन्दस्वामिन ऋग्भाष्यादुद्धृतः।४. ऋग्भाष्ये दयानन्दस्वामिना मन्त्रेऽस्मिन्निन्द्रशब्देनेश्वरो गृहीतः।