Samveda/809
त्वामिद्धि हवामहे सातौ वाजस्य कारवः। त्वां वृत्रेष्विन्द्र सत्पतिं नरस्त्वां काष्ठास्वर्वतः॥८०९
Veda : Samveda | Mantra No : 809
In English:
Seer : sha.myurbaarhaspatyaH | Devta : indraH | Metre : pragaathaH(viShamaa bRRihatii samaa satobRRihatii) | Tone : madhyamaH
Subject : English Translation will be uploaded as and when ready.
Verse : tvaamiddhi havaamahe saatau vaajasya kaaravaH . tvaa.m vRRitreShvindra satpati.m narastvaa.m kaaShThaasvarvataH.809
Component Words : tvaam .it .hi .havaamahe .saatau .vaajasya .kaaravaH .tvaam .vRRitreShu .indra .satpatim .sat .patim .naraH .tvaam .kaaShThaasu .arvataH.
Word Meaning :
Verse Meaning :
Purport :
In Hindi:
ऋषि : शंयुर्बार्हस्पत्यः | देवता : इन्द्रः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : मध्यमः
विषय : प्रथम ऋचा पूर्वार्चिक में २३४ क्रमाङ्क पर परमेश्वर और राजा के पक्ष में व्याख्यात हुई थी। यहाँ परमात्मा और जीवात्मा का आह्वान है।
पदपाठ : त्वाम् ।इत् ।हि ।हवामहे ।सातौ ।वाजस्य ।कारवः ।त्वाम् ।वृत्रेषु ।इन्द्र ।सत्पतिम् ।सत् ।पतिम् ।नरः ।त्वाम् ।काष्ठासु ।अर्वतः॥
पदार्थ : हे (इन्द्र) परमात्मन् वा जीवात्मन् ! (कारवः) कर्मशूर हम (वाजस्य) संग्राम की (सातौ) प्राप्ति होने पर (त्वाम् इत् हि) तुझे ही (हवामहे) पुकारते या उद्बोधन देते हैं। (वृत्रेषु) शत्रुओं वा विघ्नों के उमड़ने पर (सत्पतिम्) सज्जनों के पालनकर्ता (त्वाम्) तुझे ही पुकारते या उद्बोधन देते हैं। (नरः) सभी मनुष्य (काष्ठासु) दिशाओं में (अर्वतः) हिंसक शत्रु से रक्षार्थ (त्वाम्) तुझे ही पुकारते या उद्बोधन देते हैं ॥१॥
भावार्थ : परमात्मा की कृपा से और आत्मोद्बोधन से सभी विघ्न और सभी शत्रु क्षण भर में पराजित किये जा सकते हैं ॥१॥
In Sanskrit:
ऋषि : शंयुर्बार्हस्पत्यः | देवता : इन्द्रः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : मध्यमः
विषय : तत्र प्रथमा ऋक् पूर्वार्चिके २३४ क्रमाङ्के परमेश्वरनृपत्योः पक्षे व्याख्याता। अत्र परमात्मा जीवात्मा चाहूयते।
पदपाठ : त्वाम् ।इत् ।हि ।हवामहे ।सातौ ।वाजस्य ।कारवः ।त्वाम् ।वृत्रेषु ।इन्द्र ।सत्पतिम् ।सत् ।पतिम् ।नरः ।त्वाम् ।काष्ठासु ।अर्वतः॥
पदार्थ : हे (इन्द्र) परमात्मन् जीवात्मन् वा ! कर्मशूराः वयम् (वाजस्य) संग्रामस्य (सातौ) प्राप्तौ (त्वाम् इत् हि) त्वामेव खलु (हवामहे) आह्वयामः उद्बोधयामो वा। (वृत्रेषु) शत्रुषु विघ्नेषु वा उपद्रुतेषु (सत्पतिम्) सतां पालकम् (त्वाम्) त्वामेव हवामहे आह्वयामः उद्बोधयामो वा। (नरः) सर्वेऽपि मनुष्याः (काष्ठासु) दिक्षु (अर्वतः) हिंसकात् शत्रोः त्रातुम् इति शेषः। [अर्व हिंसायाम्, भ्वादिः।] (त्वाम्) त्वामेव हवन्ते आह्वयन्ति उद्बोधयन्ति वा ॥१॥२
भावार्थ : परमात्मनः कृपयाऽऽत्मोद्बोधनेन च सर्वेऽपि विघ्नाः सर्वेऽपि च शत्रवः क्षणेन पराजेतुं शक्यन्ते ॥१॥
टिप्पणी:१. ऋ० ६।४६।१, अथ० २०।९८।१, उभयत्र ‘सा॒ ता’ इति पाठः। य० २७।३७। साम० २३४। ऋषिः भरद्वाजः बार्हस्पत्यः।२. दयानन्दर्षिर्मन्त्रमिमम् ऋग्भाष्ये शिल्पविद्याविषयं यजुर्भाष्ये च राजधर्मविषयमधिकृत्य व्याख्यातवान्।