Samveda/822
मनीषिभिः पवते पूर्व्यः कविर्नृभिर्यतः परि कोशा असिष्यदत्। त्रितस्य नाम जनयन्मधु क्षरन्निन्द्रस्य वायू सख्याय वर्धयन्॥८२२
Veda : Samveda | Mantra No : 822
In English:
Seer : sikataa nivaavarii | Devta : pavamaanaH somaH | Metre : jagatii | Tone : niShaadaH
Subject : English Translation will be uploaded as and when ready.
Verse : maniiShibhiH pavate puurvyaH kavirnRRibhiryataH pari koshaa.m asiShyadat . tritasya naama janayanmadhu kSharannindrasya vaayu.m sakhyaaya vardhayan. 822
Component Words : maniiShibhiH .pavate .puujyaH .kavi .nRRibhiH .yataH .pari .koshaan .asiShyadat .tritasya .naama .janayan. madhu .kSharan .indrasya. vaayum .sakhyaaya .sa .khyaaya .varddhayan.
Word Meaning :
Verse Meaning :
Purport :
In Hindi:
ऋषि : सिकता निवावरी | देवता : पवमानः सोमः | छन्द : जगती | स्वर : निषादः
विषय : अगले मन्त्र में परमात्मारूप सोम का वर्णन है।
पदपाठ : मनीषिभिः ।पवते ।पूज्यः ।कवि ।नृभिः ।यतः ।परि ।कोशान् ।असिष्यदत् ।त्रितस्य ।नाम ।जनयन्। मधु ।क्षरन् ।इन्द्रस्य। वायुम् ।सख्याय ।स ।ख्याय ।वर्द्धयन्॥
पदार्थ : (पूर्व्यः) श्रेष्ठ, (कविः) वेदकाव्य का कवि, क्रान्तद्रष्टा, मेधावी वह सोम परमेश्वर (पवते) हृदयों को पवित्र करता है। (मनीषिभिः) बुद्धिमान् (नृभिः) उपासक जनों से (यतः) ग्रहण किया हुआ, ध्यान किया गया वह (कोशान्) शरीरस्थ पञ्च कोशों में (परि असिष्यदत्) रस को प्रवाहित करता है। वह (त्रितस्य) ज्ञान, कर्म, उपासना तीनों से युक्त उपासक के (नाम) यश को (जनयन्) उत्पन्न करता हुआ, (मधु) आनन्द को (क्षरन्) झराता हुआ (इन्द्रस्य) जीवात्मा के (सख्याय) सहयोग के लिए, उसके (वायुम्) प्राण को (वर्धयन्) बढ़ाता रहता है ॥२॥
भावार्थ : परमेश्वर उपासक को अपना सखा बनाकर उसके लिए दिव्य आनन्द-रूप मधु टपकाता रहता है ॥२॥
In Sanskrit:
ऋषि : सिकता निवावरी | देवता : पवमानः सोमः | छन्द : जगती | स्वर : निषादः
विषय : अथ परमात्मसोमो वर्ण्यते।
पदपाठ : मनीषिभिः ।पवते ।पूज्यः ।कवि ।नृभिः ।यतः ।परि ।कोशान् ।असिष्यदत् ।त्रितस्य ।नाम ।जनयन्। मधु ।क्षरन् ।इन्द्रस्य। वायुम् ।सख्याय ।स ।ख्याय ।वर्द्धयन्॥
पदार्थ : (पूर्व्यः) श्रेष्ठः (कविः) वेदकाव्यस्य कविः, क्रान्तद्रष्टा, मेधावी स सोमः परमेश्वरः (पवते) हृदयानि पुनाति। (मनीषिभिः) मेधाविभिः (नृभिः) उपासकजनैः (यतः) परिगृहीतः, ध्यातः सः। [यमु उपरमे, निष्ठान्तं रूपम्।] (कोशान्) देहस्थेषु पञ्चकोशेषु (परि असिष्यदत्) परिस्रावयति रसम्, किञ्च, सः (त्रितस्य) त्रिभिर्ज्ञानकर्मोपासनैर्युक्तस्य उपासकस्य (नाम) यशः (जनयन्) उत्पादयन्, (मधु) आनन्दम् (क्षरन्) स्रावयन् (इन्द्रस्य) जीवात्मनः (सख्याय) सखित्वाय, तस्य (वायुम्) प्राणम् (वर्धयन्) वृद्धिं गमयन्, भवतीति शेषः ॥२॥
भावार्थ : परमेश्वर उपासकं स्वसखायं कृत्वा तस्मै दिव्यमानन्दरूपं मधु स्रावयति ॥२॥
टिप्पणी:१. ऋ० ९।८६।२० ‘परि॒ कोशाँ अचिक्रदत्’ ‘मधु॑ क्षर॒दिन्द्र॑स्य वा॒योः स॒ख्याय॒ कर्त॑वे’ इति पाठः।