Samveda/931
नेमिं नमन्ति चक्षसा मेषं विप्रा अभिस्वरे। सुदीतयो वो अद्रुहोऽपि कर्णे तरस्विनः समृक्वभिः॥९३१
Veda : Samveda | Mantra No : 931
In English:
Seer : rebhaH kaashyapaH | Devta : indraH | Metre : upariShTaadbRRihatii | Tone : niShaadaH
Subject : English Translation will be uploaded as and when ready.
Verse : nemi.m namanti chakShasaa meSha.m vipraa abhisvare . sudiitayo vo adruho.api karNe tarasvinaH samRRikvabhiH.931
Component Words : nemim. namanti .chakShasaa . meSham . vipraaH . vi . praaH . abisvare . abhi . svare . sudiitayaH .su .diitayaH. vaH .adruhaH .a .druhaH .api .karNe .tarasvinaH .sam. RRikabhiH.
Word Meaning :
Verse Meaning :
Purport :
In Hindi:
ऋषि : रेभः काश्यपः | देवता : इन्द्रः | छन्द : उपरिष्टाद्बृहती | स्वर : निषादः
विषय : अगले मन्त्र में उपास्य-उपासक विषय का वर्णन है।
पदपाठ : नेमिम्। नमन्ति ।चक्षसा । मेषम् । विप्राः । वि । प्राः । अबिस्वरे । अभि । स्वरे । सुदीतयः ।सु ।दीतयः। वः ।अद्रुहः ।अ ।द्रुहः ।अपि ।कर्णे ।तरस्विनः ।सम्। ऋकभिः॥
पदार्थ : (विप्राः) मेधावी ब्राह्मण लोग (अभिस्वरे) वेद-स्तोत्र में (नेमिम्) रथचक्र में परिधि के समान व्याप्त, (मेषम्) सुख से सींचनेवाले इन्द्र परमेश्वर को (चक्षसा) साक्षात्कार से (नमन्ति) अपनी ओर झुका लेते हैं। आगे मनुष्यों को सम्बोधन है—हे (सुदीतयः) भली-भाँति अविद्या का क्षय करनेवाले जनो ! (वः) तुम (अद्रुहः) द्रोह न करनेवाले होवो। (अपि) साथ ही (कर्णे) अपनी और दूसरों की जीवननौका के कर्णधार होने में (तरस्विनः) वेगवान् बनो। (ऋक्वभिः) प्रशस्त स्तुतिवाले स्तोता जनों के साथ (सम्) सङ्गति करो ॥२॥
भावार्थ : मनुष्यों को चाहिए कि परमेश्वर का साक्षात्कार करके द्रोहरहित, सबके मित्र, कर्णधार,क्रियाशील, सत्सङ्गतिपरायण और परोपकारी होकर विचरें ॥२॥
In Sanskrit:
ऋषि : रेभः काश्यपः | देवता : इन्द्रः | छन्द : उपरिष्टाद्बृहती | स्वर : निषादः
विषय : अथोपास्योपासकविषयमाह।
पदपाठ : नेमिम्। नमन्ति ।चक्षसा । मेषम् । विप्राः । वि । प्राः । अबिस्वरे । अभि । स्वरे । सुदीतयः ।सु ।दीतयः। वः ।अद्रुहः ।अ ।द्रुहः ।अपि ।कर्णे ।तरस्विनः ।सम्। ऋकभिः॥
पदार्थ : (विप्राः) मेधाविनो ब्राह्मणाः (अभिस्वरे)२ वेदस्तोत्रे। [स्वृ शब्दोपतापयोः।] (नेमिम्) रथचक्रे नेमिमिव सर्वत्र व्याप्तम्। [परि विश्वानि काव्या नेमिश्चक्रमिवाभवत्’ ऋ० २।५।३ इति श्रुतेः।] (मेषम्) सुखेन सेक्तारम्। [मेषति सिञ्चतीति मेषः। मिष सेचने, भ्वादिः।] इन्द्रं परमेश्वरम् (चक्षसा) साक्षात्कारेण (नमन्ति) स्वाभिमुखं कुर्वन्ति। अथ मानवाः सम्बोध्यन्ते—हे (सुदीतयः) सम्यग् अविद्यायाः क्षयकर्तारः उपासकाः। [दीतिः दीङ् क्षये, शोभना दीतिः अविद्यायाः क्षयो येषां ते सुदीतयः।] (वः) यूयम् (अद्रुहः) अद्रोहकारिणः भवत। (अपि) अपि च (कर्णे) स्वकीयायाः परकीयायाश्च जीवननौकायाः कर्णधारत्वे (तरस्विनः) वेगवन्तो भवत। (ऋक्वभिः३) प्रशस्ताः ऋचः स्तुतयो विद्यन्ते येषां (तैः) सुस्तोतृभिः जनैः सह (सम्) संगच्छध्वम्। [ऋचः मत्वर्थे प्रशंसायां ‘छन्दसीवनिपौ’ अ० ५।२।१०९ वा० इत्यनेन वनिप् प्रत्यये ऋक्वा इति सिध्यति।] ॥२॥
भावार्थ : मनुष्यैः परमेश्वरं साक्षात्कृत्य द्रोहरहितैः सर्वमित्रैः कर्णधारैः क्रियाशीलैः सत्संगतिपरायणैः परोपकारिभिर्भूत्वा विचरणीयम् ॥२॥
टिप्पणी:१. ऋ० ८।९७।१२, अथ० २०।५४।३, उभयत्र “अभिस्वरा॑” इति पाठः।२. अभिस्वरे अभिस्वरो यज्ञस्तस्मिन् अभिस्वरे यज्ञे—इति वि०।३. ऋक्वभिः अर्चनायुक्तैः मन्त्रैः—इति सा०। ऋग्यजुःसामभिः—इति वि०।