Samveda/1270
एष रुक्मिभिरीयते वाजी शुभ्रेभिरशुभिः। पतिः सिन्धूनां भवन्॥१२७०
Veda : Samveda | Mantra No : 1270
In English:
Seer : asitaH kaashyapo devalo vaa | Devta : pavamaanaH somaH | Metre : gaayatrii | Tone : ShaDjaH
Subject : English Translation will be uploaded as and when ready.
Verse : eSha rukmibhiriiyate vaajii shubhrebhira.m shubhiH . pati sindhuunaa.m bhavan.1270
Component Words : eShaH .rukmabhiH .iiyate .vaajii .shubhrebhiH .ashubhiH .patiH .sindhuunaam .bhavan.
Word Meaning :
Verse Meaning :
Purport :
In Hindi:
ऋषि : असितः काश्यपो देवलो वा | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः
विषय : अगले मन्त्र में जीवात्मा का वर्णन करते हैं।
पदपाठ : एषः ।रुक्मभिः ।ईयते ।वाजी ।शुभ्रेभिः ।अशुभिः ।पतिः ।सिन्धूनाम् ।भवन्॥
पदार्थ : वाजी बलवान् (एषः) यह सोम जीवात्मा (सिन्धूनाम्) शरीरस्थ रक्तवाहिनी नाड़ियों का (पतिः) स्वामी (भवन्) होता हुआ (रुक्मिभिः) तेजस्वी (शुभ्रेभिः) स्वच्छ (अंशुभिः) मन, बुद्धि, प्राण, इन्द्रिय आदियों से (ईयते) कार्य करता है ॥५॥
भावार्थ : शरीर के अधिष्ठाता जीवात्मा को शरीरथ मन, बुद्धि, आदि तथा बाह्य साधनों को प्रयुक्त करके सदा ही उन्नति करनी चाहिए ॥५॥
In Sanskrit:
ऋषि : असितः काश्यपो देवलो वा | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः
विषय : अथ जीवात्मानं वर्णयति।
पदपाठ : एषः ।रुक्मभिः ।ईयते ।वाजी ।शुभ्रेभिः ।अशुभिः ।पतिः ।सिन्धूनाम् ।भवन्॥
पदार्थ : (वाजी) बलवान् (एषः) अयं सोमः जीवात्मा (सिन्धूनाम्) देहस्थानां रक्तवहानां नाडीनाम् (पतिः) स्वामी (भवन्) जायमानः सन् (रुक्मिभिः) तेजोमद्भिः। [रोचते इति रुक्मः, रुच दीप्तौ, युजिरुचितिजां कुश्च। उ० १।१४६ इति मक् प्रत्ययः, चकारस्य कुत्वं च।] (शुभ्रेभिः) स्वच्छैः (अंशुभिः) मनोबुद्धिप्राणेन्द्रियादिभिः (ईयते) व्यापारं करोति ॥५॥
भावार्थ : देहाधिष्ठात्रा जीवात्मना देहस्थानि मनोबुद्ध्यादीनि बाह्यानि च साधनानि प्रयुज्य सदैवोन्नतिः कार्या ॥५॥
टिप्पणी:१. ऋ० ९।१५।५।