Samveda/1330
द्विउयं पञ्च स्वयशस सखायो अद्रिसहतम्। प्रियमिन्द्रस्य काम्यं प्रस्नापयन्त ऊर्मयः॥१३३०
Veda : Samveda | Mantra No : 1330
In English:
Seer : ambariiSho vaarShaagiraH RRijishvaa bhaaradvaajashch | Devta : pavamaanaH somaH | Metre : anuShTup | Tone : gaandhaaraH
Subject : English Translation will be uploaded as and when ready.
Verse : dvirya.m pa~ncha svayashasa.m sakhaayo adrisa.m hatam . priyamindrasya kaamya.m prasnaapayanta uurmayaH.1330
Component Words : dvi . yam . pa~ncha . svayashasam . sva . yashasam . sakhaayaH . sa . khaayaH . adrisahatam . adri . sahatam . priyam . indrasya . kaamyam . prasnaapayante . pra . snaapayante . uurmayaH. .
Word Meaning :
Verse Meaning :
Purport :
In Hindi:
ऋषि : अम्बरीषो वार्षागिरः ऋजिश्वा भारद्वाजश्च | देवता : पवमानः सोमः | छन्द : अनुष्टुप् | स्वर : गान्धारः
विषय : अगले मन्त्र में फिर गुरु-शिष्य का विषय है।
पदपाठ : द्वि । यम् । पञ्च । स्वयशसम् । स्व । यशसम् । सखायः । स । खायः । अद्रिसहतम् । अद्रि । सहतम् । प्रियम् । इन्द्रस्य । काम्यम् । प्रस्नापयन्ते । प्र । स्नापयन्ते । ऊर्मयः॥ ।
पदार्थ : (स्वयशसम्) अपनी कीर्ति से युक्त, (अद्रिसंहतम्) पर्वत के समान दृढ अङ्गोंवाले, (इन्द्रस्य प्रियम्) कुलपति आचार्य के प्रिय, (काम्यम्) अन्यों से भी चाहे जानेवाले (यम्) जिस विद्यार्थी को (द्विः पञ्च) दो पंजे अर्थात् दस (सखायः) सहयोगी विद्वान् गुरु लोग (ऊर्मयः) जल की तरङ्गों के समान होकर (प्र स्नापयन्ते) ज्ञान-नदी में स्नान कराते हैं, वह प्रशस्त होता है ॥२॥यहाँ ‘ऊर्मयः’ में लुप्तोपमालङ्कार है ॥२॥
भावार्थ : चार वेद और छह वेदाङ्ग ये दस विद्याएँ हैं। प्रत्येक विद्या के लिए एक-एक गुरु हो तो दस गुरु हो जाते हैं। वेदाङ्गों में शिक्षा, कल्प, व्याकरण, निरुक्त, छन्द और ज्योतिष ये छह विद्याएँ ग्रहण करनी चाहिएँ, उनके प्रतिपादक वर्तमान ग्रन्थ नहीं, क्योंकि मनुष्यप्रणीत उन उत्तरवर्ती ग्रन्थों का सङ्केत वेदों में नहीं हो सकता ॥२॥
In Sanskrit:
ऋषि : अम्बरीषो वार्षागिरः ऋजिश्वा भारद्वाजश्च | देवता : पवमानः सोमः | छन्द : अनुष्टुप् | स्वर : गान्धारः
विषय : अथ पुनर्गुरुशिष्यविषयमाह।
पदपाठ : द्वि । यम् । पञ्च । स्वयशसम् । स्व । यशसम् । सखायः । स । खायः । अद्रिसहतम् । अद्रि । सहतम् । प्रियम् । इन्द्रस्य । काम्यम् । प्रस्नापयन्ते । प्र । स्नापयन्ते । ऊर्मयः॥ ।
पदार्थ : (स्वयशसम्) स्वकीयकीर्तिम्, (अद्रिसंहतम्) पर्वतवद् दृढाङ्गम्, (इन्द्रस्य प्रियम्) कुलपतेः वत्सलम्, (काम्यम्) अन्येषामपि अभिलषणीयम् (यम्) यं विद्यार्थिनम् (द्विः पञ्च) द्विवारं पञ्च, दशेत्यर्थः (सखायः) सहयोगिनो विद्वांसो गुरवः (ऊर्मयः) जलतरङ्गा इव भूत्वा (प्रस्नापयन्ते) ज्ञाननद्यां स्नानं कारयन्ति, स प्रशस्यो भवतीति वाक्यपूर्तिर्विधेया ॥२॥ऊर्मय इवेति लुप्तोपमालङ्कारः ॥२॥
भावार्थ : चत्वारो वेदाः षड्वेदाङ्गानि चेति दश विद्याः। उपवेदा उपाङ्गानि चात्रैवान्तर्भवन्ति। प्रतिविद्यमेकैको गुरुरिति दश गुरवो भवन्ति। वेदाङ्गैश्च शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति षड् मूलविद्या ग्राह्या न तु तत्तत्प्रतिपादका वर्तमानग्रन्थाः, उत्तरवर्तिनां तेषां मनुष्यप्रणीतानां ग्रन्थानां वेदे सङ्केतासम्भवात् ॥२॥
टिप्पणी:१. ऋ० ९।९८।६, ‘सखायो’ इत्यत्र ‘स्वसा॑रो॒’ इति पाठः। ‘प्रस्ना॒पय॑न्त्यू॒र्मिण॑म्’ इति च चतुर्थः पादः।