Samveda/1372
उक्षा मिमेति प्रति यन्ति धेनवो देवस्य देवीरुप यन्ति निष्कृतम्। अत्यक्रमीदर्जुनं वारमव्ययमत्कं न निक्तं परि सोमो अव्यत (ग)।। [धा. । उ । स्व. ।]॥१३७२
Veda : Samveda | Mantra No : 1372
In English:
Seer : hiraNyastuupa aa~NgirasaH | Devta : pavamaanaH somaH | Metre : jagatii | Tone : niShaadaH
Subject : English Translation will be uploaded as and when ready.
Verse : ukShaa mimeti prati yanti dhenavo devasya deviirupa yanti niShkRRitam . atyakramiidarjuna.m vaaramavyayamatka.m na nikta.m pari somo avyata.1372
Component Words : ukShaa . mimeti . prati . yanti . dhenavaH . devasya . deviiH . upa . yanti . niShkRRitam . niH . kRRitam . ati . akramiit . arjunam . vaaram . avyayam . atkam . na . niktam . pari . somaH . avyataH.
Word Meaning :
Verse Meaning :
Purport :
In Hindi:
ऋषि : हिरण्यस्तूप आङ्गिरसः | देवता : पवमानः सोमः | छन्द : जगती | स्वर : निषादः
विषय : आगे फिर वही विषय है।
पदपाठ : उक्षा । मिमेति । प्रति । यन्ति । धेनवः । देवस्य । देवीः । उप । यन्ति । निष्कृतम् । निः । कृतम् । अति । अक्रमीत् । अर्जुनम् । वारम् । अव्ययम् । अत्कम् । न । निक्तम् । परि । सोमः । अव्यतः॥
पदार्थ : (उक्षा) प्राणरूप बैल (मिमेति) डकरा रहा है, (धेनवः) इन्द्रियरूप गाएँ (प्रति यन्ति) बाह्य विषयों से लौट रही हैं। (देवीः) दिव्यगुणोंवाली मनोवृत्तियाँ (देवस्य) प्रकाशक जीवात्मा के (निष्कृतम्) आश्रय को (उप यन्ति) प्राप्त कर रही हैं। यह सब क्यों हो रहा है? क्योंकि (सोमः) जीवात्मा ने (अति) विघ्नों का अतिक्रमण करके (अर्जुनम्) श्वेत, निर्मल, (अव्ययम्) अविनश्वर (वारम्) वरणीय परमात्मा की ओर (अक्रमीत्) पग बढ़ाये हैं और (निक्तम्) शुद्ध (अत्कं न) कवच के समान, उसे (परि अव्यत) चारों और धारण कर लिया है ॥३॥चतुर्थ चरण में उपमालङ्कार है, उत्तरार्धगत कारण से पूर्वार्धगत कार्य का समर्थन होने से अर्थान्तरन्यास भी है ॥३॥
भावार्थ : परमात्मा के प्राप्त हो जाने पर जीव कवचधारी के समान रक्षित हो जाता है ॥३॥
In Sanskrit:
ऋषि : हिरण्यस्तूप आङ्गिरसः | देवता : पवमानः सोमः | छन्द : जगती | स्वर : निषादः
विषय : अथ पुनरपि तमेव विषयमाह।
पदपाठ : उक्षा । मिमेति । प्रति । यन्ति । धेनवः । देवस्य । देवीः । उप । यन्ति । निष्कृतम् । निः । कृतम् । अति । अक्रमीत् । अर्जुनम् । वारम् । अव्ययम् । अत्कम् । न । निक्तम् । परि । सोमः । अव्यतः॥
पदार्थ : (उक्षा) प्राणरूपो वृषभः। [अनड्वान् प्राण उच्यते। अथ० ११।४।] (मिमेति) शब्दायते। [माङ् माने शब्दे च जुहोत्यादिः। परस्मैपदं छान्दसम्।] (धेनवः) इन्द्रियरूपाः गावः (प्रति यन्ति) बाह्यविषयेभ्यो निवर्तन्ते। (देवीः) दिव्यगुणा मनोवृत्तयः (देवस्य) प्रकाशकस्य जीवात्मनः (निष्कृतम्) गृहम्, आश्रयम् (उप यन्ति) उपगच्छन्ति। एतत् सर्वं कुतो जायते ? यतः (सोमः) जीवात्मा (अति) विघ्नानतिक्रम्य (अर्जुनम्) श्वेतं, निष्कलुषम् (अव्ययम्) अविनश्वरम् (वारम्) वरणीयं परमात्मानं प्रति (अक्रमीत्) पादविक्षेपं कृतवान् अस्ति, अपि च (निक्तम्) शुद्धम्। [णिजिर् शौचपोषणयोः, निष्ठा।] (अत्कं न) कवचमिव तम्, (परि अव्यत) परि धारितवान् अस्ति। [व्येञ् संवरणे, भ्वादिः] ॥३॥चतुर्थे पादे उपमालङ्कारः, उत्तरार्धगतेन कारणेन पूर्वार्धगतस्य कार्यस्य समर्थनादर्थान्तरन्यासश्च ॥३॥
भावार्थ : परमात्मनि प्राप्ते जीवः कवचधर इव रक्षितो जायते ॥३॥
टिप्पणी:१. ऋ० ९।६९।४, ‘मिमेति’ इत्यत्र ‘मि॑माति’।