Samveda/1410
उरुगव्यूतिरभयानि कृण्वन्त्समीचीने आ पवस्वा पुरन्धी। अपः सिषासन्नुषसः स्वऽर्गाः सं चिक्रदो महो अस्मभ्यं वाजान् ()।। [धा. । उ । स्व. ।]॥१४१०
Veda : Samveda | Mantra No : 1410
In English:
Seer : vasiShTho maitraavaruNiH | Devta : pavamaanaH somaH | Metre : triShTup | Tone : dhaivataH
Subject : English Translation will be uploaded as and when ready.
Verse : urugavyuutirabhayaani kRRiNvantsamiichiine aa pavasvaa purandhii . apaH siShaasannuShasaH sva.a3rgaaH sa.m chikrado maho asmabhya.m vaajaan.1410
Component Words : uruugavyuutiH . uru . gavyuutiH . abhayaani . a . bhayaani . kRRiNvam . samiichiine . sam . iichiineiti . aa . pavasva . purandhii . puram . dhiiiti . apaH . siShaasan . uShasaH . svaH . gaaH . sam . chikradaH . mahaH . asmabhyam . vaajaan.
Word Meaning :
Verse Meaning :
Purport :
In Hindi:
ऋषि : वसिष्ठो मैत्रावरुणिः | देवता : पवमानः सोमः | छन्द : त्रिष्टुप् | स्वर : धैवतः
विषय : अगले मन्त्र में परमात्मा और राजा से प्रार्थना की गयी है।
पदपाठ : उरूगव्यूतिः । उरु । गव्यूतिः । अभयानि । अ । भयानि । कृण्वम् । समीचीने । सम् । ईचीनेइति । आ । पवस्व । पुरन्धी । पुरम् । धीइति । अपः । सिषासन् । उषसः । स्वः । गाः । सम् । चिक्रदः । महः । अस्मभ्यम् । वाजान्॥
पदार्थ : प्रथम—परमात्मा के पक्ष में। हे सोम अर्थात् सर्वान्तर्यामी परमात्मन् ! (उरुगव्यूतिः) विस्तीर्ण मार्ग या कार्यक्षेत्रवाले, सबको (अभयानि) निर्भय (कृण्वन्) करनेवाले आप (समीचीने) आपस में सङ्गति रखनेवाले (पुरन्धी) द्युलोक तथा भूलोक को और देहपुरी के धारणकर्ता प्राण-अपान को (आ पवस्व) पवित्र करो। (अपः) जलों को, (उषसः) उषाओं को (स्वः) सूर्य को और (गाः) भूमियों को (सिषासन्) देनेवाले आप (अस्मभ्यम्) हमारे लिए (महः वाजान्) महान् अन्न, धन, बल आदि को (सं चिक्रदः) बुलाते हो, प्रदान करते हो ॥द्वितीय—राजा के पक्ष में। हे सोम अर्थात् प्रजापालक राजन् ! (उरुगव्यूतिः) राष्ट्र में यातायात के लिए चौड़े मार्ग बनवानेवाले और उन मार्गों पर (अभयानि) निर्भयता (कृण्वन्) करनेवाले आप (समीचीने) भली-भाँति कार्य में तत्पर (पुरन्धी) स्त्री-पुरुषों को (आ पवस्व) सहायता के लिए प्राप्त होओ। आप (अपः) नदी, प्रपात आदि के जलों को, (उषसः) बिजलियों को, (स्वः) सूर्य, को और (गाः) भूमियों को (सिषासन्) उपयोग में लाने की योजनाएँ बनाते हुए (अस्मभ्यम्) हम प्रजाओं के लिए (महः वाजान्) महान्, अन्न, धन आदि (संचिक्रदः) बुलाओ, प्राप्त कराओ ॥३॥यहाँ श्लेषालङ्कार है ॥३॥
भावार्थ : परमेश्वर ने हमारे लिए भूमि, जल, वायु बिजली, सूर्य-किरणें आदि पदार्थ बिना मूल्य के दिये हुए हैं। राजा का कर्तव्य है कि उनका शिल्पकार्यों में उपयोग करके राष्ट्रवासियों को सुखी करे ॥३॥
In Sanskrit:
ऋषि : वसिष्ठो मैत्रावरुणिः | देवता : पवमानः सोमः | छन्द : त्रिष्टुप् | स्वर : धैवतः
विषय : अथ परमात्मानं राजानं च प्रार्थयते।
पदपाठ : उरूगव्यूतिः । उरु । गव्यूतिः । अभयानि । अ । भयानि । कृण्वम् । समीचीने । सम् । ईचीनेइति । आ । पवस्व । पुरन्धी । पुरम् । धीइति । अपः । सिषासन् । उषसः । स्वः । गाः । सम् । चिक्रदः । महः । अस्मभ्यम् । वाजान्॥
पदार्थ : प्रथमः—परमात्मपरः। हे सोम सर्वान्तर्यामिन् परमात्मन् ! (उरुगव्यूतिः) विस्तीर्णमार्गः विस्तीर्णकार्यक्षेत्रः इत्यर्थः, सर्वेषाम् (अभयानि) भयराहित्यानि (कृण्वन्) कुर्वन् त्वम् (समीचीने) परस्परं संगते (पुरन्धी) द्यावापृथिव्यौ। [पुरन्धी इति द्यावापृथिव्योर्नाम। निघं० ३।३०।] देहपुर्याः धारकौ प्राणापानौ वा (आ पवस्व) आ पुनीहि। (अपः) उदकानि, (उषसः) प्रभातकान्तीः, (स्वः) सूर्यम्, (गाः) भूमीश्च (सिषासन्) प्रयच्छन् त्वम्। [षणु दाने स्वार्थिकः सन्] (अस्मभ्यम्) अस्मत्कृते (महः वाजान्) महान्ति अन्नधनबलादीनि (संचिक्रदः) आह्वयसि, ददासीत्यर्थः। [संपूर्वः क्रदि आह्वाने रोदने च णिजन्तस्य लुङि रूपम्, अडागमाभावश्छान्दसः] ॥द्वितीयः—नृपतिपरः। हे सोम प्रजापालक राजन् (उरुगव्यूतिः) राष्ट्रे यातायाताय विस्तीर्णमार्गाणां निर्मापयिता, तेषु मार्गेषु (अभयानि) भयराहित्यानि (कृण्वन्) कुर्वन् त्वम् (समीचीने) सम्यक् कार्यतत्परौ पुरन्धी स्त्रीपुरुषौ (आ पवस्व) सहायतार्थम् आगच्छ। त्वम् (अपः) नदीप्रपातादीनाम् उदकानि, (उषसः) विद्युतः। [उषा वष्टेः कान्तिकर्मणः, उच्छेतेरितरा माध्यमिका। निरु० १२।६। अपोषा अनसः सरत् संपिष्टादह बिभ्युषी (ऋ० ४।३०।१०) अपासरदुषा अनसः संपिष्टान्मेघाद् बिभ्युषी। निरु० ११।४३।] (स्वः) सूर्यम् (गाः) भूमीश्च (सिषासन्) संभक्तुम् उपयोक्तुम् इच्छन् (अस्मभ्यम्) प्रजाभ्यः (महः वाजान्) महान्ति अन्नधनादीनि (संचिक्रदः) समाह्वय, समानयेत्यर्थः ॥३॥अत्र श्लेषालङ्कारः ॥३॥
भावार्थ : परमेश्वरेणास्मभ्यं भूम्युदकवायुविद्युत्सूर्यरश्म्यादयः पदार्था निःशुल्कं प्रदत्ताः सन्ति। राज्ञः कर्तव्यमस्ति यत्तान् शिल्पकार्येषूपयुज्य राष्ट्रवासिनः सुखयेत् ॥३॥
टिप्पणी:१. ऋ० ९।९०।४।