Samveda/1418
साकमुक्षो मर्जयन्त स्वसारो दश धीरस्य धीतयो धनुत्रीः। हरिः पर्यद्रवज्जाः सूर्यस्य द्रोणं ननक्षे अत्यो न वाजी॥१४१८
Veda : Samveda | Mantra No : 1418
In English:
Seer : nodhaa gautamaH | Devta : pavamaanaH somaH | Metre : triShTup | Tone : dhaivataH
Subject : English Translation will be uploaded as and when ready.
Verse : saakamukSho marjayanta svasaaro dasha dhiirasya dhiitayo dhanutriiH . hariH paryadravajjaaH suuryasya droNa.m nanakShe atyo na vaajii.1418
Component Words : saakamukShaH . saakam . ukShaH . marjayantaH . svasaaraH . dasha . dhiirasya . dhiitayaH . dhanutrii . hariH . pari . adravat . jaaH . suuryasya . su . uuryasya . droNam . nanakShe . atyaH . na . vaajii.
Word Meaning :
Verse Meaning :
Purport :
In Hindi:
ऋषि : नोधा गौतमः | देवता : पवमानः सोमः | छन्द : त्रिष्टुप् | स्वर : धैवतः
विषय : प्रथम ऋचा की व्याख्या पूर्वार्चिक में ५३८ क्रमाङ्क पर सोम ओषधि और परमात्मा की प्राप्ति के विषय में की जा चुकी है। यहाँ परमात्मा की ही प्राप्ति का विषय भिन्न प्रकार से वर्णित है।
पदपाठ : साकमुक्षः । साकम् । उक्षः । मर्जयन्तः । स्वसारः । दश । धीरस्य । धीतयः । धनुत्री । हरिः । परि । अद्रवत् । जाः । सूर्यस्य । सु । ऊर्यस्य । द्रोणम् । ननक्षे । अत्यः । न । वाजी॥
पदार्थ : (धीरस्य) ध्यान में संलग्न जीवात्मा को (साकमुक्षः) एक साथ ज्ञान से सींचनेवाली, (स्वसारः) बहिनों के समान प्रिय, (धनुत्र्यः) तृप्ति प्रदान करनेवाली (दश) दस (धीतयः) चार वेद और छह वेदाङ्गरूप प्रज्ञाएँ (मर्जयन्त) शुद्ध करती हैं। तब (सूर्यस्य) सूर्य के समान प्रकाशमान और प्रकाशक परमात्मा का (जाः) पुत्र (हरिः) जीवात्मा (पर्यद्रवत्) परमात्मा को पाने के लिए सक्रिय हो जाता है और (अत्यः न) घोड़े के समान (वाजी) वेगवान् वह (द्रोणम्) प्राप्तव्य उस अपने पिता परमात्मा को (ननक्षे) पा लेता है ॥१॥यहाँ उपमालङ्कार है। द्वितीय चरण में धकार का और चतुर्थ में नकार का अनुप्रास है ॥१॥
भावार्थ : वेद-वेदाङ्गों को आचार्य से भलीभाँति पढ़कर ज्ञानी और अत्यन्त निर्मल अन्तःकरणवाला जीव अभ्युदय और निःश्रेयस प्राप्त करने में समर्थ हो जाता है ॥१॥
In Sanskrit:
ऋषि : नोधा गौतमः | देवता : पवमानः सोमः | छन्द : त्रिष्टुप् | स्वर : धैवतः
विषय : तत्र प्रथमा ऋक् पूर्वार्चिके ५३८ क्रमाङ्के सोमौषधिविषये परमात्मप्राप्तिविषये च व्याख्याता। अत्र परमात्मप्राप्तिविषय एव प्रकारान्तरेणोच्यते।
पदपाठ : साकमुक्षः । साकम् । उक्षः । मर्जयन्तः । स्वसारः । दश । धीरस्य । धीतयः । धनुत्री । हरिः । परि । अद्रवत् । जाः । सूर्यस्य । सु । ऊर्यस्य । द्रोणम् । ननक्षे । अत्यः । न । वाजी॥
पदार्थ : (धीरस्य) ध्यानरतस्य जीवात्मनः (साकमुक्षः) युगपत् ज्ञानसेक्त्र्यः, (स्वसारः) भगिनीवत् प्रियाः, (धनुत्र्यः) प्रीणयित्र्यः (दश) दशसंख्यकाः (धीतयः) प्रज्ञाः—चत्वारो वेदाः षड् वेदाङ्गानि च, (मर्जयन्त) मार्जयन्ति। ततश्च (सूर्यस्य) सूर्यवत् प्रकाशमानस्य प्रकाशकस्य च परमात्मनः (जाः) पुत्रः (हरिः) जीवात्मा (पर्यद्रवत्) परिद्रवति, परमात्मानं प्राप्तुं सक्रियो भवति, किञ्च (अत्यः न) अश्वः इव (वाजी) वेगवान् सः (द्रोणम्) प्राप्तव्यं तं स्वपितृभूतं परमात्मानम्। [द्रूयते प्राप्यते इति द्रोणः। कॄवॄजॄसिद्रूपन्यनिस्वपिभ्यो नित्। उ० ३।१० इति नः प्रत्ययः, तस्य निद्वद्भावश्च, नित्त्वादाद्युदात्तत्वम्।] (ननक्षे) प्राप्नोति ॥१॥अत्रोपमालङ्कारः। द्वितीये पादे धकारानुप्रासः चतुर्थे च नकारानुप्रासः ॥१॥
भावार्थ : वेदवेदाङ्गान्याचार्यात् सम्यगधीत्य ज्ञानवान् नितान्तनिर्मलस्वान्तो जीवोऽभ्युदयं निःश्रेयसं च प्राप्तुं क्षमते ॥१॥
टिप्पणी:१. ऋ० ९।९३।१, साम० ५३८।