Samveda/1483
तदिदास भुवनेषु ज्येष्ठं यतो जज्ञ उग्रस्त्वेषनृम्णः। सद्यो जज्ञानो नि रिणाति शत्रूननु यं विश्वे मदन्त्यूमाः॥१४८३
Veda : Samveda | Mantra No : 1483
In English:
Seer : bRRihaddiva aatharvaNaH | Devta : indraH | Metre : triShTup | Tone : dhaivataH
Subject : English Translation will be uploaded as and when ready.
Verse : tadidaasa bhuvaneShu jyeShTa.m yato jaj~naa ugrastveShanRRimNaH . sadyo jaj~naano ni riNaati shatruunanu ya.m vishve madantyuumaaH.1483
Component Words : tat . it . aasa . bhuvaneShu . jyeShTham . yataH . jaj~ne . ugraH . tveShanRRimNaH . tveShu . nRRimNaH . sadyaH . sa . dyaH . jaj~naanaH . ni . riNaati . shatruun . anu . yam . vishve . madanti . uumaaH.
Word Meaning :
Verse Meaning :
Purport :
In Hindi:
ऋषि : बृहद्दिव आथर्वणः | देवता : इन्द्रः | छन्द : त्रिष्टुप् | स्वर : धैवतः
विषय : प्रारम्भ में इन्द्र परमात्मा की महिमा वर्णित करते हैं।
पदपाठ : तत् । इत् । आस । भुवनेषु । ज्येष्ठम् । यतः । जज्ञे । उग्रः । त्वेषनृम्णः । त्वेषु । नृम्णः । सद्यः । स । द्यः । जज्ञानः । नि । रिणाति । शत्रून् । अनु । यम् । विश्वे । मदन्ति । ऊमाः॥
पदार्थ : (तत् इत्) वह ब्रह्म ही (भुवनेषु) सूर्य, नक्षत्र आदि लोकलोकान्तरों में (ज्येष्ठम्) ज्येष्ठ (आस) है, (यतः) जिससे (उग्रः) प्रचण्ड, (त्वेषनृम्णः) प्रदीप्त ज्योतिरूप धनवाला अथवा प्रदीप्त बलवाला सूर्य (शत्रून्) अन्धकार, मलिनता, रोग आदि शत्रुओं को (नि रिणाति) विनष्ट करता है, (यम् अनु) जिसकी अनुकूलता से (विश्वे) सब (ऊमाः) रक्षक पृथिवी, मङ्गल, बुध, चन्द्रमा आदि (मदन्ति) प्रकाश और प्राण को प्राप्त करते हैं ॥१॥
भावार्थ : ज्येष्ठ ब्रह्म ही सूर्य, चन्द्र, पृथिवी, मङ्गल, बुध, बृहस्पति, तारामण्डल आदि लोक-लोकान्तरों का निर्माण करके इस ब्रह्माण्ड का सञ्चालन कर रहा है ॥१॥
In Sanskrit:
ऋषि : बृहद्दिव आथर्वणः | देवता : इन्द्रः | छन्द : त्रिष्टुप् | स्वर : धैवतः
विषय : तत्रादाविन्द्रस्य परमात्मनो महिमानं वर्णयति।
पदपाठ : तत् । इत् । आस । भुवनेषु । ज्येष्ठम् । यतः । जज्ञे । उग्रः । त्वेषनृम्णः । त्वेषु । नृम्णः । सद्यः । स । द्यः । जज्ञानः । नि । रिणाति । शत्रून् । अनु । यम् । विश्वे । मदन्ति । ऊमाः॥
पदार्थ : (तत् इत्) तदेव ब्रह्म (भुवनेषु) सूर्यनक्षत्रादिषु लोकलोकान्तरेषु (ज्येष्ठम्) महत्तमम् (आस) अस्ति। [लडर्थे लिट्। अस्तेर्भ्वादेशे लिटि बभूव इति प्राप्ते ‘छन्दस्युभयथा’ अ० ३।४।११७ इति लिट आर्धधातुकसंज्ञाभावे अस्तेर्भ्वादेशो न भवति।] (यतः) यस्मात् (उग्रः) प्रचण्डः (त्वेषनृम्णः) प्रदीप्तज्योतिर्धनः प्रदीप्तबलो वा इन्द्रः सूर्यः (जज्ञे) उत्पन्नः। (सद्यः) क्षिप्रम् (जज्ञानः) उत्पद्यमानः स इन्द्रः सूर्यः (शत्रून्) अन्धकारमालिन्यरोगादीन् रिपून् (नि रिणाति) विनाशयति। [री गतिरेषणयोः क्र्यादिः, ‘प्वादीनां हृस्वः’ अ० ७।३।८० इति ह्रस्वत्वम्।] (यम् अनु) यस्यानुकूल्येन (विश्वे) सर्वे (ऊमाः) रक्षकाः पृथिवीमङ्गलबुधचन्द्रादयः (मदन्ति) हृष्यन्ति, प्रकाशन्ते प्राणं च लभन्ते ॥ [अवते रक्षणार्थाद् ‘अविसिविसिशुषिभ्यः कित्। उ० १।१४४’ इति मन् प्रत्ययः। किच्च। ‘ज्वरत्वर०’ अ० ६।४।२० इत्यादिना वकारोपधयोः स्थाने ऊठ्] ॥१॥२
भावार्थ : ज्येष्ठं ब्रह्मैव सूर्यचन्द्रपृथिवीमङ्गलबुधबृहस्पतितारामण्डलादीनि लोकलोकान्तराणि निर्माय ब्रह्माण्डमिदं सञ्चालयति ॥१॥
टिप्पणी:१. ऋ० १०।१२०।१, य० ३३।८०, अथ० ५।२।१ देवता वरुणः, २०।१०७।४, अथर्ववेदे उभयत्र ‘अनु॒ यदे॑नं॒ मद॑न्ति॒ विश्व॒ ऊमाः॑’ इति चतुर्थः पादः।२. यजुर्भाष्ये दयानन्दस्वामिना मन्त्रोऽयं परमेश्वरविषये व्याख्यातः।