Samveda/1485
त्वे क्रतुमपि वृञ्जन्ति विश्वे द्विउयदेते त्रिर्भवन्त्यूमाः। स्वादोः स्वादीयः स्वादुना सृजा समदः सु मधु मधुनाभि योधीः (णी)।। [धा. । उ । स्व. ।]॥१४८५
Veda : Samveda | Mantra No : 1485
In English:
Seer : bRRihaddiva aatharvaNaH | Devta : indraH | Metre : triShTup | Tone : dhaivataH
Subject : English Translation will be uploaded as and when ready.
Verse : tve kratumapi vRRi~njanti vishve dviryadete trirbhavantyuumaaH . svaadoH svaadiiyaH svaadunaa sRRijaa samadaH su madhu madhunaabhi yodhiiH. 1485
Component Words : tveiti . kratum . api . vRRi~njanti . vishve . dviH . yat . ete . triH . bhavanti . uumaaH . svaadoH . svaadiiyaH . svaadunaa . sRRija . sam . adaH . su . madhu . madhunaa . abhi . yodhiiH.
Word Meaning :
Verse Meaning :
Purport :
In Hindi:
ऋषि : बृहद्दिव आथर्वणः | देवता : इन्द्रः | छन्द : त्रिष्टुप् | स्वर : धैवतः
विषय : अगले मन्त्र में जगदीश्वर का प्रभाव वर्णन करते हुए उससे प्रार्थना की गयी है।
पदपाठ : त्वेइति । क्रतुम् । अपि । वृञ्जन्ति । विश्वे । द्विः । यत् । एते । त्रिः । भवन्ति । ऊमाः । स्वादोः । स्वादीयः । स्वादुना । सृज । सम् । अदः । सु । मधु । मधुना । अभि । योधीः॥
पदार्थ : हे इन्द्र जगदीश्वर ! (यत् एते) जो ये (ऊमाः) रक्षक माता, पिता, अतिथि, संन्यासी आदि लोग (द्विः) दो बार, या (त्रिः) तीन बार (भवन्ति) जन्म लेते हैं, वे (त्वे) आपमें ही (क्रतुम्) किये जाते हुए सब कर्म को (अपि वृञ्जन्ति) समर्पित करते हैं। आप (स्वादुना) मेरे स्वादु आनन्द के साथ (स्वादोः स्वादीयः) अपने स्वादुतर आनन्द को (संसृज) मिला दो। (अदः) इस (सुमधु) अति मधुर अपने रस को (मधुना) मेरे मधुर जीवन के साथ (अभियोधीः) मिला दो ॥३॥यहाँ स्वादोः, स्वादीय, स्वादु में वृत्त्यनुप्रास है, द, स और ध की आवृत्ति में भी वही अनुप्रास है। ‘मधु, मधु’ में छेकानुप्रास है ॥३॥
भावार्थ : एक जन्म माता-पिता से और दूसरा जन्म आचार्य से पाकर मनुष्य द्विज बनता है और जो गृहस्थाश्रम में प्रवेश करके सन्तान उत्पन्न करता है, वह इसका तृतीय जन्म होता है, क्योंकि ‘पिता स्वयं पुत्र के रूप में जन्म लेता है’ (निरु० ३।४) यह शास्त्र का वचन है। जो भी द्विज या त्रिज महापुरुष होते हैं, वे परमात्मा में ही अपना सर्वस्व अर्पित कर देते हैं और परमात्मा उनके लिए अत्यन्त मधुर अपना आनन्द-रस बरसाता है ॥३॥
In Sanskrit:
ऋषि : बृहद्दिव आथर्वणः | देवता : इन्द्रः | छन्द : त्रिष्टुप् | स्वर : धैवतः
विषय : अथ जगदीश्वरस्य प्रभाववर्णनपूर्वकं स प्रार्थ्यते।
पदपाठ : त्वेइति । क्रतुम् । अपि । वृञ्जन्ति । विश्वे । द्विः । यत् । एते । त्रिः । भवन्ति । ऊमाः । स्वादोः । स्वादीयः । स्वादुना । सृज । सम् । अदः । सु । मधु । मधुना । अभि । योधीः॥
पदार्थ : हे इन्द्र जगदीश्वर ! (यत् एते) यद् इमे (ऊमाः) रक्षकाः मातापित्रातिथिसंन्यासिप्रभृतयो जनाः (द्विः) द्विवारम् (त्रिः) त्रिवारं वा (भवन्ति) जन्म गृह्णन्ति, ते (त्वे) त्वयि एव (क्रतुम्) क्रियमाणं सर्वमपि कर्म (अपि वृञ्जन्ति) समर्पयन्ति। त्वम् (स्वादुना) मधुरेण मदीयेन आनन्देन साकम् (स्वादोः स्वादीयः) स्वकीयं मधुरान्मधुरतरम् आनन्दम् (सं सृज) संमेलय। (अदः) इदम् (सुमधु) अतिशयेन मधुरं स्वकीयं रसम् (मधुना) मम मधुरेण जीवननेन (अभियोधीः) संघट्टय, संमेलय इत्यर्थः ॥३॥अत्र स्वादोः, स्वादीयः, स्वादु इति वृत्त्यनुप्रासः, दकारसकारधकाराणामावृत्तावपि स एव। ‘मधु, मधु’ इति च छेकानुप्रासः ॥३॥
भावार्थ : एकं जन्म मातापित्रोः सकाशात्, द्वितीयं जन्म चाचार्यस्य सकाशाद् गृहीत्वा मानवो द्विजो जायते, यच्च गृहस्थाश्रमं प्रविश्य सन्तानमुत्पादयति तदस्य तृतीयं जन्म ‘आत्मा वै पुत्र नामासि’। निरु० ३।४ इति स्मरणात्। येऽपि द्विजास्त्रिजा वा महापुरुषा भवन्ति ते परमात्मन्येव स्वकीयं सर्वस्वमर्पयन्ति, परमात्मा च तत्कृते मधुरमधुरं स्वकीयमानन्दरसं वर्षति ॥३॥
टिप्पणी:१. ऋ० १०।१२०।३, अथ० ५।२।३ देवता वरुणः, २०।१०७।६, उभयत्र ‘वृञ्जन्ति विश्वे’ इत्यत्र ‘पृञ्चन्ति॒ भूरि॒’ इति पाठः।