Samveda/1486
त्रिकद्रुकेषु महिषो यवाशिरं तुविशुष्मस्तृम्पत्सोममपिबद्विष्णुना सुतं यथावशम्। स ईं ममाद महि कर्म कर्तवे महामुरु सैन सश्चद्देवो देव सत्य इन्दुः सत्यमिन्द्रम्॥१४८६
Veda : Samveda | Mantra No : 1486
In English:
Seer : gRRitsamadaH shaunakaH | Devta : indraH | Metre : aShTiH | Tone : madhyamaH
Subject : English Translation will be uploaded as and when ready.
Verse : trikadrukeShu mahiSho yavaashira.m tuvishuShmastRRimpatsomamapibadviShNunaa suta.m yathaavasham . sa ii.m mamaada mahi karma kartave mahaamuru.m saina.m sashchaddevo deva.m satya induH satyamindram.1486
Component Words : trikadrukeShu . tri . kadrakeShu . mahiShaH . yavaashiram . yava . aashiram . tuvishuShmaH . tuvi . shuShmaH . tRRimpat . somam . apivat . viShNunaa . sutam . yathaavasham . yathaa . vasham . saH . iim . mamaada . mahi . karma . kartave . mahaam . urum . saha . enam . sashchata . devaH . devam . satyaH . induH . satyam . indram.
Word Meaning :
Verse Meaning :
Purport :
In Hindi:
ऋषि : गृत्समदः शौनकः | देवता : इन्द्रः | छन्द : अष्टिः | स्वर : मध्यमः
विषय : प्रथम ऋचा की व्याख्या पूर्वार्चिक में ४५७ क्रमाङ्क पर सूर्य-चन्द्र और गुरु-शिष्य में की गयी थी। यहाँ उपास्य-उपासक का विषय दर्शाते हैं।
पदपाठ : त्रिकद्रुकेषु । त्रि । कद्रकेषु । महिषः । यवाशिरम् । यव । आशिरम् । तुविशुष्मः । तुवि । शुष्मः । तृम्पत् । सोमम् । अपिवत् । विष्णुना । सुतम् । यथावशम् । यथा । वशम् । सः । ईम् । ममाद । महि । कर्म । कर्तवे । महाम् । उरुम् । सह । एनम् । सश्चत । देवः । देवम् । सत्यः । इन्दुः । सत्यम् । इन्द्रम्॥
पदार्थ : (त्रिकद्रुकेषु) तीन ऋग्, यजुः, साम रूप साधनोंवाले उपासना-यज्ञों में (महिषः) महान् जीवात्मा (विष्णुना) सर्वव्यापक परमात्मा से (सुतम्) चुआए हुए, (यवाशिरम्) योगाभ्यास से परिपक्व, (तुविशुष्मम्) बहुत बलदायक (सोमम्) ब्रह्मानन्द-रस को (यथावशम्) यथेच्छ (अपिबत्) पीता है। (सः) वह ब्रह्मानन्द-रस (महाम्) महान्, (उरुम्) विस्तृत ज्ञानवाले (ईम्) इस जीवात्मा को (महि कर्म) महान् कर्म (कर्तवे) करने के लिए (ममाद) उत्साहित करता है। (सः) वह (देवः) प्रकाशक, (सत्यः) सत्य, (इन्दुः) उपासक को भिगोनेवाला ब्रह्मानन्द--रस (देवम्) दिव्य-गुण-युक्त, (सत्यम्) सत्य के प्रेमी (एनम् इन्द्रम्) इस जीवात्मा को (सश्चत्) निरन्तर प्राप्त होता रहता है ॥१॥
भावार्थ : वेदमन्त्रों के गानपूर्वक मनुष्य जब परमात्मा को ध्याता है,तब परमात्मा के पास से धारा-प्रवाह में बहता हुआ परमानन्द-रस उसके आत्मा को निरन्तर नहलाता रहता है ॥१॥
In Sanskrit:
ऋषि : गृत्समदः शौनकः | देवता : इन्द्रः | छन्द : अष्टिः | स्वर : मध्यमः
विषय : तत्र प्रथमा ऋक् पूर्वार्चिके ४५७ क्रमाङ्के सूर्यचन्द्रविषये गुरुशिष्यविषये च व्याख्याता। अत्रोपास्योपासकविषयः प्रदर्श्यते।
पदपाठ : त्रिकद्रुकेषु । त्रि । कद्रकेषु । महिषः । यवाशिरम् । यव । आशिरम् । तुविशुष्मः । तुवि । शुष्मः । तृम्पत् । सोमम् । अपिवत् । विष्णुना । सुतम् । यथावशम् । यथा । वशम् । सः । ईम् । ममाद । महि । कर्म । कर्तवे । महाम् । उरुम् । सह । एनम् । सश्चत । देवः । देवम् । सत्यः । इन्दुः । सत्यम् । इन्द्रम्॥
पदार्थ : (त्रिकद्रुकेषु) त्रीणि ऋग्यजुःसामरूपाणि कद्रुकाणि साधनानि येषु तेषु उपासनायज्ञेषु (महिषः) महान् जीवात्मा (विष्णुना) सर्वव्यापकेन परमात्मना (सुतम्) क्षारितम् (यवाशिरम्) योगाभ्यासेन परिपक्वम् (तुविशुष्मम्) बहुबल-प्रदम् (सोमम्) ब्रह्मानन्दरसम् (यथावशम्) यथेच्छम् (अपिबत्) पिबति। (सः) ब्रह्मानन्दरसः (महाम्) महान्तम्, (उरुम्) विस्तीर्णज्ञानम् (ईम्) एनं जीवात्मानम् (महि कर्म) महत् कर्म (कर्तवे) कर्तुम् (ममाद) उत्साहयति। (सः) असौ (देवः) प्रकाशकः, (सत्यः) अवितथः (इन्दुः) उपासकस्य क्लेदकः ब्रह्मानन्दरसः (देवम्) दिव्यगुणम्, (सत्यम्) सत्यप्रियम् (एनम् इन्द्रम्) एतं जीवात्मानम् (सश्चत्) निरन्तरं प्राप्नोति ॥१॥२
भावार्थ : वेदमन्त्रगानपुरस्सरं मानवो यदा परमात्मानं ध्यायति तदा परमात्मसकाशाद् धाराप्रवाहेण प्रवहन् परमानन्दरसस्तदात्मानं नैरन्तर्येण स्नपयति ॥१॥
टिप्पणी:१. ऋ० २।२२।१, अथ० २०।९५।१, उभयत्र ‘तृम्पत्’ इत्यत्र ‘तृ॒पत्’ इति, अन्ते च ‘स॒त्यमिन्द्रं॑ स॒त्य इन्दुः॑’ इति पाठः। साम० ४५७।२. दयानन्दस्वामिना ऋग्भाष्ये मन्त्र एष सूर्यचन्द्रविषये व्याख्यातः।