Samveda/1619
प्रियो नो अस्तु विश्पतिर्होता मन्द्रो वरेण्यः। प्रियाः स्वग्नयो वयम् (ही)।। [धा. । उ नास्ति । स्व. ।]॥१६१९
Veda : Samveda | Mantra No : 1619
In English:
Seer : shunaH shepa aajiigartiH | Devta : agniH | Metre : gaayatrii | Tone : ShaDjaH
Subject : English Translation will be uploaded as and when ready.
Verse : priyo no astu vishpatirhotaa mandro vareNyaH . priyaaH svagnayo vayam.1619
Component Words : priyaH . naH . astu . vishpatiH . hotaa . mandraH . vareNyaH . priyaaH . svagnayaH . su . agnayaH . vayam.
Word Meaning :
Verse Meaning :
Purport :
In Hindi:
ऋषि : शुनः शेप आजीगर्तिः | देवता : अग्निः | छन्द : गायत्री | स्वर : षड्जः
विषय : अगले मन्त्र में उपास्य-उपासक का सम्बन्ध वर्णित है।
पदपाठ : प्रियः । नः । अस्तु । विश्पतिः । होता । मन्द्रः । वरेण्यः । प्रियाः । स्वग्नयः । सु । अग्नयः । वयम्॥
पदार्थ : (विश्वपतिः) प्रजापालक राजा के समान सब मनुष्यों का पालनकर्ता, (होता) देने योग्य वस्तुओं को देनेवाला, (मन्द्रः) आनन्द-प्रदाता, (वरेण्यः) वरणीय जगदीश्वर (नः) हमारा (प्रियः) प्यारा (अस्तु) होवे। (स्वग्नयः) शुभ संकल्प, उत्साह, राष्ट्रियता, वीरता आदि अथवा आहवनीय आदि अग्नियोंवाले (वयम्) हम उपासक जन भी उस जगदीश्वर के (प्रियाः) प्यारे होवें ॥३॥यहाँ अन्योन्यालङ्कार है ॥३॥
भावार्थ : जब मनुष्य परमात्मा से प्रीति करते हैं तब वह भी उनसे प्रीति करता है ॥३॥
In Sanskrit:
ऋषि : शुनः शेप आजीगर्तिः | देवता : अग्निः | छन्द : गायत्री | स्वर : षड्जः
विषय : अथोपास्योपासकयोः सम्बन्धमाह।
पदपाठ : प्रियः । नः । अस्तु । विश्पतिः । होता । मन्द्रः । वरेण्यः । प्रियाः । स्वग्नयः । सु । अग्नयः । वयम्॥
पदार्थ : (विश्पतिः) प्रजापालको नृपतिरिव सर्वेषां जनानां पालकः, (होता) दातव्यानां वस्तूनां प्रदाता, (मन्द्रः) आनन्दप्रदः, (वरेण्यः) वरणीयः जगदीश्वरः (नः) अस्माकम् (प्रियः) प्रीतिविषयः (अस्तु) भवतु। (स्वग्नयः) शुभानां संकल्पोत्साहराष्ट्रियतावीरतादीनाम् आहवनीयादीनां वा अग्नीनां सम्पादकाः (वयम्) वयम् उपासका जना अपि, तस्य जगदीश्वरस्य (प्रियाः) प्रीतिविषयाः, स्यामेति शेषः ॥३॥२अत्रान्योन्यालङ्कारः३ ॥३॥
भावार्थ : यदा मनुष्याः परमात्मनि प्रीतिं कुर्वन्ति तदा सोऽपि तेषु प्रीतिं करोति ॥३॥
टिप्पणी:१. ऋ० १।२६।७।२. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयं राजप्रजाधर्मविषये व्याख्यातः।३. अन्योन्यमुभयोरेकक्रियायाः कारणं मिथः (सा० द० १०।७२) इति तल्लक्षणात्।