Donation Appeal
Choose Mantra
Samveda/1797

शिक्षेयमिन्महयते दिवेदिवे राय आ कुहचिद्विदे। न हि त्वदन्यन्मघवन्न आप्यं वस्यो अस्ति पिता च न (ता)।। [धा. । उ । स्व. ।]॥१७९७

Veda : Samveda | Mantra No : 1797

In English:

Seer : vasiShTho maitraavaruNiH | Devta : indraH | Metre : pragaathaH(viShamaa bRRihatii samaa satobRRihatii) | Tone : pa~nchamaH

Subject : English Translation will be uploaded as and when ready.

Verse : shikSheyaminmahayate divedive raaya aa kuhachidvide . na hi tvadanyanmaghavanna aapya.m vasyo asti pitaa cha na.1797

Component Words :
shikSheyam . it . mahayate . divedive . dive . dive . raayaH . aa . kuyahachidvide . kuhachit . vide . na . hi . tvat . anyat . an . yat . maghavan . naH . aapyam . yasyaH . anti . pitaa . cha . na.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : वसिष्ठो मैत्रावरुणिः | देवता : इन्द्रः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : पञ्चमः

विषय : अगले मन्त्र में फिर वही विषय है।

पदपाठ : शिक्षेयम् । इत् । महयते । दिवेदिवे । दिवे । दिवे । रायः । आ । कुयहचिद्विदे । कुहचित् । विदे । न । हि । त्वत् । अन्यत् । अन् । यत् । मघवन् । नः । आप्यम् । यस्यः । अन्ति । पिता । च । न॥

पदार्थ : यदि मैं धनपति हो जाऊँ तो (कुहचिद्विदे) जहाँ कहीं भी विद्यमान (महयते) परमेश्वरपूजक समाजसेवी मनुष्य को (दिवेदिवे) प्रतिदिन (रायः) धन (आ शिक्षेयम् इत्) अवश्य ही दान किया करूँ। हे (मघवन्) धनपति परमात्मन् ! (त्वत् अन्यत्) आपसे भिन्न कोई भी (नः) हमारा (आप्यम्) प्राप्तव्य और (वस्यः) अतिशय शरण देनेवाला (नहि) नहीं (अस्ति) है, (पिता च) और पिता के समान पालक भी (न) नहीं है ॥२॥

भावार्थ : दान सदा सुपात्र को ही देना चाहिए, कुपात्र को नहीं ॥२॥


In Sanskrit:

ऋषि : वसिष्ठो मैत्रावरुणिः | देवता : इन्द्रः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : पञ्चमः

विषय : अथ पुनस्तमेव विषयमाह।

पदपाठ : शिक्षेयम् । इत् । महयते । दिवेदिवे । दिवे । दिवे । रायः । आ । कुयहचिद्विदे । कुहचित् । विदे । न । हि । त्वत् । अन्यत् । अन् । यत् । मघवन् । नः । आप्यम् । यस्यः । अन्ति । पिता । च । न॥

पदार्थ : यदि अहं धनपतिर्भवेयं तर्हि (कुहचिद्विदे२) यत्र कुत्रापि विद्यमानाय (महयते) परमेश्वरपूजकाय समाजसेवकाय जनाय। [महयतिः अर्चतिकर्मा। निघं० ३।१४।] (दिवेदिवे) प्रतिदिनम् (रायः) धनानि (आ शिक्षेयम् इत्) दद्याम् एव। [शिक्षतिः ददातिकर्मा। निघं० ३।२०।] हे (मघवन्) धनाधिप परमात्मन् ! (त्वद् अन्यत्) त्वद्भिन्नं किञ्चित् (नः) अस्माकम् (आप्यम्) प्राप्तव्यम् किञ्च (वस्यः) अतिशयेन आच्छादयितृ, शरणप्रदमित्यर्थः (नहि) नैव (अस्ति) विद्यते, (पिता च) पितृवत् पालकश्चापि (न) न विद्यते ॥२॥३

भावार्थ : दानं सदा सुपात्र एव देयं न तु कुपात्रे ॥२॥

टिप्पणी:१. ऋ० ७।३२।१९; अथ० २०।८२।२।२. कुहचिद्विदे। कुत्रचिद् विद्यमानः कुहचिद्वित् तस्मै। यत्र क्वापि विद्यमानायेत्यर्थः—इति सा०।३. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमेतं प्रजाजनैः किमेष्टव्यमिति विषये व्याख्यातवान्।