Samveda/1844
अप्सु रेतः शिश्रिये विश्वरूपं तेजः पृथिव्यामधि यत्सम्बभूव। अन्तरिक्षे स्वं महिमानं मिमानः कनिक्रन्ति वृष्णो अश्वस्य रेतः॥१८४४
Veda : Samveda | Mantra No : 1844
In English:
Seer : suparNaH | Devta : agniH | Metre : triShTup | Tone : dhaivataH
Subject : English Translation will be uploaded as and when ready.
Verse : apsu retaH shishriye vishvaruupa.m tejaH pRRithivyaamadhi yatsambabhuuva . antarikShe sva.m mahimaana.m mimaanaH kanikranti vRRiShNo ashvasya retaH.1844
Component Words : apsu . retaH . shishriye . vishvarupam . vishva . rupam . tejaH . pRRithivyaam . adhi . yat . sa.mvabhuuva . sam . babhuuva . antarikShe . svam . mahimaanam . mimaanaH . kanikranti . vRRiShNaH . ashvasya . retaH.
Word Meaning :
Verse Meaning :
Purport :
In Hindi:
ऋषि : सुपर्णः | देवता : अग्निः | छन्द : त्रिष्टुप् | स्वर : धैवतः
विषय : अगले मन्त्र में परमेश्वर की महिमा वर्णित है।
पदपाठ : अप्सु । रेतः । शिश्रिये । विश्वरुपम् । विश्व । रुपम् । तेजः । पृथिव्याम् । अधि । यत् । संवभूव । सम् । बभूव । अन्तरिक्षे । स्वम् । महिमानम् । मिमानः । कनिक्रन्ति । वृष्णः । अश्वस्य । रेतः॥
पदार्थ : (अप्सु) नदियों में जो (विश्वरूपम्) सब रूपोंवाला (रेतः) जल (शिश्रिये) आश्रित है, (यत्) और जो (पृथिव्याम् अधि) भूमि के अन्दर (तेजः) तेज (संबभूव) उत्पन्न हुआ है, उस सबको (ऋज्रः) सर्वव्यापक अग्नि नामक जग्दीश्वर ने ही (जजान) उत्पन्न किया है। [यहाँ ‘ऋज्रः’ और ‘जजान’ ये दोनों पद पूर्व मन्त्र से लाये गये हैं।] वही जगदीश्वर (अन्तरिक्षे) अन्तरिक्ष में (स्वम्) अपनी (महिमानम्) महिमा को (मिमानः) प्रकट कर रहा है। उसी की महिमा से (वृष्णः) वर्षा करनेवाले (अश्वस्य) व्यापक बादल का (रेतः) जल (कनिक्रन्ति) बहुत अधिक गरजता है ॥२॥
भावार्थ : नदियों में, भूमि पर, अन्तरिक्ष में, द्युलोक में, सूर्य में, बादल में सभी जगह जगदीश्वर की ही महिमा दृग्गोचर हो रही है ॥२॥
In Sanskrit:
ऋषि : सुपर्णः | देवता : अग्निः | छन्द : त्रिष्टुप् | स्वर : धैवतः
विषय : अथ परमेश्वरस्य महिमा वर्ण्यते।
पदपाठ : अप्सु । रेतः । शिश्रिये । विश्वरुपम् । विश्व । रुपम् । तेजः । पृथिव्याम् । अधि । यत् । संवभूव । सम् । बभूव । अन्तरिक्षे । स्वम् । महिमानम् । मिमानः । कनिक्रन्ति । वृष्णः । अश्वस्य । रेतः॥
पदार्थ : (अप्सु) नदीषु यत् (विश्वरूपम्) सर्वरूपम् (रेतः) जलम्। [रेतः इत्युदकनाम। निघं० १।५] (शिश्रिये) आश्रितमस्ति, (यत्) यच्च (पृथिव्याम् अधि) भूम्याम् (तेजः) औष्ण्यम् (सं बभूव) उत्पन्नमस्ति, तत् सर्वम् (ऋज्रः) सर्वव्यापकः अग्निर्जगदीश्वर एव (जजान) उत्पादितवानस्ति इति पूर्वमन्त्रादाकृष्यते। स एव जगदीश्वरः (अन्तरिक्षे स्वम्) स्वकीयम् (महिमानम्) महत्त्वम् (मिमानः) प्रकटयन् अस्ति। तस्यैव महिम्ना (वृष्णः) वर्षकरम् (अश्वस्य) पर्जन्यस्य (रेतः) बलम् (कनिक्रन्ति) भृशं गर्जति। [क्रदि आह्वाने रोदने च, भ्वादिः, यङ्लुकि चाक्रन्ति इति अभ्यासस्य निगागमः] ॥२॥
भावार्थ : सरित्सु पृथिव्यामन्तरिक्षे दिवि सूर्ये पर्जन्ये सर्वत्र जगदीश्वरस्यैव महिमा दृग्गोचरो भवति ॥२॥
टिप्पणी:१. प्र दि॒वो नो॑ वृष्टिं म॑रुतो ररीध्वं॒ प्र पि॑न्वत वृष्णो॒ अश्व॑स्य धाराः॑। ऋ० ५।८३।६ इत्यत्र पर्जन्यो ‘वृषा अश्वः’ उक्तः। तथा च तत्र सायणः—‘वृष्णः वर्षकस्य अश्वस्य व्यापकस्य मेघस्य’ इति।