Samveda/1862
प्रेता जयता नर इन्द्रो वः शर्म यच्छतु। उग्रा वः सन्तु बाहवोऽनाधृष्या यथासथ।।॥१८६२
Veda : Samveda | Mantra No : 1862
In English:
Seer : apratiratha aindraH | Devta : indro maruto vaa | Metre : anuShTup | Tone : gaandhaaraH
Subject : English Translation will be uploaded as and when ready.
Verse : pretaa jayataa nara indro vaH sharma yachChatu . ugraa vaH santu baahavo.anaadhRRiShyaa yathaasatha.1862
Component Words : pra . ita . jayata . naraH . indraH . yaH . sharma . yachChatu . ugraaH . vaH . santu . vaahavaH . anaadhRRiShyaaH . an . aadhRRiShyaH . yathaa . asatha.
Word Meaning :
Verse Meaning :
Purport :
In Hindi:
ऋषि : अप्रतिरथ ऐन्द्रः | देवता : इन्द्रो मरुतो वा | छन्द : अनुष्टुप् | स्वर : गान्धारः
विषय : अगले मन्त्र में वीरों को उद्बोधन दिया गया है।
पदपाठ : प्र । इत । जयत । नरः । इन्द्रः । यः । शर्म । यच्छतु । उग्राः । वः । सन्तु । वाहवः । अनाधृष्याः । अन् । आधृष्यः । यथा । असथ॥
पदार्थ : हे (नरः) वीर-पुङ्गव योद्धाओ ! (प्रेत) आगे बढ़ो, (जयत) विजय पाओ। (इन्द्रः) तुम्हारा वीर अन्तरात्मा (वः) तुम्हें (शर्म) कल्याण (यच्छतु) प्रदान करे। (वः) तुम्हारी (बाहवः) भुजाएँ (उग्राः) उग्र (सन्तु) हों, (यथा) जिससे, तुम (अनाधृष्याः) अपराजेय (असथ) हो जाओ ॥२॥इस मन्त्र में वीर रस है ॥२॥
भावार्थ : मनुष्यों को उद्बोधन तभी मिल सकता है यदि उनका आत्मा बलवान् हो। इसलिए अपने आत्मा को बली बनाकर, उद्बोधन पाकर जीवन-सङ्ग्राम में सबको विजय प्राप्त करनी चाहिए ॥२॥
In Sanskrit:
ऋषि : अप्रतिरथ ऐन्द्रः | देवता : इन्द्रो मरुतो वा | छन्द : अनुष्टुप् | स्वर : गान्धारः
विषय : अथ वीरानुद्बोधयति।
पदपाठ : प्र । इत । जयत । नरः । इन्द्रः । यः । शर्म । यच्छतु । उग्राः । वः । सन्तु । वाहवः । अनाधृष्याः । अन् । आधृष्यः । यथा । असथ॥
पदार्थ : हे (नरः) वीरा योद्धारः ! (प्रेत) अग्रे गच्छत, (जयत) विजयं प्राप्नुत। (इन्द्रः) युष्माकं वीरः अन्तरात्मा (वः) युष्मभ्यम् (शर्म) कल्याणम् (यच्छतु) ददातु। (वः) युष्माकम् (बाहवः) भुजाः (उग्राः) उद्गूर्णबलाः, प्रचण्डाः (सन्तु) भवन्तु, (यथा) येन यूयम् (अनाधृष्याः) केनाप्यपराजेयाः (असथ) भवत। [संहितायां ‘प्रेता’ इत्यत्र ‘द्व्यचोऽतस्तिङः’ अ० ६।३।१३५ इति ‘जयता’ इत्यत्र च ‘अन्येषामपि दृश्यते’ अ० ६।३।१३७ इति दीर्घः। असथ, अस्तेर्लेटि मध्यमबहुवचनम्] ॥२॥२अत्र वीरो रसः ॥२॥
भावार्थ : मनुष्येषूद्बोधनं तदैव संभवति यदि तेषामात्मा सबलो भवेत्। अतः स्वात्मानं बलिनं विधायोद्बोधनं प्राप्य जीवनसंग्रामे सर्वैर्विजयः प्राप्तव्यः ॥२॥
टिप्पणी:१. ऋ० १०।१०३।१३; य० १७।४६; अथ० ३।१९।७।२. यजुर्भाष्ये दयानन्दस्वामी मन्त्रमिमं सेनापतिसैनिकसंबन्धविषये व्याचष्टे।