Samveda/1873
मृगो न भीमः कुचरो गिरिष्ठाः परावत आ जगन्था परस्याः। सृक सशाय पविमिन्द्र तिग्मं वि शत्रूं ताढि वि मृधो नुदस्व॥१८७३
Veda : Samveda | Mantra No : 1873
In English:
Seer : jaya aindraH | Devta : indraH | Metre : triShTup | Tone : dhaivataH
Subject : English Translation will be uploaded as and when ready.
Verse : mRRigo na bhiimaH kucharo giriShThaaH paraavata aa jaganthaa parasyaaH . sRRika.m sa.m shaaya pavimindra tigma.m vi shatruu.m taaDhi vi mRRidho nudasva.1873
Component Words : mRRigaH . na . bhiimaH . kucharaH . giriShThaaH . giri . sthaaH . paraavataH . aa . jagantha . parasyaaH . sRRikam . sashaaya . sam . shaaya . pavim . indra . tigmam . vi . shatruun . taaDi . vi . mRRidhaH . nudasva.
Word Meaning :
Verse Meaning :
Purport :
In Hindi:
ऋषि : जय ऐन्द्रः | देवता : इन्द्रः | छन्द : त्रिष्टुप् | स्वर : धैवतः
विषय : प्रथम मन्त्र में मानव को उद्बोधन दिया गया है।
पदपाठ : मृगः । न । भीमः । कुचरः । गिरिष्ठाः । गिरि । स्थाः । परावतः । आ । जगन्थ । परस्याः । सृकम् । सशाय । सम् । शाय । पविम् । इन्द्र । तिग्मम् । वि । शत्रून् । ताडि । वि । मृधः । नुदस्व॥
पदार्थ : हे (इन्द्र) वीर मानव ! तू (भीमः) भयङ्कर, (कुचरः) भूमि पर विचरनेवाले, (गिरिष्ठाः) पर्वत की गुफा में निवास करनेवाले (मृगः न) शेर के समान (भीमः) दुष्टों के लिए भयङ्कर, (कुचरः) भू-विहारी और (गिरिष्ठाः) पर्वत के सदृश उन्नत पद पर प्रतिष्ठित हो। (परावतः) सुदूर देश से (परस्याः) और दूर दिशा से (आ जगन्थ) शत्रुओं के साथ युद्ध करने के लिए आ। (सृकम्) गतिशील, (तिग्मम्) तीक्ष्ण (पविम्) वज्र को, शस्त्रास्त्रसमूह को (संशाय) और अधिक तीक्ष्ण करके (शत्रून्) शत्रुओं को (वि ताढि) विताड़ित कर, (मृधः) हिंसकों को (वि नुदस्व) दूर भगा दे ॥१॥यहाँ श्लिष्टोपमालङ्कार है ॥१॥
भावार्थ : मनुष्यों को चाहिए कि वीरता का सञ्चय करके जैसे बाहरी शत्रुओं को पराजित करें वैसे ही आन्तरिक शत्रुओं को भी निर्मूल करें ॥१॥
In Sanskrit:
ऋषि : जय ऐन्द्रः | देवता : इन्द्रः | छन्द : त्रिष्टुप् | स्वर : धैवतः
विषय : तत्रादौ मानवमुद्बोधयति।
पदपाठ : मृगः । न । भीमः । कुचरः । गिरिष्ठाः । गिरि । स्थाः । परावतः । आ । जगन्थ । परस्याः । सृकम् । सशाय । सम् । शाय । पविम् । इन्द्र । तिग्मम् । वि । शत्रून् । ताडि । वि । मृधः । नुदस्व॥
पदार्थ : हे (इन्द्र) वीर मानव ! त्वम् (भीमः) भयङ्करः, (कुचरः) भूचरः, (गिरिष्ठाः) पर्वतगुहानिवासी (मृगः न) सिंह इव (भीमः) दुष्टानां भयङ्करः, (कुचरः) भूविहर्ता, (गिरिष्ठाः) पर्वतवदुन्नते पदे स्थितिं लब्धा, भवेति शेषः। (परावतः) परागतवतो देशात् (परस्याः) परवर्तिन्या अपि दिशः (आ जगन्थ) शत्रुभिर्योद्धुम् आयाहि। (सृकम्) सरणशीलम्, (तिग्मम्) तीक्ष्णम् (पविम्) वज्रम्, शस्त्रास्त्रसमूहमिति यावत् (संशाय) भूयोऽपि तीक्ष्णीकृत्य (शत्रून्) रिपून् (वि ताढि२) विताडय, (मृधः) हिंसकान् (विनुदस्व) दूरं विद्रावय। [परावतः, ‘उपसर्गाच्छन्दसि धात्वर्थे’ अ० ५।१।११८ इति वतिः प्रत्ययः। संशाय, संपूर्वः शो तनूकरणे दिवादिः, क्त्वो ल्यप्] ॥१॥३यास्काचार्येण निरुक्ते नैघण्टुकदेवताप्रकरणे मन्त्रस्य प्रथमश्चरण एवं व्याख्यातः—[“मृगो न भीमः कुचरो गिरिष्ठाः। मृग इव भीमः कुचरो गिरिष्ठाः। मृगो मार्ष्टेर्गतिकर्मणः, भीमो बिभ्यत्यस्माद्, भीष्मोऽप्येतस्मादेव। कुचर इति चरतिकर्म कुत्सितम्, अथ चेद् देवताभिधानं क्वायं न चरतीति। गिरिष्ठा गिरिस्थायी। गिरिः पर्वतः समुद्गीर्णो भवति” इति (निरु० १।२०)] ॥अत्र श्लिष्टोपमालङ्कारः ॥१॥
भावार्थ : मनुष्यैः स्वात्मनि वीरतां सञ्चित्य यथा बाह्याः शत्रवः पराजेयास्तथैवाभ्यन्तरा अपि निर्मूलनीयाः ॥१॥
टिप्पणी:१. ऋ० १०।१८०।२; य० १८।७१; अथ० ७।८४।३।२. ताडयतिर्हिंसाकर्मा, तस्य हौ परे छन्दस्युभयथेत्यार्द्धधातुकत्वे णिचो लोपः, हुझल्भ्यो हेर्धिः, ष्टुत्वम्, ताढि—इति य० १८।७१ भाष्ये महीधरः।३. यजुर्भाष्ये दयानन्दर्षिर्मन्त्रमिमं राजजनैः कीदृशैर्भवितव्यमिति विषये व्याचष्टे।