Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 4 / 8 / 4

व्या॒घ्रो अधि॒ वैया॑घ्रे॒ वि क्र॑मस्व॒ दिशो॑ म॒हीः। विश॑स्त्वा॒ सर्वा॑ वाञ्छ॒न्त्वापो॑ दि॒व्याः पय॑स्वतीः ॥ 4॥

Veda : Atharvaveda | Kand : 4 | Sukta : 8 | Paryay : | Mantra No : 4

In Hindi:

ऋषि : अथर्वाङ्गिराः | देवता : चन्द्रमाः, आपः, राज्याभिषेकः | छन्द : अनुष्टुप् | स्वर :

विषय : राजतिलक यज्ञ का उपदेश।

पदपाठ : व्या॒घ्र: । अधि॑ । वैया॑घ्रे । वि । क्र॒म॒स्व॒ । दिश॑: । म॒ही: । दिश॑: । त्वा॒ । सर्वा॑: । वा॒ञ्छ॒न्तु॒ । आप॑: । दि॒व्या: । पय॑स्वती: ॥८.४॥

पदार्थ : [हे राजन्] (व्याघ्रः) बाघ के समान पराक्रमी तू (वैयाघ्रे अधि) बाघ के स्वभाव में [स्थित होकर] (महीः दिशः) बड़ी दिशाओं को (वि क्रमस्व) विक्रम से जीत। (सर्वाः) सब (विशः) प्रजायें, और (दिव्याः) उत्तम (पयस्वतीः=०-त्यः) सारवाली (आपः) जलधाराएँ (त्वा) तुझको (वाञ्छन्तु) चाहें ॥४॥ "

भावार्थ : राजा व्याघ्र के समान पराक्रमी और जल के समान उपकारी होवे, सब प्रजागण उससे प्रीति करें और राज्य में अनावृष्टि आदि न हो ॥४॥

टिप्पणी :४−(व्याघ्र) अ० ४।३।१। व्याघ्रो व्याघ्राणाद् व्यादाय हन्तीति वा। निरु० ३।१८। लुप्तोपममेतत्। व्याघ्रवद् दुष्प्रधर्षः (अधि) उपरि उपविष्टः सन् (वैयाघ्रे) तस्येदम्। पा० ४।३।१२०। इति व्याघ्र-अण्। न य्वाभ्यां पदान्ताभ्याम्०। पा० ७।३।३। इति यकारात् पूर्वम् ऐच्। व्याघ्रस्यायं स्वभावस्तस्मिन् (विक्रमस्व) वेः पादविहरणे। पा० १।३।४१। इति क्रमेरात्मनेपदम्। विक्रमेण शौर्येण व्याप्नुहि। विजयस्व (दिशः) प्राच्याद्याः (महीः) महतीः (विशः) प्रजाः (त्वा) त्वां राजानम् (सर्वाः) (वाञ्छन्तु) वाछि इच्छायाम्। स्वामित्वेन इच्छन्तु (आपः) जलानि (दिव्याः) दिवि भवः-यत्। उत्तमगुणयुक्ताः (पयस्वतीः) पयस्वत्यः। सारवत्यः ॥