Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 4 / 14 / 8

प्र॒तीच्यां॑ दि॒शि भ॒सद॑मस्य धे॒ह्युत्त॑रस्यां दि॒श्युत्त॑रं धेहि पा॒र्श्वम्। ऊ॒र्ध्वायां॑ दि॒श्य१॒॑जस्यानू॑कं धेहि दि॒शि ध्रु॒वायां॑ धेहि पाज॒स्य॑म॒न्तरि॑क्षे मध्य॒तो मध्य॑मस्य ॥ 8॥

Veda : Atharvaveda | Kand : 4 | Sukta : 14 | Paryay : | Mantra No : 8

In Hindi:

ऋषि : भृगुः | देवता : आज्यम्, अग्निः | छन्द : पञ्चपदातिशक्वरी | स्वर :

विषय : ब्रह्म की प्राप्ति का उपदेश।

पदपाठ : प्र॒तीच्या॑म् । दि॒शि । भ॒सद॑म् । अ॒स्य॒ । धे॒हि॒ । उत्त॑रस्याम् । दि॒शि । उत्त॑रम् । धे॒हि॒ । पा॒र्श्वम् । ऊ॒र्ध्वाया॑म् । दि॒शि । अ॒जस्य॑ । अनू॑कम् । धे॒हि॒ । दि॒शि । ध्रु॒वाया॑म् । धे॒हि॒ । पा॒ज॒स्य᳡म् । अ॒न्तरि॑क्षे । म॒ध्य॒त: । मध्य॑म् । अ॒स्य॒ ॥१४.८॥

पदार्थ : [हे मनुष्य !] (प्रतीच्याम्) पश्चिम वा पीछेवाली (दिशि) दिशा में (अस्य) इस [जीवात्मा] के (भसदम्) दीप्ति वा कटि भाग को (धेहि) धर, (उत्तरस्याम्) उत्तर वा बाईं (दिशि) दिशा में (उत्तरम्) बाएँ (पार्श्वम्) कक्षा के नीचे भाग को (धेहि) धर। (ऊर्ध्वायाम्) ऊपरवाली (दिशि) दिशा में (अजस्य) जीवात्मा की (अनूकम्) रीढ़ को (धेहि) धर, (ध्रुवायाम्) स्थिर (दिशि) दिशा में (अस्य) इसके (पाजस्यम्) बल देनेवाले उदर को, और (अन्तरिक्षे) आकाश में (मध्यतः) बीचाबीच (मध्यम्) मध्य भाग को (धेहि) धर ॥८॥"

भावार्थ : पञ्च भूत निर्मित स्थूल शरीर में सूक्ष्म शरीरवाला आत्मा इन्द्रियों सहित रहता है। योगी विवेक दृष्टि द्वारा, आत्मा को स्थूल शरीर से पृथक् करे, और आत्मा के सूक्ष्म अवयवों को मन्त्र ७ व ८ के अनुसार स्थापित करके मन्त्र ९ के अनुसार मोक्ष फल प्राप्त करे

टिप्पणी :८−(प्रतीच्याम्) अ० ३।२६।३। पश्चिमायाम् पश्चात् स्थितायाम् (दिशि) दिशायाम् (भसदम्) शॄदृभसोऽदिः। उ० १।१३०। इति भस भर्त्सनदीप्त्योः-अदि। कटिप्रदेशं जघनं वा (अस्य) अजस्य (धेहि) स्थापय (उत्तरस्याम्) उदीच्याम्। वामभागवर्तमानायाम् (उत्तरम्) वामभागस्थम् (पार्श्वम्) म० ७ (ऊर्ध्वायाम्) अ० ३।२६।६। उपरि वर्तमानायाम् [अजस्य] म० १। जीवात्मनः (अनूकम्) अनु+उच् समवाये घञर्थे कः। न्यङ्क्वादीनां च। पा० ७।३।५३। इति कुत्वम्। पृष्ठवंशम् (ध्रुवायाम्) अ० २।२६।४। स्थिरायाम्। अधस्तात् (पाजस्यम्) पाज इति बलनाम-निघ० २।९। पाजसे हितम्। बलकरमङ्गम्। उदरम् (अन्तरिक्षे) आकाशे (मध्यतः) मध्यभागे (मध्यम्) शरीरमध्यभागम् (अस्य) निर्दिष्टस्य ॥