Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 4 / 31 / 7

संसृ॑ष्टं॒ धन॑मु॒भयं॑ स॒माकृ॑तम॒स्मभ्यं॑ धत्तां॒ वरु॑णश्च म॒न्युः। भियो॒ दधा॑ना॒ हृद॑येषु॒ शत्र॑वः॒ परा॑जितासो॒ अप॒ नि ल॑यन्ताम् ॥ 7॥

Veda : Atharvaveda | Kand : 4 | Sukta : 31 | Paryay : | Mantra No : 7

In Hindi:

ऋषि : ब्रह्मास्कन्दः | देवता : मन्युः | छन्द : जगती | स्वर :

विषय : संग्राम में जय पाने का उपदेश।

पदपाठ : सम्ऽसृ॑ष्टम् । धन॑म् । उ॒भय॑म् । स॒म्ऽआकृ॑तम् ।अ॒स्मभ्य॑म् । ध॒त्ता॒म् । वरु॑ण: । च॒ । म॒न्यु: । भिय॑: । दधा॑ना: । हृद॑येषु । शत्र॑व: । परा॑जितास: । अप॑ । नि । ल॒य॒न्ता॒म् ॥३१.७॥

पदार्थ : (वरुणः) श्रेष्ठ शूर (च) और (मन्युः) क्रोध (संसृष्टम्) संग्रह किया हुआ और (समाकृतम्) उगाही किया हुआ (उभयम्) दो प्रकार का [आत्मिक और सामाजिक] (धनम्) धन (अस्मभ्यम्) हमें (धत्ताम्) देवें। (पराजितासः) हारे हुए, और (हृदयेषु) हृदयों में (भियः) अनेक भय (दधानाः) रखते हुए (शत्रवः) शत्रु लोग (अप=अपक्रम्य) भागकर (नि लयन्ताम्) खिसक जावें ॥७॥"

भावार्थ : शूर पुरुष यथानीति क्रोध धारण करके शत्रुओं को हराते और बहुत धन प्राप्त करके अपनी और समाज की उन्नति करते हैं ॥७॥

टिप्पणी :७−(संसृष्टम्) सृज विसर्गे-क्त। संगृहीतम् (धनम्) वित्तम् (उभयम्) संख्याया अवयवे तयप्। पा० ५।२।४२। इति उभ-तयप्। उभादुदात्तो नित्यम्। पा० ५।२।४४। इति तयपोऽयजादेशः। उभयविधम्। आत्मिकं समाजिकं चेत्यर्थः (समाकृतम्) समानीतम् (अस्मभ्यम्) (धत्ताम्) प्रयच्छताम्। दत्ताम् (वरुणः) वरणीयः स्वीकरणीयः शूरः (च) समुच्चये (मन्युः) म० १। क्रोधः (भियः) ञिभी भये-संपदादित्वात् क्विप्। भयानि (दधानाः) धारयन्तः (हृदयेषु) मनःसु (शत्रवः) अरयः (पराजितासः) पराजिताः। अभिभूताः (अप) अपक्रम्य (नि) नितराम्। नीचैः (लयन्ताम्) लीङ् श्लेषणे-लोट्। लयं प्रलयं विनाशं प्राप्नुवन्तु। प्रच्छन्नं वर्तन्ताम् ॥