Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 5 / 1 / 5

तदू॒ षु ते॑ म॒हत्पृ॑थुज्म॒न्नमः॑ क॒विः काव्ये॑ना कृणोमि। यत्स॒म्यञ्चा॑वभि॒यन्ता॑व॒भि क्षामत्रा॑ म॒ही रोध॑चक्रे वावृ॒धेते॑ ॥ 5॥

Veda : Atharvaveda | Kand : 5 | Sukta : 1 | Paryay : | Mantra No : 5

In Hindi:

ऋषि : बृहद्दिवोऽथर्वा | देवता : वरुणः | छन्द : त्रिष्टुप् | स्वर :

विषय : ब्रह्म विद्या का उपदेश।

पदपाठ : तत् । ऊं॒ इति॑ । सु । ते॒ । म॒हत् । पृ॒थु॒ऽज्म॒न् । नम॑: । क॒वि: । काव्ये॑न । कृ॒णो॒मि । यत् । स॒म्यञ्चौ॑ । अ॒भि॒ऽयन्तौ॑ । अ॒भि । क्षाम् । अत्र॑ ।म॒ही इति॑ । रोध॑चक्रे॒ इति॒ रोध॑ऽचक्रे । व॒वृ॒धेते॒ इति॑॥१.५॥

पदार्थ : (तत्) उस कारण से (पृथुज्मन्) हे विस्तृत गतिवाले परमात्मन् ! (ते) तेरे लिये (उ)। ही (कविः) मैं बुद्धिमान् पुरुष (काव्येन) बुद्धिमत्ता के साथ (सु) सुन्दर रीति से (महत्) बहुत-बहुत (नमः) नमस्कार (कृणोमि) करता हूँ। (यत्) जिससे (सम्यञ्चौ) आपस में मिले हुए (अभियन्तौ) सब ओर गतिवाले [दोनों लोक अर्थात्] (मही) विशाल (रोधचक्रे) [प्राणियों को] रोकने के कर्मवाले [सूर्य पृथिवी अर्थात् ऊँचे-नीचे लोक] (क्षाम् अभि) हमारे निवास, उद्योग, वा ऐश्वर्य के लिये (अत्र) यहाँ पर (वावृधेते) बढ़ते हैं ॥५॥"

भावार्थ : मनुष्य विज्ञानपूर्वक परम पिता जगदीश्वर का धन्यवाद करें, उसने हमारे ऐश्वर्य के लिये संसार में अनेक पदार्थ रचे हैं ॥५॥

टिप्पणी :५−(तत्) तस्मात्कारणात् (उ) निश्चयेन (सु) सुन्दररीत्या (ते) तुभ्यम् (महत्) बृहत् (पृथुज्मन्) सर्वधातुभ्यो मनिन्। उ० ४।१४५। इति पृथु+अज गतिक्षेपणयोः−मनिन्, अकारलोपः। हे परिज्मन् विस्तीर्णगते परमात्मन् (नमः) नमस्कारम् (कविः) अहं मेधावी (काव्येन) अ० ४।१।६। स्तुत्यकर्मणा। यद्वा। गुणवचनब्राह्मणादिभ्यः कर्मणि च। पा० ४।१।१२४। इति कवि−ष्यञ्। कविकर्मणा। बुद्धिमत्तया। (कृणोमि) करोमि (यत्) यस्मात्कारणात् सम्यञ्चौ संगच्छमानौ (अभियन्तौ) सर्वतो गच्छन्तौ द्वौ लोकौ (अभि) प्रति (क्षाम्) अन्येष्वपि दृश्यते पा० ३।२।१०—१। इति क्षि निवासगत्योः, ऐश्वर्ये च−ड, टाप्। क्षा पृथिवीनाम−निघ० १।१। निवासं गतिम् ऐश्वर्यं वा। (अत्र) अस्मिन् लोके (मही) महत्यौ (रोधचक्रे) भावे। पा० ३।३।१८। रुधिर् आवरणे−घञ्। घञर्थे कविधानम्। वा० पा० ३।३।५८। इति डुकृञ् करणे−क। द्वित्वम्। चक्रं करणम्। रोधचक्राः, नदीनाम−निघ० १,१३। रोधस्य प्राणिनिरोधस्य चक्रं करणं कृतिर्ययोस्ते द्यावापृथिव्यौ (ववृधेते) वृधु वृद्धौ लटि छान्दसं रूपम्। वर्धेते ॥