Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 5 / 11 / 5

त्वं ह्य१॒॑ङ्ग व॑रुण स्वधाव॒न्विश्वा॒ वेत्थ॒ जनि॑मा सुप्रणीते। किं रज॑स ए॒ना प॒रो अ॒न्यद॑स्त्ये॒ना किं परे॒णाव॑रममुर ॥ 5॥

Veda : Atharvaveda | Kand : 5 | Sukta : 11 | Paryay : | Mantra No : 5

In Hindi:

ऋषि : अथर्वा | देवता : वरुणः | छन्द : त्रिष्टुप् | स्वर :

विषय : ब्रह्म विद्या का उपदेश।

पदपाठ : त्वम् । हि । अ॒ङ्ग । व॒रु॒ण॒ । स्व॒धा॒ऽव॒न् । विश्वा॑ । वेत्थ॑ । जनि॑म । सु॒ऽप्र॒नी॒ते॒ । किम् । रज॑स: । ए॒ना । प॒र: । अ॒न्यत् । अ॒स्ति॒ । ए॒ना । किम् । परे॑ण । अव॑रम् । अ॒मु॒र॒॥११.५॥

पदार्थ : (अङ्ग) हे (स्वधावन्) आत्मधारणवाले, स्वाधीन (सुप्रणीते) हे उत्तम नीतिवाले (वरुण) श्रेष्ठ पुरुष ! (त्वम्) तू (हि) ही (विश्वा) सब (जनिमा) उत्पन्न लोकों को (वेत्थ) जानता है (किम्) क्या (एना) इस (रजसः) लोक से (परः) परे (अन्यत्) और कुछ (अस्ति) है। (अमुर) हे गतिशील ! (किम्) क्या (एना) इस (परेण) पर की अपेक्षा (अवरम्) कुछ पीछे [अधिक दूर] रहनेवाला ॥५॥"

भावार्थ :

टिप्पणी :५−(त्वम्) (हि) निश्चयेन (अङ्ग) सम्बोधने। हे (वरुण) हे श्रेष्ठ (स्वधावन्) हे आत्मधारणयुक्त (विश्वा) सर्वाणि (वेत्थ) जानासि (जनिमा) जन्मानि। भुवनानि (सुप्रणीते) हे शोभननीतियुक्त, हे सुनायक (किम्) (रजसः) लोकात् (एना) विभक्तेरेकारः। अस्मात्। दृश्यमानात् (परः) परस्तात्। दूरदेशे (अन्यत्) भिन्नम् (अस्ति) वर्तते (एना) अनेन (किम्) (परेण) दूरदेशेन (अवरम्) पश्चाद्वर्तमानं दूरगतम् (अमुर) असेरुरन्। उ० १।४२। इति अम गतौ−उरन्। हे गतिशील ! उद्योगिन् ॥