Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 5 / 13 / 5

कैरा॑त॒ पृश्न॒ उप॑तृण्य॒ बभ्र॒ आ मे॑ शृणु॒तासि॑ता॒ अली॑काः। मा मे॒ सख्युः॑ स्ता॒मान॒मपि॑ ष्ठाताश्रा॒वय॑न्तो॒ नि वि॒षे र॑मध्वम् ॥ 5॥

Veda : Atharvaveda | Kand : 5 | Sukta : 13 | Paryay : | Mantra No : 5

In Hindi:

ऋषि : गरुत्मान् | देवता : तक्षकः | छन्द : त्रिष्टुप् | स्वर :

विषय : दोषनिवारण के लिये उपदेश।

पदपाठ : कैरा॑त । पृश्ने॑ । उप॑ऽतृण्य । बभ्रो॒ इति॑ । आ । मे॒ । शृ॒ण॒त॒ । असि॑ता: । अली॑का: । मा । मे॒ । सख्यु॑: । स्ता॒मान॑म् । अपि॑ । स्था॒त॒ । आ॒ऽश्रा॒वय॑न्त: । नि । वि॒षे । र॒म॒ध्व॒म् । १३.५॥

पदार्थ : (कैरात) हे किरात अर्थात् शूकरादि के फिरने के स्थान में रहनेवाले ! (पृश्ने) हे चिपटनेवाले ! (उपतृण्य) हे बागड़ [घासस्थान] में दबक जानेवाले ! (बभ्रो) हे भूरे रंगवाले ! (असिताः) हे काले वर्णवालो ! (अलीकाः) हे तुच्छ जीवो ! तुम (मे) मेरी (आ) भले प्रकार (शृणुत) सुनो। (मे) मेरे (सख्युः) मित्र के (स्तामानम्) घर के (अपि=अभि) पास (मा स्थात) मत ठहरो। (आश्रावयन्तः) अच्छे प्रकार सुनते हुए तुम (विषे) इस विष में (नि रमध्वम्) चुपचाप ठहरे रहो ॥५॥"

भावार्थ :

टिप्पणी :५−(कैरात) इगुपधज्ञाप्रीकिरः कः। पा० ३।१।१३५। इति कॄ−विक्षेपे−क। किराः शूकरादयोऽतन्ति यत्र। अत−अण्। किरातः शूकरादिगमनदेशः। तत्र जातः। पा० ४।३।२५। इति किरात−अण्। शूकरादिगमनदेशोत्पन्न, सर्प ! (पृश्ने) स्पृश−नि। हे स्पर्शनशील (उपतृण्य) उपतृण−यत्। उपगततृणदेशे भव (बभ्रो) डुभृञ्−कु। हे पिङ्गलवर्ण (आ) समन्तात् (मे) मम वचनम् (शृणुत) आकर्णयत (असिताः) कृष्णवर्णाः (अलीकाः) अलीकादयश्च। उ० ४।२५। इति अल वारणे−कीकन्। हे निवारणीयाः। हे घृणिता जीवाः (मा) निषेधे (मे) मम (सख्युः) मित्रस्य (स्तामानम्) सर्वधातुभ्यो मनिन्। उ० ४।१४५। इति ष्टै वेष्टने−मनिन्। वेष्टनशीलं गृहम् (अपि स्थात) माङि लुङि अडभावः। अभितिष्ठत प्राप्नुत (आश्रावयन्तः) स्वार्थे (णिच्) समन्तात् शृण्वन्तः (विषे) (नि रमध्वम्) निवर्तध्वम्। शान्ता भवत ॥