Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 5 / 17 / 9

ब्रा॑ह्म॒ण ए॒व पति॒र्न रा॑ज॒न्यो॒ न वैश्यः॑। तत्सूर्यः॑ प्रब्रु॒वन्ने॑ति प॒ञ्चभ्यो॑ मान॒वेभ्यः॑ ॥ 9॥

Veda : Atharvaveda | Kand : 5 | Sukta : 17 | Paryay : | Mantra No : 9

In Hindi:

ऋषि : मयोभूः | देवता : ब्रह्मजाया | छन्द : अनुष्टुप् | स्वर :

विषय : ब्रह्म विद्या का उपदेश।

पदपाठ : ब्रा॒ह्म॒ण: । ए॒व । पति॑: । न । रा॒ज॒न्य᳡: । न । वैश्य॑: । तत् । सूर्य॑: । प्र॒ऽब्रु॒वन् । ए॒ति॒ । प॒ञ्चऽभ्य॑:। मा॒न॒वेभ्य॑: ॥१७.९॥

पदार्थ : (ब्राह्मणः) वेदवेत्ता ब्राह्मण (एव) ही (पतिः) रक्षक है, (न) न (राजन्यः) क्षत्रिय और (न) न (वैश्यः) वैश्य है। (तत्) यह बात (सूर्यः) सर्वप्रेरक परमेश्वर (पञ्चभ्यः) विस्तृत (मानवेभ्यः) मननशील मनुष्यों को (प्रब्रुवन्) कहता हुआ (एति) चलता है ॥९॥"

भावार्थ :

टिप्पणी :९−(ब्राह्मणः) वेदवेत्ता (एव) निश्चयेन (पतिः) रक्षकः (न) निषेधे (राजन्यः) राजेरन्यः। उ० ३।१००। इति राजृ दीप्तौ ऐश्ये च−अन्य। ऐश्वर्यवान्। क्षत्रियः (न) (वैश्यः) विश्-ष्यञ्। विड्भ्यः प्रजाभ्यो मनुष्येभ्यो वा हितः। वणिक्। व्यवहर्ता (तत्) वचनम् (सूर्यः) सविता सर्वप्रेरकः परमेश्वरः (प्रब्रुवन्) प्रकथयन् (एति) गच्छति (पञ्चभ्यः) सप्यशूभ्यां तुट् च। उ० १।१४७। इति पचि विस्तारे व्यक्तीकारे च−कनिन्। विस्तृतेभ्यः (मानवेभ्यः) मननशीलेभ्यो मनुष्येभ्यः ॥