Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 5 / 19 / 5

क्रू॒रम॑स्या आ॒शस॑नं तृ॒ष्टं पि॑शि॒तम॑स्यते। क्षी॒रं यद॑स्याः पी॒यते॒ तद्वै पि॒तृषु॒ किल्बि॑षम् ॥ 5॥

Veda : Atharvaveda | Kand : 5 | Sukta : 19 | Paryay : | Mantra No : 5

In Hindi:

ऋषि : मयोभूः | देवता : ब्रह्मगवी | छन्द : अनुष्टुप् | स्वर :

विषय : नास्तिक के तिरस्कार का उपदेश।

पदपाठ : क्रू॒रम् । अ॒स्या॒: । आ॒ऽशस॑नम् । तृ॒ष्टम् । पि॒शि॒तम् । अ॒स्य॒ते॒ । क्षी॒रम् । यत् । अ॒स्या॒: । पी॒यते॑ । तत् । वै । पि॒तृषु॑ । किल्बि॑षम् ॥१९.५॥

पदार्थ : (अस्याः) इस [वेदवाणी] का (आशसनम्) सताना (क्रूरम्) क्रूर, और (पिशितम्) ख्ण्डन (तृष्टम्) प्यास के समान दाहजनक (अस्यते) जाना जाता है। (अस्यः) इसका (यत्) जो (क्षीरम्) पीड़ा हटानेवाला कर्म (पीयते) नष्ट किया जाता है, (तत्) वह (वै) निश्चय करके (पितृषु) पालन करनेवाले शूर वीरों में (किल्बिषम्) पाप होता है ॥५॥"

भावार्थ :

टिप्पणी :५−(क्रूरम्) कृतेश्छः क्रू च। उ० २।२१। कृती छेदने−रक्, धातोः क्रू। कुरुः कृन्ततेः क्रूरमित्यप्यस्य भवति−निरु० ६।२२। कठिनम्। निर्दयम् (अस्याः) गोः। वाण्याः (आशसनम्) शसु हिंसायाम्−ल्युट्। आहननम् (तृष्टम्) पिपासावद् दाहजनकम् (पिशितम्) पिश अवयवे−क्त। खण्डनम् (अस्यते) अस गतौ। गम्यते ज्ञायते (क्षीरम्) क्षी हिंसायाम्−क्विप्, ईर गतौ कम्पने च−अण्−इति शब्दस्तोममहानिधिः। क्षीरं क्षरतेर्घसेर्वेरो नामकरणः−निरु० २।५। पीडायाः प्रेरकं दूरीकारकं कर्म (यत्) (अस्याः) (पीयते) पीयति हिंसाकर्मा−निरु० ४।२५। हिंस्यते शत्रुणा (तत्) (वै) अवश्यम् (पितृषु) पालकेषु शूरेषु (किल्बिषम्) किलेर्बुक् च। उ० १।५१। इति किल शुक्लतायां पीडायां च−टिषच् बुक् च। किल्बिषं किल्भिदं सुकृतकर्मणो भयं कीर्तिमस्य भिनत्तीति वा−निरु० ११।२४। अपराधः पापम् ॥