Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 5 / 22 / 14

ग॒न्धारि॑भ्यो॒ मूज॑व॒द्भ्योऽङ्गे॑भ्यो म॒गधे॑भ्यः। प्रै॒ष्यन् जन॑मिव शेव॒धिं त॒क्मानं॒ परि॑ दद्मसि ॥14॥

Veda : Atharvaveda | Kand : 5 | Sukta : 22 | Paryay : | Mantra No : 14

In Hindi:

ऋषि : भृग्वङ्गिराः | देवता : तक्मनाशनः | छन्द : अनुष्टुप् | स्वर :

विषय : रोग नाश करने का उपदेश।

पदपाठ : ग॒न्धारि॑भ्य: । मूज॑वत्ऽभ्य:। अङ्गे॑भ्य: । म॒गधे॑भ्य: । प्र॒ऽए॒ष्यन् । जन॑म्ऽइव । शे॒व॒ऽधिम् ।त॒क्मान॑म् । परि॑ । द॒द्म॒सि॒ ॥२२.१४॥

पदार्थ : (गन्धारिभ्यः) हिंसा पहुँचानेवाले, (मूजवद्भ्यः) मूँज आदि घासवाले, (अङ्गेभ्यः) अप्रधान और (मगधेभ्यः) दोष धारण करनेवाले देशों के लिये (जनम् इव) पामर पुरुष के समान, (शेवधिम्) सोने के आधार (तक्मानम्) दुःखित जीवन करनेवाले ज्वर को (प्रैष्यन्=प्रैष्यन्तः) आगे बढ़ते हुए (परि दद्मसि) हम त्यागते हैं ॥१४॥"

भावार्थ :

टिप्पणी :१४−(गन्धारिभ्यः) गन्ध−आरिभ्यः। गन्ध हिंसागतियाचनेषु−अच्। वसिवपियजि०। उ० ४।१२५। इति गन्ध+ऋ गतौ−इञ्। हिंसाप्रापकेभ्यः (मूजवद्भ्यः) म० ५। मुञ्जादितृणयुक्तेभ्यः (अङ्गेभ्यः) अङ्ग लक्षणे−अच्। अङ्गेति क्षिप्रनामाञ्चितमेवाङ्कितं भवति−निरु० ५।१७। अप्रधानेभ्यः (मगधेभ्यः) मगि सर्पणे−अच्। मगं दोषं दधातीति। आतोऽनुपसर्गे कः। पा० ३।२।३। इति मग+धा−क। दोषधारकेभ्यो देशेभ्यः (प्रैष्यन्) प्र+इण् गतौ−लृटः शतृ, एकवचनं छान्दसम्। प्रैष्यन्तः। प्रगमिष्यन्तः (जनम्) पामरं पुरुषम् (इव) यथा (शेवधिम्) इण्शीभ्यां वन्। उ० १।१५२। इति शीङ् स्वप्ने−वन्। कर्मण्यधिकरणे च। पा० ३।३।५३। इति शेव+धाञ्−कि। शयनाधारम् (तक्मानम्) कृच्छ्रजीवनकरं ज्वरम् (परि दद्मसि) परि त्यजामः ॥