Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 5 / 28 / 4

इ॒ममा॑दित्या॒ वसु॑ना॒ समु॑क्षते॒मम॑ग्ने वर्धय वावृधा॒नः। इ॒ममि॑न्द्र॒ सं सृ॑ज वी॒र्ये॑णा॒स्मिन्त्रि॒वृच्छ्र॑यतां पोषयि॒ष्णु ॥ 4॥

Veda : Atharvaveda | Kand : 5 | Sukta : 28 | Paryay : | Mantra No : 4

In Hindi:

ऋषि : अथर्वा | देवता : अग्न्यादयः | छन्द : त्रिष्टुप् | स्वर :

विषय : रक्षा और ऐश्वर्य का उपदेश।

पदपाठ : इ॒मम् । आ॒दि॒त्या॒: । वसु॑ना । सम् । उ॒क्ष॒त॒ । इ॒मम् । अ॒ग्ने॒ । वर्ध॒य॒ । व॒वृ॒धा॒न:। इ॒मम् । इ॒न्द्र॒ । सम् । सृ॒ज॒ । वी॒र्ये᳡ण । अ॒स्मिन् । त्रि॒ऽवृत् । श्र॒य॒ता॒म् । पो॒ष॒यि॒ष्णु ॥२८.४॥

पदार्थ : (आदित्याः) हे तेजस्वी पुरुषो ! (इमम्) इस पुरुष को (वसुना) धन से (सम्) अच्छे प्रकार (उक्षत) सींचो, (अग्ने) हे सर्वज्ञ परमात्मन् ! (वावृधानः) बढ़ता हुआ तू (इमम्) पुरुष को (वर्धय) बढ़ा, (इन्द्र) हे परम ऐश्वर्यवाले जगदीश्वर ! (इमम्) इस पुरुष को (वीर्येण) वीरता से (सं सृज) संयुक्त कर। (अस्मिन्) इस पुरुष में (पोषयिष्णु) पुष्टि देनेवाली (त्रिवृत्) त्रिवृति [म० १] (श्रयताम्) ठहरी रहे ॥४॥"

भावार्थ :

टिप्पणी :४−(इमम्) पुरुषम् (आदित्याः) अ० १।८।१। तेजस्विनः पुरुषाः (वसुना) धनेन (सम्) सम्यक् (उक्षत) सिञ्चत (अग्ने) सर्वज्ञ परमेश्वर (वर्धय) समर्धय (वावृधानः) अ० १।८।४। प्रवृद्धः (इमम्) (इन्द्र) परमैश्वर्यवन् जगदीश्वर (सं सृज) संयोजय (वीर्येण) वीरभावेन (अस्मिन्) पुरुषे (त्रिवृत्) हरितरजतायोरूपा त्रिवृतिः (श्रयताम्) तिष्ठतु (पोषयिष्णु) अ० ३।१४।६। पोषकम् ॥