Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 6 / 3 / 1

पा॒तं न॑ इन्द्रापूष॒णादि॑तिः पान्तु म॒रुतः॑। अपां॑ नपात्सिन्धवः स॒प्त पा॑तन॒ पातु॑ नो॒ विष्णु॑रु॒त द्यौः ॥ 1॥

Veda : Atharvaveda | Kand : 6 | Sukta : 3 | Paryay : | Mantra No : 1

In Hindi:

ऋषि : अथर्वा | देवता : इन्द्रापूषणौ, अदितिः, मरुद्गणः, अपांनपात्, सिन्धुसमूहः, विष्णुः, द्यौः | छन्द : पथ्याबृहती | स्वर :

विषय : वृद्धि करने के लिये उपदेश।

पदपाठ : पा॒तम् । न॒: । इ॒न्द्रा॒पू॒ष॒णा॒ । अदि॑ति: । पान्तु॑ । म॒रुत॑: । अपा॑म् । न॒पा॒त् । सि॒न्ध॒व॒: । स॒प्त । पा॒त॒न॒ । पातु॑ । न॒: । विष्णु॑: । उ॒त। द्यौ: ॥३.१॥

पदार्थ : (इन्द्रापूषणा) हे बिजुली और वायु (नः) हमें (पातम्) बचाओ। (अदितिः) अदीन प्रकृति और (मरुतः) विद्वान् लोग (पान्तु) बचावें। (अपाम्) हे जीवों के (नपात्) न गिरानेवाले, अग्नि [शरीर बल] और (सप्त) हे नित्य सम्बन्धवाले वा सात (सिन्धवः) गतिशील [त्वचा, नेत्र, कान, जिह्वा, नाक, मन और बुद्धि] (पातन) बचाओ (विष्णुः) सर्वव्यापक परमेश्वर (उत) और (द्यौ) प्रकाशमान बुद्धि (नः) हमें (पातु) बचावे ॥१॥"

भावार्थ :

टिप्पणी :१−(पातम्) रक्षतम् (नः) अस्मान् (इन्द्रापूषणा) इन्द्रश्च पूषा च। देवताद्वन्द्वे च। पा० ६।३।२६। इति पूर्वपदस्य आनड्। हे विद्युद्वायू (अदितिः) अ० २।२८।४। अदीना प्रकृतिः (पान्तु) रक्षन्तु (मरुतः) अ० १।२०।१। ऋत्विजः−निघ–० ३।३८। विद्वांसः (अगम्) जीवानाम्−दयानन्दभाष्ये, य० १७।३०। (नपात्) अ० १।१३।२। न पातयिता। अग्निः। शारीरिकबलमित्यर्थः (सिन्धवः) अ० ४।३।१। स्यन्दनशीलाः। सप्त ऋषयः षडिन्द्रियाणि विद्या सप्तमी−निरु० १२।३७। त्वक्चक्षुःश्रवणरसनाघ्राणमनोबुद्धयः (सप्त) अ० ४।११।९। समवेताः। संख्यावाचको वा। (पातन) तप्तनप्तनथनाश्च। पा० ७।१।४५। इति मध्यमपुरुषस्य तशब्दस्य तन आदेशः। पात। रक्षत (पातु) रक्षतु (नः) अस्मान् (विष्णुः) अ० ३।२०।४। सर्वव्यापकः परमेश्वरः (उत) अपि च (द्यौः) प्रकाशमाना बुद्धिः ॥