Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 6 / 33 / 3

स नो॑ ददातु॒ तां र॒यिमु॒रुं पि॒शङ्ग॑संदृशम्। इन्द्रः॒ पति॑स्तु॒विष्ट॑मो॒ जने॒ष्वा ॥3॥

Veda : Atharvaveda | Kand : 6 | Sukta : 33 | Paryay : | Mantra No : 3

In Hindi:

ऋषि : जाटिकायन | देवता : इन्द्रः | छन्द : गायत्री | स्वर :

विषय : सर्व लक्ष्मी पाने को उपदेश।

पदपाठ : स: । न॒: । द॒दा॒तु॒ । ताम् । र॒यिम् । उ॒रुम् । पि॒शङ्ग॑ऽसंदृशम् । इन्द्र॑:। पति॑: । तु॒विऽत॑म: । जने॑षु । आ ॥३३.३॥

पदार्थ : (सः) वह (नः) हमें (उरुम्) विस्तृत (पिशङ्गसंदृशम्) अपने अवयवों को दिखानेवाली (ताम्) उस (रयिम्) लक्ष्मी को (ददातु) देवे। (आ) हाँ, (इन्द्रः) परम ऐश्वर्यवान् ईश्वर (पतिः) पालनेवाला और (जनेषु) सब मनुष्यों में (तुविष्टमः) सब से महान् है ॥३॥"

भावार्थ :

टिप्पणी :३−(सः) इन्द्रः (नः) अस्मभ्यम् (ददातु) प्रयच्छतु (ताम्) प्रसिद्धाम् (रयिम्) लक्ष्मीम्। रयिः, धननाम निघ० २।१०। (उरुम्) विस्तृताम् (पिशङ्गसंदृशम्) विडादिभ्यः कित्। उ० १।१२१। इति पिश अवयवे−अङ्गच् कित्+सम्−दृशिर् दर्शने−क्विप्। स्वावयवदर्शयित्रीम्। सर्वपूर्णाम् (इन्द्रः) परमेश्वरः (पतिः) पालकः (तुविष्टमः) भुवः कित्। उ० २।११२। इति तु वृद्धौ−इसिन् कित्, तमप्। प्रवृद्धतमः। महत्तमः (जनेषु) मनुष्येषु (आ) अङ्गीकारे समुच्चये वा ॥