Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 6 / 45 / 1

प॒रोऽपे॑हि मनस्पाप॒ किमश॑स्तानि शंससि। परे॑हि॒ न त्वा॑ कामये वृ॒क्षां वना॑नि॒ सं च॑र गृ॒हेषु॒ गोषु॑ मे॒ मनः॑ ॥ 1॥

Veda : Atharvaveda | Kand : 6 | Sukta : 45 | Paryay : | Mantra No : 1

In Hindi:

ऋषि : अङ्गिरस् | देवता : दुःष्वप्ननाशनम् | छन्द : पथ्यापङ्क्तिः | स्वर :

विषय : मानसिक पाप के नाश का उपदेश।

पदपाठ : प॒र: । अप॑ । इ॒हि॒ । म॒न॒:ऽपा॒प॒ । किम् । अश॑स्तानि । शं॒स॒सि॒ । परा॑ । इ॒हि॒ । न । त्वा॒ । का॒म॒ये॒ । वृ॒क्षान् । वना॑नि । सम् । च॒र॒ । गृ॒हेषु॑ । गोषु॑ । मे॒ । मन॑: ॥४५.१॥

पदार्थ : (मनस्पाप) हे मानसिक पाप ! (परः) दूर (अप इहि) हट जा (किम्) क्या (अशस्तानि) बुरी बातें (शंससि) तू बताता है। (परा इहि) दूर चला जा, (त्वा) तुझको (न कामये) मैं नहीं चाहता, (वृक्षान्) वृक्षों और (वनानि) वनों में (सम् चर) फिरता रह, (गृहेषु) घरों में और (गोषु) गौ आदि पशुओं में (मे) मेरा (मनः) मन है ॥१॥"

भावार्थ :

टिप्पणी :१−(परः) परस्तात्। दूरदेशे (अपेहि) अपगच्छ (मनस्पाप) हे मनसि चेतसि वर्तमान पाप (किम्) निन्दायाम् (अशस्तानि) अशोभनानि कर्माणि (शंससि) कथयसि (परेहि) दूरे गच्छ (न) निषेधे (त्वा) त्वाम् (कामये) अभिलष्यामि (वृक्षान्) वृक्षवासिनः पुरुषान्−इत्यर्थः (वनानि) वनचरान् दस्य्वादीनिति यावत् (सं चर) सम्यक् प्राप्नुहि (गृहेषु) गृहावस्थितेषु जनेषु (गोषु) गवादिपशुषु, तेषां रक्षण इत्यर्थः (मे) मम (मनः) अन्तःकरणम् ॥