Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 6 / 49 / 3

सु॑प॒र्णा वाच॑मक्र॒तोप॒ द्यव्या॑ख॒रे कृष्णा॑ इषि॒रा अ॑नर्तिषुः। नि यन्नि॒यन्ति॒ उप॑रस्य॒ निष्कृ॑तिं पु॒रू रेतो॑ दधिरे सूर्यश्रितः ॥3॥

Veda : Atharvaveda | Kand : 6 | Sukta : 49 | Paryay : | Mantra No : 3

In Hindi:

ऋषि : गार्ग्य | देवता : अग्निः | छन्द : विराड्जगती | स्वर :

विषय : प्रलय और सृष्टिविद्या का उपदेश।

पदपाठ : सु॒ऽप॒र्णा: । वाच॑म् । अ॒क्र॒त॒ । उप॑ । द्यवि॑ । आ॒ऽख॒रे । कृष्णा॑: । इ॒षि॒रा: । अ॒न॒र्ति॒षु॒: । नि । यत् । नि॒ऽयन्ति॑ । उप॑रस्य । नि:ऽकृ॑तिम् । पु॒रु । रेत॑: । द॒धि॒रे॒ । सू॒र्य॒ऽश्रित॑: ॥४९.३॥

पदार्थ : (सूर्यश्रितः) सूर्य में ठहरी हुई (सुपर्णाः) अच्छे प्रकार पालन करनेवाली वा बड़ी शीघ्रगामी किरणों ने (आखरे) खननयोग्य (द्यवि) अन्तरिक्ष में (उप=उपेत्य) मिलकर (वाचम्) शब्द (अक्रत) किया, और (कृष्णाः) रस खैंचनेवाली (इषिराः) चलनेवाली [उन किरणों] ने (अनर्त्तिषुः) नृत्य किया। (यत्) जब वे (उपरस्य) मेघ की (निष्कृतिम्) रचना की ओर (नि) नियम से (नियन्ति) झुकती हैं, [तब] उन्होंने (पुरु) बहुत (रेतः) वृष्टि जल (दधिरे) धारण किया है ॥३॥"

भावार्थ :

टिप्पणी :३−(सुपर्णाः) अ० १।२४।१। सुपालकाः। शोभनपतनाः किरणाः (वाचम्) शब्दम् (अक्रत) करोतेर्लुङि। मन्त्रे घसह्वरणश०। पा० २।४।८०। इति च्लेर्लुक्। अकृषत। कृतवन्तः (उप) उपेत्य (द्यवि) गमेर्डोसिः। उ० २।६९। इति द्युत दीप्तौ−डोसि। द्योतते द्यौः। अन्तरिक्षे (आखरे) डरो वक्तव्यः। वा० पा० ३।३।१२५। इति आङ्+खनु अवदारणे−डर। समन्तात् खननीये (कृष्णाः) अ० ५।२३।५। रसानामाकर्षकाः (इषिराः) अ० ५।१।९। गमनशीलाः (अनर्तिषुः) नृती गात्रविनामे−लुङ्। नृत्यन्ति स्म। चेष्टां कृतवन्तः (नि) नियमेन (यत्) यदा (नियन्ति) नीचैः प्राप्नुवन्ति (उपरस्य) म० २। उपर उपलो मेघो भवत्युपरमन्तेऽस्मिन्नभ्राण्युपरता आप इति वा−निरु० २।२१। मेघस्य (निष्कृतिम्) अ० ४।२७।६। निर्माणम् (उरु) बहुलम् (रेतः) अ० २।–२८।५। जलम्−निघ० १।१२। (दधिरे) धृतवन्तः (सूर्यश्रितः) श्रिञ्−सेवायाम्−क्विप्। सूर्यं प्राप्ताः किरणाः ॥