Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 6 / 73 / 1

एह या॑तु॒ वरु॑णः॒ सोमो॑ अ॒ग्निर्बृह॒स्पति॒र्वसु॑भि॒रेह या॑तु। अ॒स्य श्रिय॑मुप॒संया॑त॒ सर्व॑ उ॒ग्रस्य॑ चे॒त्तुः संम॑नसः सजाताः ॥ 1॥

Veda : Atharvaveda | Kand : 6 | Sukta : 73 | Paryay : | Mantra No : 1

In Hindi:

ऋषि : अथर्वा | देवता : सामंनस्यम्, वरुणः, सोमः, अग्निः, बृहस्पतिः, वसुगणः | छन्द : भुरिगनुष्टुप् | स्वर :

विषय : विद्वानों से समागम का उपदेश।

पदपाठ : आ । इ॒ह । या॒तु॒ । वरु॑ण: । सोम॑: । अ॒ग्नि: । बृह॒स्पति॑: । असु॑ऽभि: । आ । इ॒ह । या॒तु॒ । अ॒स्य । श्रिय॑म् । उ॒प॒ऽसंया॑त । सर्वे॑ । उ॒ग्रस्य॑ । चे॒त्तु: । सम्ऽम॑नस: । स॒ऽजा॒ता॒: ॥७३.१॥

पदार्थ : (वरुणः) सूर्य्यसमान प्रतापी और (सोमः) चन्द्रसमान शान्तस्वभाव पुरुष (इह) यहाँ पर (आ यातु) आवे और (अग्निः) अग्निसमान तेजस्वी (बृहस्पतिः) बड़ी वेदवाणी का रक्षा करनेवाला पुरुष (वसुभिः) उत्तम-उत्तम गुणों वा धनों के साथ (इह) यहाँ पर (आयातु) आवे। (सजाताः) हे समान जन्मवाले बान्धवो ! (सर्वे) तुम सब (संमनसः) एकमन होकर, (अस्य) इस (उग्रस्य) तेजस्वी (चेत्तुः) ज्ञानवान् पुरुष की (श्रियम्) सम्पदा को (उपसंयात) भली-भाँति प्राप्त करो ॥१॥"

भावार्थ :

टिप्पणी :१−(आयातु) आगच्छतु (इह) अस्मिन् गृहे (वरुणः) सूर्य्यवत् प्रतापी पुरुषः (बृहस्पतिः) बृहत्या वेदवाण्याः पालकः (वसुभिः) श्रेष्ठगुणैर्धनैर्वा (इह आ यातु) (अस्य) गृहस्थस्य (श्रियम्) सम्पदाम् (उपसंयात) उप आदरेण सम्यक् प्राप्नुत (सर्वे) समस्ताः पूर्वोक्ता यूयम् (उग्रस्य) तेजस्विनः (चेत्तुः) कर्त्तव्याकर्त्तव्यस्य ज्ञातुः (संमनसः) संमिलितचित्ताः (सजाताः) हे समानजन्मानो बान्धवाः ॥