Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 6 / 75 / 1

निर॒मुं नु॑द॒ ओक॑सः स॒पत्नो॒ यः पृ॑त॒न्यति॑। नै॑र्बा॒ध्ये᳡न ह॒विषेन्द्र॑ एनं॒ परा॑शरीत् ॥ 1॥

Veda : Atharvaveda | Kand : 6 | Sukta : 75 | Paryay : | Mantra No : 1

In Hindi:

ऋषि : कबन्ध | देवता : इन्द्रः | छन्द : अनुष्टुप् | स्वर :

विषय : शत्रु के हटाने का उपदेश।

पदपाठ : नि: । अ॒मुम् । नु॒दे॒ । ओक॑स: । स॒ऽपत्न॑: । य: । पृ॒त॒न्यति॑ । नै॒:ऽबा॒ध्ये᳡न । ह॒विषा॑ । इन्द्र॑: । ए॒न॒म् । परा॑ । अ॒श॒री॒त् ॥७५.१॥

पदार्थ : मैं (अमुम्) उस [शत्रु] को (ओकसः) उसके घर से (निर्नुदे) निकालता हूँ, (यः सपत्नः) जो शत्रु (पृतन्यति) सेना चढ़ाता है। (इन्द्रः) प्रतापी राजा ने (एनम्) उसको (नैर्बाध्येन) अपने निर्विघ्न (हविषा) ग्राह्य व्यवहार से (परा अशरीत्) मार गिराया है ॥१॥"

भावार्थ :

टिप्पणी :१−(निर्नुदे) अहं निर्गमयामि (अमुम्) शत्रुम् (ओकसः) तस्य गृहात् (सपत्नः) शत्रुः (यः) (पृतन्यति) सुप आत्मनः क्यच्। पा० ३।१।८। इति पृतना−क्यच्। कव्यध्वरपृतनस्यर्चि लोपः। पा० ७।४।३९। इति इत्याकारलोपः। पृतनां सेनामात्मन इच्छति (नैर्बाध्येन) ऋहलोर्ण्यत् पा० ३।१।१२४। इति निर्+बाधृ लोडने−ण्यत्। प्रज्ञादिभ्यश्च पा० ५।४।३८। इति स्वार्थे अण्। निर्बाध्येन। अबाधनीयेन (हविषा) ग्राह्येण व्यवहारेण (इन्द्रः) प्रतापी राजा (एनम्) शत्रुम् (परा) दूरे (अशरीत्) शॄ हिंसायाम्−लुङ्। अशारीत्। पराङ्मुखं हतवान् ॥