Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 6 / 83 / 2

एन्येका॒ श्येन्येका॑ कृ॒ष्णैका॒ रोहि॑णी॒ द्वे। सर्वा॑सा॒मग्र॑भं॒ नामावी॑रघ्नी॒रपे॑तन ॥ 2॥

Veda : Atharvaveda | Kand : 6 | Sukta : 83 | Paryay : | Mantra No : 2

In Hindi:

ऋषि : अङ्गिरा | देवता : सूर्यः, चन्द्रः | छन्द : अनुष्टुप् | स्वर :

विषय : रोग नाश करने का उपदेश।

पदपाठ : एनी॑ । एका॑ । श्येनी॑ । एका॑ । कृ॒ष्णा । एका॑ । रोहि॑णी॒ इति॑ ।द्वे इति॑ । सर्वा॑साम् । अ॒ग्र॒भ॒म् । नाम॑ । अवी॑रऽघ्नी: । अप॑ । इ॒त॒न॒ ॥८३.२॥

पदार्थ : (एका) एक [गण्डमाला आदि] (एनी) चितकबरी, (एका) एक (श्येनी) श्वेतवर्ण, (एका) एक (कृष्णा) काली और (द्वे) दो (रोहिणी) लाल रंग हैं। (सर्वासाम्) सब [गण्डमाला आदि पीड़ाओं] का (नाम) नाम (अग्रभम्) मैंने ग्रहण किया है, (अवीरघ्नीः) अवीरों कातरों को नाश करती हुई (अप इतन) तुम चली जाओ ॥२॥"

भावार्थ :

टिप्पणी :२−(एनी) हसिमृग्रिण्०। उ० ३।८६। इति इण् गतौ−तन्। वर्णादनुदात्तात्तोपधात्तो नः। पा० ४।१।३९। इति ङीप्, तस्य च नः। चित्रवर्णा (एका) गण्डमालादिपीडा (श्येनी) हृश्याभ्यामितन्। उ० ३।९३। इति श्यैङ् गतौ−इतन्। पूर्ववद्ङीप्, तस्य च नः। श्वेतवर्णा (एका) (कृष्णा) कृष्णवर्णा (एका) (रोहिणी) रोहितशब्दस्य पूर्ववद्ङीप्नकारौ। रोहिण्यौ। लोहितवर्णे वातपित्तश्लेष्मवशाद् वर्णनानात्वाद् एतासां नानात्वम् (सर्वासाम्) अपचिताम् (अग्रभम्) अहमग्रहीषम् (नाम) प्रसिद्धौ (अवीरघ्नीः) बहुलं छन्दसि। पा० ३।२।८९। इति वीर+हन वधे−क्विप्। ऋन्नेभ्यो ङीप्। पा० ४।१।५। इति ङीप्। अल्लोपोऽनः। पा० ६।४।१३४। अकारलोपः। वा च्छन्दसि। पा० ६।१।१०६। इति पूर्वसवर्णदीर्घः। अवीरान् कातरान् सत्यः (अपेतन) तप्तनप्तनथनाश्च। पा० ७।१४५। इति एतेर्लोटि तस्य तनादेशः। अपगच्छत ॥