Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 6 / 91 / 3

आप॒ इद्वा उ॑ भेष॒जीरापो॑ अमीव॒चात॑नीः। आपो॒ विश्व॑स्य भेष॒जीस्तास्ते॑ कृण्वन्तु भेष॒जम् ॥3॥

Veda : Atharvaveda | Kand : 6 | Sukta : 91 | Paryay : | Mantra No : 3

In Hindi:

ऋषि : भृग्वङ्गिरा | देवता : आपः | छन्द : अनुष्टुप् | स्वर :

विषय : आत्मिक दोष नाश करने का उपदेश।

पदपाठ : आप॑: । इत् । वै । ऊं॒ इति॑। भे॒ष॒जी: । आप॑: । अ॒मी॒व॒ऽचात॑नी: । आप॑: । विश्व॑स्य । भे॒ष॒जी: । ता: । ते॒ । कृ॒ण्व॒न्तु॒ । भे॒ष॒जम् ॥९१.३॥

पदार्थ : (आपः) शुभकर्म वा जल (इत् वै उ) अवश्य ही (भेषजीः=०−ज्यः) भयनिवारक है, (आपः) शुभकर्म वा जल (अमीवचातनीः=०−न्यः) पीडानाशक है। (आपः) शुभ कर्म वा जल (विश्वस्य) सब के (भेषजीः) भयनिवारक है, (ताः) वे (ते) तेरा (भेषजम्) भयनिवारण (कृण्वन्तु) करें ॥३॥"

भावार्थ :

टिप्पणी :३−(आपः) आप्नोतेर्ह्रस्वश्च उ० २।५८। इति आप्लृ व्याप्तौ−क्विप् अप्तृन्तृच्०। पा० ६।४।११। इत्युपधादीर्घः। अपः कर्मनाम−निघ० २।१। आप्यन्ते प्राप्यन्ते सुखदुःखानि याभिस्ता आपः कर्माणि−इति महीधरभाष्ये यजु० ४०।४। वेदविहितकर्माणि (इद् वा उ) इति सर्वेऽवधारणे (भेषजीः) अ० ३।७।५। भेषज्यः। भयनिवारकाः (अमीवचातनीः−रोगाणां नाशयित्र्यः (विश्वस्य) सर्वस्य (ताः) आपः (ते) तव (कृण्वन्तु) कुर्वन्तु (भेषजम्) रोगनिवर्तनम् ॥