Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 6 / 103 / 3

अ॒मी ये युध॑मा॒यन्ति॑ के॒तून्कृ॒त्वानी॑क॒शः। इन्द्र॒स्तान्पर्य॑हा॒र्दाम्ना॒ तान॑ग्ने॒ सं द्या॒ त्वम् ॥ 3॥

Veda : Atharvaveda | Kand : 6 | Sukta : 103 | Paryay : | Mantra No : 3

In Hindi:

ऋषि : उच्छोचन | देवता : अग्निः | छन्द : अनुष्टुप् | स्वर :

विषय : शत्रुओं के हराने का उपदेश।

पदपाठ : अ॒मी इति॑ । ये । युध॑म् । आ॒ऽयन्ति॑ । के॒तून् । कृ॒त्वा । अ॒नी॒क॒ऽश: । इन्द्र॑: । तान् । परि॑ । अ॒हा॒: । दाम्ना॑ । तान् । अ॒ग्ने॒ । सम् । द्य॒ । त्वम् ॥१०३.३॥

पदार्थ : (अमी ये) वे जो शत्रु (केतून्) ध्वजा पताकायें (कृत्वा) बनाकर (अनीकशः) टोली-टोली से (युधम्) युद्ध में (आयन्ति) आते हैं। (इन्द्रः) महाप्रतापी राजा ने (तान्) उन चोरों को (परि) सब ओर से (अहाः) नाश कर दिया है, (अग्ने) हे विद्वन् राजन् ! (त्वम्) तू (दाम्ना) पाश से (तान्) म्लेच्छों को (सम् द्य) बाँध ले ॥३॥"

भावार्थ :

टिप्पणी :३−(अमी) दूरे दृश्यमानाः (ये) शत्रवः (युधम्) संग्रामम् (केतून्) चायः की। उ० १।७४। चायृ पूजानिशामनयोः−तु, यद्वा, कि ज्ञाने−तु। केतुः प्रज्ञा−निघ० ३।९। केतुना कर्मणा प्रज्ञया वा−निरु० ११।२७। ज्ञापकान् ध्वजान् (कृत्वा) अनुष्ठाय (अनीकशः) अ० ५।२१।८। सघशः। अन्यत् पूर्ववत्−म० २ ॥