Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 6 / 112 / 2

उन्मु॑ञ्च॒ पाशां॒स्त्वम॑ग्न ए॒षां त्रय॑स्त्रि॒भिरुत्सि॑ता॒ येभि॒रास॑न्। स ग्राह्याः॒ पाशा॒न्वि चृ॑त प्रजा॒नन्पि॑तापु॒त्रौ मा॒तरं॑ मुञ्च॒ सर्वा॑न् ॥ 2॥

Veda : Atharvaveda | Kand : 6 | Sukta : 112 | Paryay : | Mantra No : 2

In Hindi:

ऋषि : अथर्वा | देवता : अग्निः | छन्द : त्रिष्टुप् | स्वर :

विषय : कुल की रक्षा का उपदेश।

पदपाठ : उत् । मु॒ञ्च॒ । पाशा॑न् । त्वम् । अ॒ग्ने॒ । ए॒षाम् । त्रय॑: । त्र‍ि॒ऽभि: । उत्सि॑ता: । येभि॑: । आस॑न् । स: । ग्राह्या॑: । पाशा॑न् । वि । चृ॒त॒ । प्र॒ऽजा॒नन् । पि॒ता॒पु॒त्रौ । मा॒तर॑म् । मु॒ञ्च॒ । सर्वा॑न् ॥११२.२॥

पदार्थ : (अग्ने) हे विद्वान् ! (त्वम्) तू (एषाम्) इन [पिता पुत्र और माता] के (पाशान्) फन्दों को (उन्मुञ्च) खोल दे, (त्रयः) जो तीनों (एभिः) जिन (त्रिभिः) तीनों [ऊँचे, नीचे, मध्यम पाशों] से (उत्सिताः) जकड़े हुए (आसन्) हैं। (सः) सो तू (प्रजानन्) ज्ञानी होकर (ग्राह्याः) जकड़नेवाले गठिया आदि रोग के (पाशान्) फन्दों को (वि चृत) खोल दे, (पितापुत्रौ) पिता पुत्र, (मातरम्) माता, (सर्वान्) सब को (मुञ्च) [दुःख से] मुक्त कर ॥२॥"

भावार्थ :

टिप्पणी :२−(उन्मुञ्च) वियोजय (पाशान्) क्लेशान् (त्वम्) (अग्ने) विद्वन् (एषाम्) पित्रादीनाम् (त्रयः) माता पिता पुत्र इति ये त्रयः (त्रिभिः) उत्तमाधममध्यमैः पाशैः (उत्सिताः) षिञ् बन्धने−क्त। उत्कर्षेण बद्धाः (येभिः) यैः (आसन्) लडर्थे−लङ्। सन्ति (पितापुत्रौ) आनङ् ऋतो द्वन्द्वे। पा० ६।३।२५। इति पूर्वपदस्य आनङ्। पिता च पुत्रश्च (मातरम्) जननीम् (मुञ्च) दुःखाद् विमोचय (सर्वान्)। अन्यद् गतम् ॥